By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : प्रधानमन्त्री नरेन्द्रमोदी वाराणस्यां प्रधानमन्त्री-किसान-सम्मान-निधि-योजनान्तर्गतं विंशति-सहस्र-कोटि-रुप्यकाणां सप्तदशतमं देयराशिं प्रसारयिष्यति।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > National News : प्रधानमन्त्री नरेन्द्रमोदी वाराणस्यां प्रधानमन्त्री-किसान-सम्मान-निधि-योजनान्तर्गतं विंशति-सहस्र-कोटि-रुप्यकाणां सप्तदशतमं देयराशिं प्रसारयिष्यति।
प्रादेशिकवार्ताराष्ट्रीयवार्ताः

National News : प्रधानमन्त्री नरेन्द्रमोदी वाराणस्यां प्रधानमन्त्री-किसान-सम्मान-निधि-योजनान्तर्गतं विंशति-सहस्र-कोटि-रुप्यकाणां सप्तदशतमं देयराशिं प्रसारयिष्यति।

डॉ मनोज शैल
Last updated: 2024/06/17 at 8:21 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National News : प्रधानमन्त्री नरेन्द्रमोदी वाराणस्यां प्रधानमन्त्री-किसान-सम्मान-निधि-योजनान्तर्गतं विंशति-सहस्र-कोटि-रुप्यकाणां सप्तदशतमं देयराशिं प्रसारयिष्यति।

Railway Accident : पश्चिम बङ्गाले दुरापादितायां रेल-दुर्घटनायां अष्टौ जनाः मृत्युमुपगताः

प्रधानमन्त्री राष्ट्रिय-साहाय्य- कोषात् प्रत्येकं मृतकस्य परिजनेभ्यः दश-लक्ष-रूप्यकाणि प्रदास्यन्ते

हिमसंस्कृतवार्ता: । 

पश्चिम-ब‌ङ्गाले दुरापादितायां रेल-दुर्घटनायां रेलविभागस्य अधिकारित्रयं समेत्य अष्टौ जनाः मृत्युमुपगताः। रेलवे बोर्ड इत्यस्य अध्यक्षा जया वर्मा राजधान्यां नवदिल्यां वार्ताहर-सम्मेलने उक्तवती यत् साहाय्योद्धार- कार्य सम्पन्नम्। अस्यां दुर्घटनायाम् आहत्य पञ्चाशत् जनाः मृत्युमुपगताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना रेल- दुर्घटनायां गभीरं दुःखं प्रकटितम्। सामाजिक-सञ्चार-पटले प्रधानमन्त्री अलिखत् यत् पश्चिम बङ्गाले दुरापादिता रेल-दुर्घटना दुखावहा विद्यते। अमुना मृतकाणां परिजनान् प्रति संवेदना व्यक्तीकृता। प्रधानमन्त्रिणा व्रणितानां शीघ्र स्वस्थ-लाभस्य कामना कृता। श्रीमोदिना रेल विभागस्य अधिकारिभिः सह संवादं विधाय स्थितिः परिज्ञाता। रेलमन्त्री अश्विनी वैष्णवः अवोचत् यत् प्रधानमन्त्री राष्ट्रिय-साहाय्य-कोषात् प्रत्येकं मृतकस्य परिजनेभ्यः दश-लक्ष-रूप्यकाणाम् प्रत्येकं गभीरतया व्रणितेभ्यः सार्ध-द्वि-लक्ष-रूप्यकाणाम् अथ च प्रत्येकं सामान्यतया व्रणितेभ्यः च पञ्चाशत् सहस्ररूप्यकाणि प्रदास्यन्ते। अत्रान्तरे राष्ट्रपतिः द्रौपदी मुर्मुः रेलदुर्घटनायां दुःखं प्रकटितवती । एकस्मिन् सामाजिक सञ्चार-पटले तया लिखितं यत् रेलदुर्घटनायां जनहानिः कष्टप्रदा विद्यते।

