By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतप्रतियोगिता : राज्यस्तरीयप्रतियोगितासु हमीरपुरेन विजता विजयवैजयन्ती
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > संस्कृतप्रतियोगिता : राज्यस्तरीयप्रतियोगितासु हमीरपुरेन विजता विजयवैजयन्ती
हिमाचलवार्तासंस्कृतगतिविधयः

संस्कृतप्रतियोगिता : राज्यस्तरीयप्रतियोगितासु हमीरपुरेन विजता विजयवैजयन्ती

डॉ.अमनदीप शर्मा
Last updated: 2023/12/17 at 6:41 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

संस्कृतप्रतियोगिता : हिमाचल-संस्कृत-अकादम्या बिलासपुरे आयोजिता: राज्यस्तरीया: संस्कृतप्रतियोगिता: सुसम्पन्ना:
हमीरपुरजनपदेन प्राप्तं विजयवैजयन्ती पुरस्कार:

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलसंस्कृत-अकादमी हिमाचल-सर्वकार: शिमला द्वारा द्विदिवसीया: राज्यस्तरीया: विद्यालयीया: संस्कृतप्रतियोगिता: बिलासपुरजनपदस्य कृषकभवनस्य सभागारे आयोजिता:। अस्यां राज्यस्तरीयप्रतियोगितायां सम्पूर्णस्य हिमाचलस्य जिलास्तरे प्रथमस्थानं प्राप्तवन्तः प्रतिभागिन: भागं स्वीकृतवन्त:। अस्यां राज्यस्तरीयप्रतियोगितायां संस्कृतं समावेशितम् आसीत् भाषणप्रतियोगिता, संस्कृतगीतप्रतियोगिता, श्लोकोच्चारणप्रतियोगिता,मन्त्रपाठः च । अस्मिन् कार्यक्रमे कनिष्ठ-वरिष्ठवर्गस्य छात्राणां मध्ये स्पर्धां अभवत् । अस्यां राज्यस्तरीयप्रतियोगितायां प्रथमदिवसे उपनिदेशक: उच्चशिक्षा जोगिन्द्रसिंहराव: मुख्यातिथिः आसीत् तथा च अध्यक्षता डॉ. प्रेमलालगौतम: सेवानिवृत्त: प्राचार्य: अकरोत्। समापनसमारोहस्य मुख्यातिथि: अतिरिक्त-शिक्षानिदेशक: उच्चतरशिक्षानिदेशालय: कुलदीवराव: आसीत् । सत्रस्य अध्यक्षता प्रोफेसर लेखरामशर्मा एवं प्रोफेसर गणेशदत्तभारद्वाज: अकुरुताम्। मुख्यातिथिरूपेण उपस्थित: अतिरिक्त-शिक्षानिदेशक: छात्रान् सम्बोधयता अवदत् यत् भवद्भिः स्वविज्ञानस्य, ज्ञानस्य, स्वास्थ्यस्य, मूल्यानां च कृते विश्वस्तरीयभाषाणां अध्ययनं करणीयम् इति। तथा च अध्यक्ष: स्वभाषणे छात्रान् सम्बोधयता अपि अवदत् यत् संस्कृति-सभ्यतायाः, मूल्यानां, शिष्टाचारस्य च प्रवर्धनार्थं संस्कृते वर्तमानानाम् प्राचीनशास्त्राणां विषये ज्ञानं प्राप्तुं अस्माभिः संस्कृतस्य अध्ययनं करणीयम्। अधुना इस्रो, नासा इत्यादिषु शोधसंस्थासु अपि संस्कृतं स्वीक्रियते। सः अपि अवदत् यत् संस्कृतस्य भविष्यं उज्ज्वलम् अस्ति, अतः संस्कृतस्य इष्टं ज्ञानं प्राप्तुं संस्कृतस्य अध्ययनं करणीयम्।अन्ततः विविधस्पर्धासु।प्रथमं, द्वितीयं तृतीयं स्थानं सुरक्षितं कुर्वन्तः छात्राः तथा चतुर्थस्थानं प्राप्ता: प्रतिभागिन: प्रमाणपत्रैः स्मृतिचिह्नैः च सम्मानिता:।
हिमाचल-संस्कृत-अकादम्या: सचिव: डॉ केशवानन्दकौशल: सर्वेषां विशिष्टातिथीनां विदुषां च स्वागतम् अकरोत्। सर्वविधासु प्रतियोगितासु हमीरपुरजनपदेन सर्वाधिका: सप्तपुरस्कारा: प्राप्ता:। अतः संस्कृतप्रतियोगितानां विजयवैजयन्ती पुरस्कार: हमीरपुरजनपदाय प्रदत्तम्। अयं पुरस्कार: उपनिदेशककार्यलये शोभित: भविष्यति।

