मुख्यमन्त्रिणा पर्यटननगर्य्यां मनाल्यां कृतं शीतकालीनकार्निवालस्य शुभारम्भ:
हिमसंस्कृतवार्ता-मनाली।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः कुल्लूमण्डलस्य मनालीनगरे पञ्चदिवसीयस्य राष्ट्रियस्तरस्य शीतकालीनकार्निवलस्य उद्घाटनं कृतवान् । ऐतिहासिकहिडिम्बामन्दिरे प्रार्थनां कृत्वा सः परिधिगृहमनालीतः कार्निवलसंचलनं ध्वजं प्रदर्श्य प्रेषितवान्। हिमाचलप्रदेशस्य एवं अन्यराज्येभ्यः २५० तः अधिकानि महिलादलानि, सांस्कृतिकदलानि च अस्मिन् संचलन-कार्यक्रमे भागं गृहीतवन्तः । सांस्कृतिकसमूहाः सामाजिकसन्देशः, संस्कृतिः, परम्पराः च आधारिताः आकर्षककार्यक्रमाः प्रस्तुतवन्तः। सुखविन्दरसिंहसुक्खुः मनुरंगशालायां दीपप्रज्ज्वालनं कृत्वा सांस्कृतिककार्यक्रमाणाम् उद्घाटनम् अकरोत्। शिशिरकार्निवालस्य आयोजने विभिन्नराज्येभ्यः २५ सहभागिनः समूहाः भागं गृह्णन्ति । महिलामण्डलैः, विभागैः, संस्थाभिः च बहिः आनयितानां फलकानाम् विषये सः तीव्ररुचिं दर्शितवान् ।
अस्मिन् अवसरे विशालं जनसभां सम्बोधयन् मुख्यमन्त्री महिलामण्डलेभ्यः प्रदत्तां ‘प्रोत्साहनराशिं’ २० सहस्ररूप्यकात् २५ सहस्ररूप्यकाणि यावत् वर्धयितुं घोषणां कृतवान्। एतदतिरिक्तं मनालीनगरे १५ माइलसमीपे नूतनसेतुनिर्माणार्थं १० कोटिरूप्यकाणां प्रावधानमपि घोषितम् । सः अवदत् यत् रोहताङ्ग-मनाल्यां पर्यटनहोटेलस्य नवीनीकरणं भविष्यति, विद्युत्-बोर्ड-भूमिषु पार्किङ्ग-करणस्य सम्भावनायाः अन्वेषणार्थं सर्वेक्षणम् अपि क्रियते इति। एतदतिरिक्तं सः निकटभविष्यत्काले मनालीनगरे स्कीइंग् कार्यक्रमस्य आयोजनमपि कर्तुं घोषितवान् ।
मनाली : मुख्यमन्त्रिणा पर्यटननगर्य्यां मनाल्यां कृतं शीतकालीनकार्निवालस्य शुभारम्भ:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