पश्चिम बंगालराज्यस्य रेल-दुर्घटनायाः अनन्तरं रेलयानपरिचालनं-बाधितं

हिमसंस्कृतवार्ता:। 

पश्चिम बंगालराज्यस्य रंगपानी-रेलवे-सन्धि-स्थानकं समीपं रेल-दुर्घटनायाः अनन्तरं बारसोई-न्यू- जलपाईगुड़ी-रेलखण्डे रेल-सेवापि प्रभाविता जाता। कटिहारस्य मण्डल रेल प्रबन्धकः सुरेन्द्रकुमारः अकथयत् यत् दुर्घटनेयं अनुभागस्य अधोगतपट्टिकायां उत्पन्ना। दुर्घटनाम् अभिलक्ष्य वन्देभारत एक्सप्रेस-डिब्रूगढ़-नई दिल्ली राजधानी एक्सप्रेस-रेलयानानि समेत्य नवरेलयानानां मार्गाः परिवर्तिताः। जनानां साहाय्यार्थं पृथक् पृथक् क्षेत्रेषु साहाय्य-पटलानि स्थापितानि। कञ्चनज‌ङ्गा रेलयान-सम्बद्धः दूरभाष-क्रमाङ्कः वर्तते 033- 23508794, 033-23833326 इति।

सिक्किमे तोयप्लावः – पर्यटकान् निष्कासितुं साहाय्य-कार्यम् पुनः आरब्धम्

हिमसंस्कृतवार्ता:।

जलप्लाव-प्रभावितस्य सिक्किमस्य मङ्ङ्गन-जनपदस्य चुङ्गथाङ्ग क्षेत्रे अवरूद्धान् पर्यटकान् निष्कासितुं साहाय्य-कार्यम् अद्य पुनः आरब्धम्। मङ्गनस्य जनपदाधिकारी हेमकुमार-छेत्री आकाशवाण्याः वार्ताः प्रभागम् अवोचत् यत् अरूद्धान् पर्यटकान् प्रभावित क्षेत्रेभ्यः निष्कास्य राजधान्यां गङ्गटोक नगर्यां प्रापणम् आरब्धम्। प्रतिकूलेन ऋतुचक्रकारेण पर्यटकाः वायवीयमार्गेण प्रत्यानेतुं न शक्यन्ते, मङ्ङ्गन-जनपदस्य लाचुङ्ग- चुङ्ङ्गथाङ्ग-क्षेत्रयोः अवरूद्धान् द्विसहस्र-पर्यटकान् निष्कासितुं दिनद्वयात् प्रयासाः विधीयन्ते। अत्रान्तरे राज्ये अनवरत-वृष्ट्या भू-स्खलनेन च इदानीं यावत् नव जनाः मृताः प्रबल-वृष्ट्या राज्यस्य प्रमुख-मार्गाः क्षतिग्रस्ताः सन्ति, सीमा सड़क-संगठन-इत्येतत् प्रभावित-क्षेत्रेषु पथ-सम्पर्क साधितुं प्रयासान् विदधाति।

Home Minister : केन्द्रीयगृहमन्त्री अमितशाहः मणिपुरसुरक्षास्थितिं समीक्षितुं उच्चस्तरीयोपवेशनस्य अध्यक्षताम् अकरोत्

हिमसंस्कृतवार्ता:।

केन्द्रीयगृहमन्त्री अमितशाहः नवदिल्लयां मणिपुरसुरक्षास्थितिं समीक्षितुं उच्चस्तरीयोपवेशनस्य अध्यक्षताम् अकरोत्। केन्द्रीय गृहसचिवः अजयभल्लाः आसूचनाभिकरणप्रमुखः तपनडेका थलसेनाध्यक्षः जनरल मनोजपाण्डेः मणिपुरस्य आरक्षि-महानिदेशकः राजीव सिंहः अन्ये च वरिष्ठाधिकारिणः उपवेशनेऽस्मिन् सम्मिलिताः अभवन्। ह्यः केन्द्रीय गृहमन्त्रिणा अमितशाहेन जम्मू-कश्मीरस्य सुरक्षास्थितिं अथ च अमरनाथयात्रायाः सज्जतां समीक्षितुं एकमुच्चस्तरीयोपवशनं विहितम्।

