By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी
धर्मसंस्कृतिः

सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी

डॉ.अमनदीप शर्मा
Last updated: 2023/12/26 at 8:08 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी

इहभूमौ समये समये आदर्शपुरुषाः आविर्भवेयुः इति तु काचित् लोकपरम्परा एव। कस्यचन विशेषकार्यार्थं ते भुवि अवतरेयुः। एतादृशः कश्चन सत्पुरुषः भारते आविर्भूतः, यस्य महाभागस्य नाम श्रीदादूजी आसीत्।
अहमदाबादे भक्तश्रेष्ठः लादूरामनामधेयः एकः ब्राह्मणसज्जनः बभूव। तस्य न कापि सन्ततिः। सः धन्यः दिवसः आसीत् सं० १६०१ वि० श्रीचैत्र- शुक्लाष्टमी, गुरुवासरः। तदा स्नानसमये लादूरामः सावरमतीनद्यां प्रवहन्तीम् एकां पेटिकां दृष्टवान्, तां स्वीकृतवान् च। तां नद्याः बहिरानीय उद्घाट्य च दृष्टवान् यत् तत्र एकः ज्योतिर्मयः शिशुः मोदमानः हसन्नस्ति इति। विप्रः लादूरामः तं शिशुं गृहं प्रति आनीतवान्। अनुग्रहपूर्वकं प्रभुः आत्मने दिव्यशिशुम् अदात् इति मत्वा तौ मोदमानौ दम्पती शिशोः स्नेहोल्लासेन सयत्नं पालन-पोषणादिकं कर्तुम् आरब्धवन्तौ। सः बालकः अद्भुतः आसीत्। एकादशवर्षीयः सः श्रीकृष्णस्य दिव्यदर्शनं प्राप्तवान्। गीतोपदेष्टा श्रीभगवान् तस्मै बालाय दादवे तत्त्वज्ञानम् प्रदत्तवान्। स्वाभाविकतया हि दादूः सहजस्वभावयुक्तः, विरक्तश्च आसीत्, बाल्यप्रभृति हि तस्य कृते भगवन्नाम प्राणधनम् आसीत्। तत्त्वज्ञानस्य प्राप्तेरनन्तरं सः यद्यपि गृहतः पलायितुं प्रायतत, तथापि पिता तम् अनुकुर्वन् निगृह्य च तं पुनः गृहं प्रति आनीतवान्। तदनन्तरं बलात् तस्य विवाहमपि कारितवान् । परन्तु अनेन सांसारिक-प्रयासेन कञ्चन नित्यमुक्तं पुरुषं बद्धुं को वा शक्नुयात्? उनविंशतितमे वयसि सः पुनर्गृहत्यागं विधाय विविधेषु स्थानेषु पर्यटनं कर्तुमारभत्। श्रीदादूः स्वयं न कमपि सम्प्रदायं प्राचालयत्। सहजरूपेण हि तस्य अनेके शरणापन्नाः शिष्याः अभूवन्। कालान्तरे ते शिष्याः हि तेषां तत्सम्प्रदायस्य नाम ‘ब्रह्मसम्प्रदायः’ इति कृतवन्तः। परन्तु तत्सम्प्रदायः ‘दादू-पंथ’ इति नाम्ना प्रसिद्धः जातः लोके। श्रीदादोः शिष्याः बहवः आसन्, तेषु १५२ जनाः मुख्याः अमन्यन्त। एतेष्वपि १०० जनाः वीतरागाः। तस्य महाभागस्य न पीठं, न वा शिष्यपरम्परा हि। अन्ते ५२ जनाः पीठं प्रतिष्ठापितवन्तः, ते शिष्यपरम्परामपि प्राचालयन्। अतः ते ‘थांवाधारी’ इति नाम्ना ख्याताः अभवन्। साधुः दादूमहाभागः स० १६६० वि० ‘नारायणा’ इति नामके स्थाने परमगतिं लब्धवान्। सः महान् वैरागी, परोपकारी, एवं क्षमाशीलः सत्पुरुषः आसीत्। तस्य उदात्तभावनायाः कारणतः तं ‘दादूदयाय’ इति कथयन्ति स्म तदानीन्तनाः जनाः। मृत्योः पूर्वं सः शिष्यान् परामृष्टवान् आसीद् यत् एतत् शरीरं भवन्तः मांसभोजिभ्यः पशुपक्षिभ्यः ददतु इति। एतावान् वीतरागः, परोपकारी च सः परमधन्यतां गतः महाभागः अवर्तत्।
‘हरि भज साफल जीवना, पर-उपगार समाइ ।
‘दादू’ मरणा तहं भला, जहां पशु-पंछी खाइ ।।’
इति।
-नारद।

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: दादू जी, दादू महाराज, भारतयी संतपरम्परा, भारतीय संत, राजस्थान के संत
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article श्रीरामायणकथा, लङ्काकाण्डम्! रामरावणयोः द्वैरथयुद्धम्
Next Article महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?