By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीरामायणकथा रामरावणयोः युद्धम् (तृतीयः खण्डः)
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > श्रीरामायणकथा रामरावणयोः युद्धम् (तृतीयः खण्डः)
धर्मसंस्कृतिः

श्रीरामायणकथा रामरावणयोः युद्धम् (तृतीयः खण्डः)

डॉ.अमनदीप शर्मा
Last updated: 2023/12/25 at 8:39 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

श्रीरामायणकथा, लङ्काकाण्डम्!
(एकपञ्चाशत्तमः सर्गः)
रामरावणयोः युद्धम्।
(तृतीयः खण्डः)

रे रावण! महावने मया विरहितां दीनां वैदेहीं हृत्वा त्वं शूरोऽहम् इति मन्यसे। परदाराभिमर्शनं कापुरुषं कर्म कृत्वा त्वं शूरोऽहम् इति मन्यसे। अहङ्कारेण त्वया कृतस्य गर्हितकर्मणः सुमहत् फलम् इदानीं त्वं प्राप्नुहि। रे दुर्मते! चोरयित्वा सीताम् आनीय शूरोऽहमिति आत्मानम् अवगच्छसि, किं तव लज्जा नास्ति! यदि मत्सन्निधौ त्वया बलात् सीता धर्षिता स्यात् तर्हि मत्सायकैः हतः त्वं भ्रातरं खरं पश्येः। दिष्ट्या त्वमद्य मम दृष्टिपथम् आगच्छसि, इदानीं त्वां तीक्ष्णबाणैः यमक्षयं नयामि। अद्य मम शरैः तव ज्वलितकुण्डलं शिरः छिन्नं भवेद् इत्येवं समीपस्थं राक्षसेन्द्रं वचनम् उक्त्वा श्रीरामः बाणान् क्षेप्तुम् आरभत्।

तदा शत्रोः निधनकाङ्क्षिणः श्रीरामस्य अस्त्रबलं वीर्यं च द्विगुणम् अभवत्। प्रहर्षात् च विदितात्मनः राघवस्य सर्वाणि अस्त्राणि प्रादुरभवन्। तदा सः क्षिप्रहस्ततरः च अभवत्। आत्मगतानि एतानि शुभचिह्नानि विज्ञाय श्रीरामः पुनः रावणं निशितैः शरैः पीडयितुम् आरभत। तदानीं वानराणां प्रस्तरखण्डैः श्रीरामस्य च शरवर्षैः हन्यमानः दशग्रीवः अत्यन्तं विदीर्णहृदयः अभवत्। एवमेव यदा रावणः हतज्ञानः भूत्वा अस्त्रशस्त्राणि चालयितुम् असमर्थः अभवत् तदा महात्मा श्रीरामः वीर्यं न प्रादर्शयत्। यतः पूर्वक्षिप्ताः शराः विविधानि शस्त्राणि च तं मृतप्रायम् अकुर्वन्। रावणस्य तादृशीं दशां दृष्ट्वा असम्भ्रान्तः तस्य सारथिः शनैः युद्धात् रथं नीत्वा अगच्छत्। राक्षसाधिपं वीर्यहीनं पतितं च दृष्ट्वा सारथिः भीतः सन् ततः रथं नीत्वा पलायत।
मुहूर्तात् संज्ञां लब्ध्वा कालप्रेरितः सुसंक्रुद्धः रावणः सारथिम् अब्रवीत् रे दुर्बुद्धे! त्वं मां हीनवीर्यं पौरुषेण विवर्जितं तेजसा च विहीनं मत्वा माम् अवज्ञाय च स्वबुद्ध्या एवं कर्म अकरोः! किमर्थं माम् अवज्ञाय मच्छन्दम् अनवेक्ष्य च त्वया मम रथोऽयं शत्रुसमक्षम् अपवाहितः? अद्य त्वया हि मम चिरकालमुपार्जितं यशः, वीर्यं, तेजश्च, प्रत्ययश्च विनाशितः। रे दुर्मते! मन्येऽहं त्वं कस्यचित् शत्रोः कथां श्रुत्वा इत्थं कर्म अकरोः! रिपूणां सदृशम् अद्य त्वया यत् कर्म अनुष्ठितं तत् कर्म सुहृदः हितकाङ्क्षिणः न कुर्वन्ति। अतः यदि त्वं मम गुणान् स्मरसि तर्हि यावद् मम शत्रुः न अपगच्छेत् शीघ्रं मम रथं नीत्वा रणक्षेत्रं गच्छ।

रावणेन एवं परुषमुक्तः सारथिः रावणं सानुनयं हितं वचः अब्रवीत् हे राजन्! न तु अहं भीतः अस्मि, न च मूढः अस्मि। न तु प्रमत्तः अस्मि, न च निःस्नेहः। न च भवतः सत्क्रिया विस्मृता। मया तु हितकामेन स्नेहप्रसन्नमनसा हितम् इति अप्रियं कार्यं कृतम्। राजन्! अहं सर्वदा भवतः प्रियकार्ये हिते च रतः भवामि। अतः एतदर्थं मयि दोषं न पश्यतु। मया तु स्नेहवशात् एतत् कर्म कृतम्। हे प्रभो! इदानीं यथा आज्ञापयेत् चेतसा तथा अहं करिष्यामि। सारथेः तेन वाक्येन सन्तुष्टः रावणः तं प्रशस्य वाक्यम् अब्रवीत् हे सारथे! त्वं शीघ्रम् इमं रथं राघवाभिमुखं नय। रणे शत्रून् अहत्वा अद्य रावणः न प्रत्यागमिष्यति। एवमुक्त्वा ततः हृष्टः राक्षसराजः रावणः तस्मै एकम् उत्तमं हस्ताभरणम् अददात्। सारथिः तदा राक्षसराजस्य तद् वचनं श्रुत्वा शीघ्रं हि रथं नीत्वा ततः प्रस्थानम् अकरोत्। क्षणेन हि सः श्रीरामस्य रणाग्रतः अभवत्।
-प्रदीपः!

You Might Also Like

श्रीवामदेवसंस्कृतमहाविद्यालये पञ्चत्रिंशद्बटूनां यज्ञोपवीतसंस्कारः

श्रीभगवत्कृपाशक्तिः-नारदोपाध्यायः

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी

वाल्मीकिरामायणस्य बालकाण्डसमीक्षा-डॉ विमलेश झा

TAGGED: रामकथा, रामायण कथा, रामायणम्, श्रीरामः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः :- बाह्याधारनियुक्ते: प्रवृत्तिं न्यूनीकृत्य ३१ मार्चतः पूर्वं सर्वकारीयक्षेत्रे २० सहस्रकार्याणि प्रदास्यति सर्वकारः
Next Article प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?