भारत-अमेरिकयोः मध्ये नव-दिल्ल्यां प्रचलति द्वितीयं वार्षिकं उदीयमान प्रौद्योगिकी सम्बद्धं उपवेशनम्

हिमसंस्कृतवार्ता:।

भारत-अमेरिकयोः मध्ये द्वितीयं वार्षिक उदीयमान प्रौद्योगिकी सम्बद्धं उपवेशनं नव-दिल्ल्यां प्रचलति। अस्मिन् उपवेशने राष्ट्रिय सुरक्षा परामर्शदः अजित डोभालः विदेश मन्त्री डॉक्टर सुब्रमण्यम जयशङ्करः अमरीकायाः राष्ट्रिय-सुरक्षा-परामर्शदः जेक सुलिवन इत्येते उपस्थिताः सन्ति। उभयोः पक्षयोः मिथः व्यापक- द्विपक्षीय-क्षेत्रीय-वैश्विक प्रकरणेषु विशेष-चर्चा विधीयते।

जम्मू-कश्मीरे आतङ्क्याक्रमणम् एक: आतङ्की मारितः

हिमसंस्कृतवार्ता:।

जम्मू-कश्मीरस्य बान्दीपुरा जनपदस्य अरगाम-क्षेत्रे  सुरक्षाबलैः सह सङ्घर्षे एक: आतङ्की मारितः । आरक्ष्याधिकारिणाम् अनुसारम् अस्मिन् क्षेत्रे आत‌ङ्कवादिनां निगूढनस्य सूचनाधारेण सेनया केन्द्रीय- रक्षितारक्षिबलेन जम्मू-कश्मीर आरक्षिबलेन च अरगाम-इत्यत्र संयुक्ताभियानं प्रचालितम् । सुरक्षा-बलानां संयुक्त-दलं यदा सन्दिग्ध-स्थलम् उपगतं तदैव निगूढातङ्कवादिभिः अनारत्तं गोलिका प्रहारम् आरब्धम् । सुरक्षा-बलानां प्रत्युत्तरे एकः आतङ्कवादी मारितः। अन्तिम वार्ताः लेखन-समयं यावत् अयं सङ्घर्षः प्रवर्तितः अस्ति।

मुम्बई-चलचित्र-समारोहः – अष्टादशतमः मुम्बई-अन्ताराष्ट्रिय चलचित्र महोत्सवः समारब्धः।

हिमसंस्कृतवार्ता:।

वृत्तचित्र-लघुकथा-चित्रसञ्जीवन-चलचित्रेभ्यः अष्टादशतमः मुम्बई-अन्ताराष्ट्रिय चलचित्र महोत्सवः समारब्धः। अद्य तृतीये दिवसे माईफादर-वी शुड ऑलबी-फ्यूचरिस्ट लाइफ-इन-लूम पुकार-शान्ति-इनसाइड आउट टू-इत्यादिनि चलचित्राणि प्रदर्शितानि। प्रातः अनलॉकिंग-द फोर्स-चैनलिंग डॉक्यूमेंट्री फिल्म्स टू ड्राइव सोशल-चेंज इत्यनेन शीर्षकण एका विशेषज्ञैः युता चर्चा आयोजिता। एतस्मिन् सत्रे भारतीयनिदेशकः डॉ. तालकाडु श्रीनिवासैया नागभरणः अपि च राष्ट्रिय चलचित्र-विकास-निगमस्य महाप्रबन्धकः डी. रामकृष्णः च भागं स्वीकृतवन्तौ। पड्-दिवसीय महोत्सवस्य अस्य समापनं एकविंशतिः दिनाङ्के भविष्यति।

