By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HPCM : चिकित्सामहाविद्यालयेषु विश्वस्तरीयस्वास्थ्यसेवाः उपलब्धा: भविष्यन्ति- मुख्यमन्त्री
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > HPCM : चिकित्सामहाविद्यालयेषु विश्वस्तरीयस्वास्थ्यसेवाः उपलब्धा: भविष्यन्ति- मुख्यमन्त्री
संस्कृतगतिविधयः

HPCM : चिकित्सामहाविद्यालयेषु विश्वस्तरीयस्वास्थ्यसेवाः उपलब्धा: भविष्यन्ति- मुख्यमन्त्री

डॉ मनोज शैल
Last updated: 2024/08/03 at 10:30 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HPCM : चिकित्सामहाविद्यालयेषु विश्वस्तरीयस्वास्थ्यसेवाः उपलब्धा: भविष्यन्ति- मुख्यमन्त्री

हिमसंस्कृतवार्ता: – शिमला।

मुख्यमन्त्री सुखविन्दरसिंहसुक्ख:, डॉ. राजेन्द्रप्रसाद- चिकित्सामहाविद्यालय:, टाण्डा, इन्दिरागांधी- चिकित्सामहाविद्यालय: शिमला च इत्येतयो: समीक्षासभाया: अध्यक्षतां कुर्वन् अकथयत् यत् राज्यसर्वकार: चिकित्सामहाविद्यालयान् समर्थान् कर्तुं  साधनानि संसाधनानि च व्यापकस्तरे सर्जयित्वा सुदृढ़ान् करिष्यति। राज्यस्य महाविद्यालयाः सुदृढाः भविष्यन्ति। महाविद्यालयेषु विशेषज्ञवैद्यानां, पर्याप्तकर्मचारिणां च समुचितनियोजनं सुनिश्चितं भविष्यति इति सः अवदत्। मुख्यमन्त्री उक्तवान् यत् भविष्यस्य आवश्यकतानां प्रौद्योगिक्याः च आधारेण स्वास्थ्यसंस्थानां सुदृढीकरणे संसाधननिर्माणे च बलं दत्तमस्ति। चिकित्सामहाविद्यालयेषु स्नातकोत्तरविषयेषु आसनानां संख्यां वर्धयितुं आवश्यकं प्रक्रियां सम्पन्नं कर्तुं अपि सः निर्देशं दत्तवान्। सः सर्वेषु स्वास्थ्यसंस्थानेषु दोषाणां परिचयं कृत्वा तेषां सम्यक् समाधानं सुनिश्चितं कर्तुं अपि निर्दिष्टवान्। गुणात्मकचिकित्सासेवायै षड्-रोगिणां अनुपातेन एका उपचारिका (स्टाफनर्स) नियोजिता भविष्यति इति सः अवदत्।

टाण्डाया: डॉ. राजेन्द्रप्रसाद- चिकित्सा- महाविद्यालयस्य कार्यविधे: समीक्षां कुर्वन् मुख्यमन्त्री अवदत् यत् चिकित्सालये वैद्यैः सह परामर्शस्य प्रतीक्षायाः अवधिः न्यूनीकरिष्यते, परामर्शस्य अवधिः अपि वर्धिता भविष्यति, तदर्थं पर्याप्तसंख्यायां वैद्याः नियुक्ता: भविष्यन्ति। रोगिणां पञ्जीकरणार्थं पञ्जीकरणगणकानां संख्या अपि वर्धिता भविष्यति येन जनानां वैद्येन सह परामर्शाय बहुकालं प्रतीक्षा न कर्तव्या भवेत्। सभायां सूचितं यत् २०२३ तमे वर्षे सर्वेषु विभागेषु कुलम् ६,०५,४८९ रोगिणः चिकित्साविभागे ७२,०६९, आर्थोपेडिक्स-इत्यस्य ५६,१२४, सामान्यशल्यचिकित्सायाम् २५,८५६ रोगिणः टाण्डा चिकित्सामहाविद्यालये चिकित्सासुविधानां लाभं प्राप्तवन्तः।

मुख्यमन्त्री टाण्डा महाविद्यालये विविधपरियोजनानां निर्माणकार्यस्य अपि समीक्षां कृतवान्। सः अवदत् यत् महाविद्यालये शतशय्याक्षमतायुक्तं मानसिकस्वास्थ्यस्य उत्कृष्टताकेन्द्रं विकसितं भवति यत् शीघ्रमेव कार्यात्मकं भविष्यति तथा च बी. एससी नर्सिंग कक्षाः अपि आरभ्यन्ते। मुख्यमन्त्री महाविद्यालये विशेषज्ञवैद्यानां, पैरा मेडिकल इत्यादीनां वर्गानां विविधपदानां पूरणार्थमपि अनुमोदनं दत्तवान्।

शिमला-नगरस्य इन्दिरागान्धी- चिकित्सा- महाविद्यालयस्य समीक्षां कुर्वन् मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना तस्मिन् विविध-वर्गस्य पदं निर्माय जनानां कृते विश्वस्तरीय- स्वास्थ्य- सुविधाः सुनिश्चितं कर्तुं निर्देशाः अपि दत्ताः। सः अवदत् यत् स्वास्थ्यसंस्थाभिः सम्बद्धाः सर्वे निर्णयाः बृहत्स्तरस्य जनकल्याणस्य दृष्ट्या ग्रहीतव्याः। महाविद्यालये विविधभवनानां पुनर्स्थापनार्थं अतिरिक्तं बजटप्रावधानं भविष्यति इति सः अवदत्। सभायां कथितं यत् २०२३ तमे वर्षे इन्दिरागान्धी चिकित्सामहाविद्यालयस्य सर्वेषु विभागेषु ८,७२,८२९ रोगिणः, येषु चिकित्साविभागे १,४३,२९१ रोगिणः, आर्थोपेडिक्सविभागे ८५,१६१ रोगिणः, सामान्यशल्यचिकित्साविभागे ७७,०१२ रोगिणः च चिकित्सासुविधानां लाभं गृहीतवन्त:। मुख्यमंत्रिणा उक्तं यत् अटलसुपर- स्पेशलिटी- इन्स्टिट्यूट ऑफ मेडिकल साइंसेज, चम्याना इत्यस्य अपि निरन्तरं सुदृढीकरणं क्रियते।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, himsanskritnews him sanskritam, HP Government, HP NEWS, HPCM, IGMC Shimla, Medical Colleges, Medical education, TMC, चिकित्सा महाविद्यालय, टाण्डा मेडिकल कॉलेज, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल समाचार, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Mandi Pandoh Dam: पण्डोह- जलबन्धे गादसञ्चयः, मलिनावशेषेण द्वे द्वारे अवरुद्धे 
Next Article जयन्तीविशेष:- हिमाचलस्य निर्माता डॉ. यशवंतसिंहपरमार:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?