Mandi Pandoh Dam: पण्डोह- जलबन्धे गादसञ्चयः, मलिनावशेषेण द्वे द्वारे अवरुद्धे
कठिनपरिश्रमेण एकं द्वारं सायंकालं यावत् उद्घाटितम्
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
भाखड़ाब्यासप्रबन्धनबोर्ड अर्थात् बीबीएमबी परियोजनायाः पण्डोह-जलबन्धस्य द्वे द्वारे गादकारणात् अवरुद्धे, ते उद्घाटयितुं अधिकारिणः संघर्षं कुर्वन्ति। एते द्वारे गतत्रिदिवसेभ्य: पिहिते स्तः। अस्य कारणात् बग्गीकन्दरा अपि पिहिता। सलापड़ विद्युतगृहे (पावर हाउस) अपि गतरात्रौ विद्युतोत्पादनं स्थगितम् अस्ति। बीबीएमबी अध्यक्षः मनोज त्रिपाठी स्थानं प्राप्तवान् अस्ति तथा च तकनीकीदलम् अपि चण्डीगढतः आगतः अस्ति। द्वारे निरुद्धं मलिनावशेषं दूरीकर्तुं परिश्रमः प्रचलति। अधुना ब्या-नद्याः जलस्तरः न्यूनः अस्ति। ऋतुविभागस्य सचेतनानुसारं यदि कुल्लू-मनाल्यां प्रचण्डवृष्टिः अथवा मेघविस्फोटः इत्यादि घटना भवति तर्हि जलस्तरस्य वर्धनेन जलबन्धस्य अपि क्षतिः भवितुम् अर्हति। बग्गी-कन्दराया: स्थलं तु काष्ठैः पूरितम् अस्ति। एतानि अपसार्य एव बग्गी-कन्दरायां जलं मोक्तुं शक्यते। अतः ९९० मेगावाट् बीएसएल परियोजनायाः उत्पादनं त्रिदिवसेभ्य: स्थगितम् अस्ति। बीबीएमबी अध्यक्षः मनोज त्रिपाठी पण्डोहं प्राप्य अत्रैव शिविरं कृतवान् अस्ति। कठिनेन पराश्रमेण श्रमिकै: तकनीकीदलेन च सायंकालं यावत् एकं द्वारं उद्घाटयितुं सफलता प्राप्ता।