PM Modi : प्रधानमन्त्री नरेन्द्रमोदी वाराणस्यां प्रधानमन्त्री-किसान-सम्मान-निधि-योजनान्तर्गतं विंशति-सहस्र-कोटि-रुप्यकाणां सप्तदशतमं देयराशिं प्रसारयिष्यति।

हिमसंस्कृतवार्ता:।

प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे उत्तरप्रदेशस्य वाराणसीनगर्यां प्रधानमन्त्री-किसान-सम्मान-निधि- योजनान्तर्गतं विंशति-सहस्र-कोटि-रुप्यकाणां सप्तदशतमं देयराशिं प्रसारयिष्यति। देयराशेः धनं प्रत्यक्षतया पविशति-लक्षाधिक-नव-कोटिः लाभार्थि-कृषकाणां वित्तकोषेषु सम्प्रेषयिष्यते। एतस्मिन् कार्यक्रमावधौ श्रीमोदी स्वयं-साहाय्य-समूहानां त्रिंशत्सहस्राधिकाभ्यः महिलाभ्यः कृषि-सखी-इत्यस्यान्तर्गतं प्रमाणपत्राण्यपि वितरिष्यति। तदनु प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य अष्टादश नवदश च दिनांकी उत्तरप्रदेश-बिहारयोः भ्रमणं करिष्यति। श्वः सायं श्रीमोदी दशाश्वमेध-घट्टे गङ्गा-आरार्तिक्यां समुपस्थितो भविष्यति तदनन्तरं काशी-विश्वनाथ-देवालये पूजां दर्शनञ्च करिष्यति। नवदशदिनांके च प्रातः प्रधानमन्त्री नालन्दायाः भग्नावशेषाणाम् अवलोकनार्थ तत्र गमिष्यति। एतदनन्तरं असौ बिहारस्य राजगीर-स्थले नालन्दा- विश्वविद्यालयपरिसरस्यापि उद्घाटनं विधास्यति। अत्रावसरे जनसभां एकामपि सम्बोधयिष्यति

देशस्य पृथक् पृथक् भागेषु परम्परा पूर्वकं परिपालित: ईद पर्व:

हिमसंस्कृतवार्ता:।

ईद उल अजहा पर्व अद्य देशस्य पृथक् पृथक् भागेषु परम्परा पूर्वकं परिपाल्यते, श्रद्धालवः प्रातः कालादेव नमाज प्रार्थनायै ईदगाहेषु मस्जिदेषु च समागच्छन्ति, राजधान्यां नवदिल्लयां प्रमुखोत्सवः जामा मस्जिद, फतेहपुरी मस्जिद, शाही ईदगाह इत्येतेषु स्थलेषु समायोज्यते, राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः जगदीप धनखड़ः, प्रधानमन्त्री नरेन्द्रमोदी च ईद पर्वणि देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः ।

विंशति-क्रिकेट-प्रतिस्पर्धा

हिमसंस्कृतवार्ता:।

विंशति प्रति विंशति-इत्येतस्यां क्रिकेट प्रतिस्पर्धायां अद्य न्यूजीलैण्डदलं पापुआ न्यू गिनी-दलं सम्मुखी करिष्यति। प्रतिस्पर्धेयं त्रिनिदाद नगरे भारतीय-समयानुसारं रात्री अष्टवादनतो स्पर्धिष्यते। इतः प्राक् अद्य प्रातः क्रीडिते द्वन्द्वे सेण्ट लुसिया नगरे श्रील‌ङ्कादलेन नीदरलैण्डदलं त्र्यशीतिः धावनांकैः पराजित्य निज- प्रथमः विजयः समधिगतः ।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, indian railway, International news, National News, PM Modi, pmo, railway Accident, Sikkim news, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, अमित शाह, गृहमन्त्रालय, नरेन्द्र मोदी, प्रधानमंत्री, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HPCM : दिव्याङ्गजनानाम् कृते कण्डघाटे ‘उत्कृष्टताकेन्द्रम्’
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?