By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: लोसरपर्वणि परोक्ष्यते हिमाचलीव्यञ्जनानि, धर्मशालाया: मैक्लोड़गञ्जे आचर्यते नववर्षम्, अद्यारभ्य:  पूजा-अर्चना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > लोसरपर्वणि परोक्ष्यते हिमाचलीव्यञ्जनानि, धर्मशालाया: मैक्लोड़गञ्जे आचर्यते नववर्षम्, अद्यारभ्य:  पूजा-अर्चना
हिमाचलवार्ताप्रादेशिकवार्ताराष्ट्रीयवार्ताः

लोसरपर्वणि परोक्ष्यते हिमाचलीव्यञ्जनानि, धर्मशालाया: मैक्लोड़गञ्जे आचर्यते नववर्षम्, अद्यारभ्य:  पूजा-अर्चना

डॉ मनोज शैल
Last updated: 2024/02/10 at 8:25 AM
डॉ मनोज शैल
Share
1 Min Read
SHARE

लोसरपर्वणि परोक्ष्यते हिमाचलीव्यञ्जनानि, धर्मशालाया: मैक्लोड़गञ्जे आचर्यते नववर्षम्, अद्यारभ्य:  पूजा-अर्चना

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

बौद्धपञ्चाङ्गानुसारं लोसरपर्वण: अथवा नववर्षस्य अवसरे मुख्यबौद्धमन्दिरस्य मैक्लोड़गञ्जे प्रथमवारं हिमाचलीव्यञ्जनानाम् आयोजनं भविष्यति। तिब्बतीसमुदायस्य लोसर (नववर्षस्य) उत्सवस्य आरम्भः १० फरवरी शनिवासरे भविष्यति। त्रिदिवसीयस्य उत्सवस्य आरम्भः मैक्लोड़गञ्जस्य ला- ग्यारी-बौद्धमठे विशेषपूजा-अर्चना भविष्यति। तिब्बती-पञ्चाङ्गानुसारं एतत् २१५१तमं वर्षम् अस्ति। एतेन सह मुख्यबौद्धमन्दिरस्य मैक्लोड़गञ्जे फरवरीमासे १३ दिनाङ्के लोसरमहोत्सवस्य अवसरे भारतात् विदेशात् च आगच्छन्ता: पर्यटकाः स्थानीयतिब्बतीजनाः च प्रथमवारं हिमाचलीव्यञ्जनानाम् स्वादं प्राप्स्यन्ति। धर्मशाला- मैक्लोड़गञ्जयोः विपणीषु तिब्बतीसमुदायस्य नववर्षस्य (लोसरस्य) विषये बहु उत्साहः वर्तते। तिब्बतीसमुदायस्य जनाः स्वगृहाणां सौन्दर्यीकरणे व्यस्ताः सन्ति।

अस्मिन् अवसरे तिब्बतीसमुदायस्य जनाः पारम्परिकवस्त्रधारिणः परस्परं मिलित्वा अभिनन्दनं कुर्वन्ति। लोसरस्य विषये तिब्बतीसमुदाये बहु उत्साहः आसीत्। लोसरस्य कृते तिब्बतीजनाः पूर्वमेव स्वगृहाणि स्वच्छं कृत्वा वर्णं कुर्वन्ति। एतदतिरिक्तं नववर्षस्य कृते विविधानि मिष्टान्नानि इत्यादयः अपि निर्मीयन्ते। प्रबंधन- अधिकारी कुंचॉग मिगमर: अवदत् यत् महोत्सवात् पूर्वं केन्द्रीयतिब्बतीप्रशासनस्य (सीटीए) कर्मचारिभिः सम्पूर्णे मण्डले मुख्यसर्वकारीकार्यालयेषु मिष्टान्नं वितरितम्। तिब्बतीसमुदायस्य जनाः प्रथमं स्वदेवतायाः कृते छाङ्गं अर्पयन्ति, ततः परस्परं वा बन्धुभिः वा तस्य आदानप्रदानं कुर्वन्ति।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

TAGGED: Himachal news, himachal update, Himsanskritnews, धर्मशाला, मैक्लोड़गञ्ज, लोसर, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल प्रदेश, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Cabinet Decision : हिमाचले मन्त्रिमण्डलस्य तिस्र: उपसमितयः निर्मिताः, अनेकानि पदानि पूरयितुम् अनुमोदनम्
Next Article भारतरत्न-पूर्वप्रधानमन्त्रिणे पी वी नरसिंहारावाय, चौधरीचरणसिंहाय, एम. एस. स्वामीनाथनाय च भारतरत्नं दातुं घोषणा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?