सर्वोच्चन्यायालयेन केन्द्रसर्वकारस्य अनुच्छेद ३७० इत्यस्य निरस्तीकरणस्य निर्णयस्य समर्थनं कृतम्
एकस्मिन् ऐतिहासिक-निर्णये सर्वोच्चन्यायालयेन संविधानस्य अनुच्छेदस्य सप्तत्यधिक त्रिशतं इत्यस्य निरसनस्य केन्द्रप्रशासनस्य निर्णयः यथावत् स्थापितः अस्य अनुच्छेदस्य अन्तर्गतं पूर्ववर्तिने जम्मू-कश्मीर- राज्याय विशेषाधिकारः प्रदत्तः आसीत्। केन्द्रप्रशासनेन नवदशाधिक-द्वि सहस्रतमे वर्षे अयम् अनुच्छेदः निरस्तीकृतः आसीत्। सहैव राज्यं भागद्वये विभाजितम् – प्रथमं लद्दाखक्षेत्रं अपरत्र जम्मूकश्मीरः । मुख्यन्याधीशस्य डी. वाई. चन्द्रचूडस्य आध्यक्षे पञ्च-निर्णायकाणाम् एकेन संविधानपीठेन प्रशासनस्य निर्णयं समाह्वनानाम् अभ्यर्थनानां श्रवणानन्तरं निर्णयोऽयम् श्रावितः । सर्वोच्च न्यायालयेन प्रोदीरितं यत् अयं सप्तत्यधिक- त्रिशतं अनुच्छेदः एकम् अस्थायि-प्रावधानम् आसीत् राष्ट्रपतेः समीपे अस्य निरसनस्य अधिकारो विद्यते। न्यायालयेन नवदशोत्तर-द्विसहस्र तमवर्षस्य अगस्तमासे निर्णीतस्य लद्दाखस्य केन्द्रशासित प्रदेशस्य निर्णयः तादृशः एव संस्थापितः। न्यायालयेन स्पष्टीकृतं यत् जम्मू-कश्मीरस्य समीपे अन्येभ्यः राज्येभ्य- पृथक् काऽपि अन्या आन्तरिक-सम्प्रभुता नैव विराजते। अपि च, भारतीय संविधानस्य सर्वाणि प्रावधानानि जम्मू-कश्मीरे क्रियान्वितानि भवन्ति । एतस्मिन् निर्णयके संविधान पीठे अन्ये चत्वारि निर्णायकाः – न्यायमूर्तिः सञ्जयकिशन-कौलः सञ्जीव-खन्नाः वी.आर्. गवई सूर्यकान्तः च सम्मिलिताः सन्ति। त्रिभिः न्यायाधीशैः भिन्नः स्वीयनिर्णयः श्रावितः। पीठेन निर्वाचनायोगाय चतुर्विंशत्युत्तर-द्विसहस्रतमवर्षस्य सितम्बरमासं यावत् निर्वाचनाय निर्देशोऽपि प्रख्यापितः।
सर्वोच्चन्यायालयेन अनुच्छेद ३७० इत्यस्य निरस्तीकरणस्य निर्णयस्य समर्थनं कृतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment