By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: वाई.एस.जगनमोहन-रेड्डी इत्यस्य कार्यालयं ध्वस्तम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > वाई.एस.जगनमोहन-रेड्डी इत्यस्य कार्यालयं ध्वस्तम्
राष्ट्रीयवार्ताः

वाई.एस.जगनमोहन-रेड्डी इत्यस्य कार्यालयं ध्वस्तम्

आचार्य नरेश मलोटिया
Last updated: 2024/06/23 at 8:55 AM
आचार्य नरेश मलोटिया
Share
2 Min Read
SHARE

वाई.एस.जगनमोहन-रेड्डी इत्यस्य कार्यालयं ध्वस्तम्

अमरावती(आन्ध्रप्रदेश:)- गुण्टूरमण्डलस्य ताड़ेपल्ली-नगरे वाईएसआरकाङ्ग्रेसपक्षस्य निर्माणाधीनकेन्द्रीयकार्यालयं शनिवासरे प्रातःकाले नगरनिगमस्य अधिकारिभिः कथितस्य अवैधनिर्माणस्य कारणेन ध्वस्तं कृतम्। मङ्गलागिरी-ताड़ेपल्ली नगर-निगमस्य अधिकारिभिः प्रातः ५:३० वादनस्य समीपे कार्यवाही कृता। कार्यालयस्य विध्वंसने अनेके बुलडोजर- यानानि उपयुज्यन्ते स्म। किञ्चित्कालान्तरे एव बुलडोजर-यानैः कार्यालयं भूमौ ध्वस्तं कृतम्।

वाईएसआरसीपी उच्चन्यायालयस्य आश्रयं प्राप्तवान्।

राजधानी- क्षेत्र- विकास- प्राधिकरणेन कथितं यत् अवैधनिर्माणस्य विषये वाईएसआरसीपी इत्यस्मै सूचना प्रदत्ता आसीत्, तदनन्तरं शुक्रवासरे वाईएसआरसीपी उच्चन्यायालयस्य समीपमपि गतः आसीत्। दलस्य प्रवक्ता उक्तवान् यत् न्यायालयेन कस्यापि विध्वंसक्रियाकलापस्य स्थगनस्य आदेशः दत्तः अस्ति तथा च वाईएसआरसीपी अधिवक्ता सीआरडीए आयुक्तं सूचितवान्।

सिञ्चनविभागस्य भूमौ कार्यालय-निर्माणस्य आरोप:

सीआरडीए तथा एमटीएमसी अधिकारिणां मते सिञ्चनविभागस्य भूमौ वाईएसआरसीपी कार्यालयस्य निर्माणं क्रियमाणम् आसीत्। आरोपः अस्ति यत् जगनमोहनरेड्डी इत्यस्य नेतृत्वे पूर्ववर्ती वाईएसआरसीपी- सर्वकारे या भूमिः नौकायानस्य निर्माणार्थं प्रयुक्ता आसीत्, सा नाममात्रेण पट्टे गृहीता आसीत्। सीआरडीए, एमटीएमसी इत्येतयोः अनुमोदनं न गृहीत्वा निर्माणकार्यं आरब्धम् इति अपि आरोपः अस्ति।

चन्द्रबाबू-नायडू प्रतिशोधस्य आश्रयं कृतवान्- जगनमोहन-रेड्डी

वाईएसआरसीपी इत्यस्य अध्यक्षः पूर्वमुख्यमंत्री च वाईएस जगनमोहन-रेड्डी उक्तवान् यत् स्वस्य कार्याणां माध्यमेन नायडुः सन्देशं प्रेषयति यत् आगामिषु पञ्चषु वर्षेषु तस्य शासनं कथं भविष्यति। अस्माकं दलम् एतेषां आरोपानां राजनैतिकप्रतिशोधानां च समक्षं प्रणामं न करिष्यति। जगनमोहन-रेड्डी जनपक्षतः युद्धं कर्तुं प्रतिज्ञां कृत्वा देशस्य सर्वेभ्यः लोकतान्त्रिकशक्तिभ्यः आह्वानं कृतवान् यत् चन्द्रबाबूनायडु इत्यस्य एतानि कार्याणि निन्दन्तु।

गृहे अपि बुलडोजर-यानं धावितम् अस्ति

पार्टीकार्यालयात् पूर्वं ग्रेटर-हैदराबादनगरनिगमेन (जीएचएमसी) पूर्वमुख्यमन्त्रिणः वाईएस जगनमोहनरेड्डी इत्यस्य निवासस्थानस्य कमलतडागस्य समीपे स्थितं पदमार्गं बुलडोजरयानेन पातितम् आसीत्। वस्तुतः अत्र अवैधनिर्माणं कृतम् आसीत्। अधिकारिणां मते उपनिवेशे निवसन्तः जनाः एव अस्य अवैधनिर्माणस्य विषये प्रतिवेदनं कर्तुं प्रवृत्ताः आसन्।

 

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: जगनमोहन-रेड्डी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By आचार्य नरेश मलोटिया
Follow:
संस्कृत-शिक्षकः संस्था- शिक्षा-विभागः हिमाचलप्रदेशः शैक्षणिक-योग्यता- शास्त्री, शिक्षाशास्त्री (B.Ed.), ज्योतिषाचार्य(एमए), एमए (संस्कृतम्), साहित्याचार्य(एमए)। पत्राचार सङ्केतः- ग्रामः तरकेड़ी, डाकगृहम्- सुधियाल:, तहसील- नादौन:, जनपद: हमीरपुर:, (हि. प्र.)- 177042 सम्पर्कः - 9817707260
Previous Article १८ तमायाः लोकसभायाः प्रथमसत्रं सोमवासरात् आरभ्यते
Next Article Public Examination Act 2024 : केन्द्रसर्वकारेण लोकपरीक्षा-अधिनियम: – २०२४ अधिसूचित:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?