By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च
धर्मसंस्कृतिःसंस्कृतबोधकथा

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च

डॉ.अमनदीप शर्मा
Last updated: 2023/12/23 at 7:49 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च

दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः

महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां पाण्डवानां द्वादशवर्षाणां वनवासे सम्पन्ने गते सति एकवर्षं यावत् अज्ञातवासोऽपि व्यतीतव्यम् आसीत् । अतो ते तदर्थं विराटनगरं प्रति प्रस्थिताः। विराटनगरं प्राप्य ते सर्वे एकस्य वृक्षस्य अधः उपविष्टाः। युधिष्ठिरः अवदत् यत् अहं ‘कङ्क्’ इति नाम स्वीकृत्य ब्राह्मणवेषेण राजा विराटस्य प्रासादे शरणं करिष्यामि इति। सः भीमं प्रति अवदत् यत् त्वं महाराजविराटस्य प्रासादे ‘वल्लभ’ इति नाम्ना पाचककार्यं याचतु । सः अर्जुनं अवदत् यत् त्वं ‘बृहन्नला’ इति नाम गृहीत्वा स्त्रीलंकारैः अलङ्कृताः भूत्वा विराटनरेशस्य राजकुमार्याः कृते सङ्गीतं नृत्यं च शिक्षणाय अनुरोधं कुर्या:। तथा नकुलः ‘ग्रन्थिक’ इति नाम्ना अश्वपालनकार्यं याचयेत् । सहदेवश्च ‘तंत्रिपाल’ इति नाम्ना गोपालकस्य कार्यं याचयेत्।
सर्वे पाण्डवाः शमीवृक्षे स्वशस्त्राणि निगूह्य निजवेषाणि परिवर्त्य अधिपते: विराटस्य प्रासादे प्रविशन्तः । तेषां सर्वेषां निवेदनं विराटनरेशः स्वीकृतवान् । विराटस्य पत्नी सुदेषणा द्रौपद्या: सौन्दर्यं दृष्ट्वा मुग्धा भूत्वा केश-विन्यासादि कर्तुं तां नियुक्तवती । द्रौपदी च निज “सैरन्ध्री” इति नाम उक्तवती ।
विराट नगरे सर्वे पाण्डवा: द्रौपदी च सुखेन स्वे स्वे कार्ये व्यग्रा: आसन् तदैव एकस्मिन् दिने विराट्-पत्न्याः सुदेष्णाया: भ्राता कीचकः सैरन्ध्रया: रूप-सौन्दर्यं दृष्ट्वा मुग्ध: जातः, तां च प्राप्तुं व्याकुलश्च अभवत् । सः स्वभगिनीं सैरन्ध्रीविषये पृष्टवान्। सुदेष्णापि तस्य दुर्भावनां ज्ञात्वा तं अवदत् यत् – हे भ्रात! सा तु साधारणा प्रासाददासी एवास्ति परन्तु कामातुर: कीचक: येन केन प्रकारेण द्रौपदीं समक्षे प्राप्य द्रौपदीं उक्तवान् – हे सुन्दरे! का असि त्वं ? अहं तु तव क्रीतदासोऽस्मि। यदा त्वं मम नयनयोः मध्ये पतितासि तावतेव अहं तवोपरी मुग्धोस्मि। त्वं मां दासं कर्तुं शक्नोषि । द्रौपदी भयात् दूरे गच्छन्ती उक्तवती – अहं तु दासी अस्मि नास्मयहं तव योग्या। तत्रैव विवाहितापि अस्मि, मया सह मा एवं व्यवहार: कुरु। कीचकः तस्मिन् समये तु तत्त: पलायितः परन्तु स्वभगिन्या सह स: सैरन्ध्रीविषये मुहुर्महुः वार्ताः करोति स्म। एकदा दु:खी भूत्वा अन्यं किमपि विकल्पं न दृष्ट्वा सुदेष्णा उक्तवती यत् उत्सवदिने अहं तव समीपे सैरन्ध्रीं प्रेषयिष्यामि इति। उत्सवदिने राज्ञी कानिचन वस्तूनि आनयितुं व्याजेन सैरन्ध्रीं कीचकस्य प्रकोष्ठे प्रेषितवती । तत्र तु कीचक: पूर्वमेव स्थितः आसीत् कीचकस्य दुष्टाभिप्रायं ज्ञात्वा क्रोधिता , दु:खिता रुदन्ती सैरन्ध्री तत्त: काठिन्येन पलायिता ।
नित्येव एतादृशात् व्यवहारात् दुखितया तया एकदा एकान्ते भीमं प्रति कीचकस्य दुर्व्यावहारस्य विषये सर्वं कथितम् । क्रुद्धः भीमः अवदत् यत् इदानीं यदैव सः कीचक: किमपि वदिष्यति , दुर्व्यवहरिष्यति वा तदा तं कीचकं त्वं इदं कथये यत् – “अर्धरात्रीं नाट्यगृहमागत्य मया सह मेलनं कुरु” ।
एवमेव कृते सति एकदा यदा कीचक: सैरन्ध्रीं पुरत: आगच्छति तदा सा कीचकं योजनानुसारं अर्धरात्रौ नाट्यगृहे मिलनाय आह्वयति । अति प्रसन्न: सः अर्धरात्रौ नाट्यगृहं प्राप्तवान्, यत्र भीमः स्त्रीवेषं सन्धार्य पूर्वमेव प्रतीक्षमाणः आसीत् । कीचक-भीमौ उभौ मध्ये भयङ्करं मल्ल्युद्धं अभवत् । अन्ते भीमः कीचकं उत्थाप्य भूमौ पूर्णशक्त्या पोथयित्वा निपतति। कीचकस्य प्राणा: निर्गता: अत: पापक: सः पञ्चत्वं गत: । परदिने एव विराटनगरे एतादृशा वार्ता प्रसृता यत् सैरन्ध्रया: गन्धर्वपतिना कीचकस्य वधः कृत:।

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: कीचक वध, दिलीप कुमार, पाण्डवों का अज्ञातवास, महाभारत कथा, महाभारतकथा- पाण्डवानां अज्ञातवास:, संस्कृत कथा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article श्रीरामायणकथा-रामरावणयोः युद्धम्
Next Article विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?