विजेतॄणां सूची
श्लोकोच्चारणम् (कनिष्ठवर्ग:)
क्र. नाम जनपद स्थानम्
१. शोभाकुमारी, बिलासपुरम्, प्रथम
२. मुस्कान, सोलनम्, द्वितीय
३. रुचिशर्मा, हमीरपुरम् , तृतीयम्
४. कार्तिकेय:, शिमला चतुर्थम्

श्लोकोच्चारणम् (वरिष्ठवर्ग:)
क्र. नाम जनपद स्थानम्
१. रिमझिम, हमीरपुरम्, प्रथम
२. रुपाली, मण्डी, द्वितीय
३. निधिशर्मा, बिलासपुरम् , तृतीयम्
४. श्रुतिठाकुर, चम्बा चतुर्थम्

संस्कृतगीतिका (कनिष्ठवर्ग:)
क्र. नाम जनपद स्थानम्
१. सुजल, हमीरपुरम्, प्रथम
२. मन्नत, सोलनम्, द्वितीय
३. रीतिका, बिलासपुरम् , तृतीयम्
४. हर्षित:, शिमला चतुर्थम्

संस्कृतगीतिका (वरिष्ठवर्ग:)
क्र. नाम जनपद स्थानम्
१. अंकिताठाकुर, बिलासपुरम्, प्रथम
२. प्रीतिचौधरी, हमीरपुरम्, द्वितीय
३. राधिका देवी, सिरमौरम् , तृतीयम्
४. मिताली, सोलनम् चतुर्थम्

मन्त्रोच्चारणम् (कनिष्ठवर्ग:)
क्र. नाम जनपद स्थानम्
१. ईशान्तशर्मा, सिरमौरम्, प्रथम
२. अनन्या शर्मा, ऊना, द्वितीय
३. मुस्कान, मण्डी , तृतीयम्
४. हर्ष:, हमीरपुरम् चतुर्थम्

मन्त्रोच्चारणम् (वरिष्ठवर्ग:)
क्र. नाम जनपद स्थानम्
१. मन्नत, हमीरपुरम्, प्रथम
२. सूर्यांश, शिमला, द्वितीय
३. रूद्राक्ष:, ऊना , तृतीयम्
४. पल्लवी, बिलासपुरम् चतुर्थम्

संस्कृतभाषणम् (कनिष्ठवर्ग:)
क्र. नाम जनपद स्थानम्
१. दिव्यांशी, काङ्गड़ा, प्रथम
२. अदिति ठाकुर, चम्बा, द्वितीय
३. क्षीरिन, हमीरपुरम् , तृतीयम्
४. लक्षिता, सिरमौरम् चतुर्थम्

संस्कृतभाषणम् (वरिष्ठवर्ग:)
क्र. नाम जनपद स्थानम्
१. पलाक्षी शर्मा, सोलनम्, प्रथम
२. समायरा ठाकुर, सिरमौरम्, द्वितीय
३. अन्तरा शर्मा, बिलासपुरम् , तृतीयम्
४. समीक्षा, मण्डी चतुर्थम्

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

TAGGED: राज्यस्तरीय संस्कृत प्रतियोगिता, शास्त्रीय प्रतियोगिता, संस्कृत प्रतियोगिता, हमीरपुर ने जीती विजय वैजयन्ती, हिमाचल संस्कृत अकादमी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article शाही ईदगाह-प्रकरणम्, मुस्लिमपक्षाय अघातः, सर्वोच्चन्यायालयः सर्वेक्षण-आदेशं स्थगितुम् अस्वीकृतवान्
Next Article हिमाचलस्य मित्राणि मुम्बई-अध्यायः (मुम्बई चैप्टर) आरब्धवन्तः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?