अधुना ‘पासपोर्ट-सेवा-केन्द्रस्य’ सदृशाः भविष्यन्ति पञ्जीयनकार्यालयाः, एतेषु चतुर्षु मण्डलेषु उद्घाटयिष्यन्ते आधुनिक-सेवाकेन्द्राणि
हिमसंस्कृतवार्ता:- शिमला।
प्रदेशसर्वकारेण सामान्यजनतायाः कृते सम्पत्ति- पञ्जीयनस्य (रजिस्ट्री) प्रक्रियां सरलां, तीव्रां, पारदर्शिनीम् अधिकसुविधाजनकां च कर्तुं दिशि एकः महत्त्वपूर्णः उपक्रमः कृतः अस्ति। अस्य अन्तर्गततया ‘पासपोर्ट-सेवा-केन्द्राणां’ सदृशम् उप-पञ्जीयक-कार्यालयान् आधुनिकसुविधाभिः युक्तानि ‘पञ्जीयनसेवाकेन्द्राणि’ रूपेण विकसितानि करिष्यन्ते। राज्यसर्वकारेण स्वीकृतायाः अस्याः आधुनिकीकरणयोजनायाः अन्तर्गततया ‘डिजिटल- इण्डिया- भूमि- अभिलेख- आधुनिकीकरण- कार्यक्रमस्य’ अधीनतया शिमला- सोलन- काङ्गड़ा- सिरमौर-मण्डलानाम् उप-पञ्जीयक-कार्यालयाः आधुनिक- पञ्जीयन- सेवाकेन्द्रेषु परिवर्तिताः भविष्यन्ति। अस्य उपक्रमस्य उद्देश्यं नागरिकेभ्यः एकस्याः एव छत्रच्छायायाः अधः उत्तमाः सुविधाः उपलब्धं कारयितुं तथा पञ्जीयनसेवाः अधिकसुगमाः व्यवस्थिताश्च निर्मातुम् अस्ति।
प्रस्तावित-पञ्जीयन-सेवाकेन्द्राणि पासपोर्ट-सेवा-केन्द्राणां सदृशं विकसितानि करिष्यन्ते, येषु नागरिकाणां सुविधायाः, सेवानां प्रभावी- क्रियान्वयनस्य, प्रक्रियागत-विलम्बस्य न्यूनतायाः उपरि विशेषं ध्यानं दास्यते। अनेन आधुनिकीकरणेन जनेभ्यः उत्तमः प्रतीक्षालयः, समर्पित-सहायता-पटलम् (हेल्प-डेस्क), व्यवस्थिता पङ्क्तिव्यवस्था, ‘डिजिटल’- आधारभूतसंरचना, सम्पत्तिपञ्जीयनेन सम्बद्धाः औपचारिकताः पूरयितुं विश्रामदायकं वातावरणम् उपलब्धं भविष्यति। ‘डीआईएलआरएमपी ३.०’ इत्यस्य अन्तर्गततया चयनितानाम् अधिककार्यभारयुक्तानां पञ्जीयनकार्यालयानाम् आधुनिकीकरणाय प्रति-उप-पञ्जीयक-कार्यालयं पञ्चाशत्लक्षरूप्यकाणां (५० लक्ष) वित्तीयसहायतायाः प्रावधानं कृतम् अस्ति। अयं उपक्रमः विद्यमानायाः ‘डिजिटल’- पञ्जीयन- प्रणाल्याः इतोऽपि सुदृढीकरणस्य सहैव नागरिकेभ्यः पञ्जीयनसम्बद्धानां सेवानाम् उत्तमां सुविधां प्रदास्यति।
प्रदेशसर्वकारः पूर्वमेव प्रपत्राणां सङ्गणकीकृत- पञ्जीयनाय ‘राष्ट्रीय- सामान्य- दस्तावेज- पञ्जीयन- प्रणालीम्’ (NGDRS) अङ्गीकृतवान् अस्ति। एतदतिरिच्य, नागरिकान् सुविधाजनकरीत्या पञ्जीयनविलेखं सज्जीकर्तुं सक्षमान् निर्मातुं ‘माई-डीड’ सुविधा अपि आरब्धा अस्ति। प्रस्तावितम् आधुनिकीकरणम् एतान् ‘डिजिटल’ उपक्रमान् उत्तम-आधारभूतसंरचनया, नागरिकसुविधया तन्त्रज्ञानाधारित-प्रक्रियाभिश्च सह संयोज्य पञ्जीयनस्य सम्पूर्णां प्रक्रियां सरलां सुलभां च निर्मास्यति।
आधुनिकीकृतकेन्द्रेषु अत्याधुनिकः प्रतीक्षालयः, नागरिकसुविधा- पटलानि, उत्तमं कार्यस्थलं, ‘बायोमीट्रिक’ प्रमाणीकरणसुविधाः, प्रपत्रवीक्षकम्, ‘डिजिटल’- पङ्क्तिप्रबन्धनप्रणाली, ‘टोकन्’ निर्माणसुविधा, ‘सीसीटीवी’-निरीक्षणम्, अग्निसुरक्षाव्यवस्था अन्याः च आवश्यकाः सुविधाः उपलब्धं कारयिष्यन्ते। वरिष्ठनागरिकाणां दिव्याङ्गजनानां च सुविधायाः कृते विशेषप्रावधानानि करिष्यन्ते, येन पञ्जीयनसेवाः सर्वेभ्यः सुलभाः समावेशिन्यश्च भवितुं शक्नुयुः।
प्रत्येकस्य कार्यालयस्य आवश्यकतानाम् अनुरूपं सुविधानां विकासं सुनिश्चितं कर्तुं राजस्वविभागः चिह्नितानाम् उप-पञ्जीयक-कार्यालयानां विस्तृतम् आकलनम् करिष्यति। एतदर्थं मण्डलस्तरे समितयः निर्मास्यन्ते, यासु उपमण्डलाधिकारी, अधिशासी अभियन्ता, उपमण्डलकार्यालयाधिकारी (तहसीलदारः) उपायुक्तेन नामितः एकः सूचनाप्रौद्योगिकी- विशेषज्ञः च समाविष्टाः भविष्यन्ति। एताः समितयः विद्यमानायाः आधारभूतसंरचनायाः मूल्याङ्कनं करिष्यन्ति, निर्माणकार्याणां सूचना-सञ्चार-प्रौद्योगिक्याश्च सम्बद्धानाम् आवश्यकतानाम् अभिज्ञानं करिष्यन्ति, प्रत्येकस्य कार्यालयस्य कृते पृथक्- पृथक् व्ययस्य अनुमानं सज्जीकरिष्यन्ति तथा उत्तमजनसेवां सुनिश्चितं कर्तुम् उपयुक्तं भवनप्रारूपं कार्यप्रणालीं च अनुशंसिष्यन्ति।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः अवदत् यत् राज्यसर्वकारः आधुनिकतन्त्रज्ञानस्य माध्यमेन सुशासनम् इतोऽपि अधिकं सुदृढं कर्तुं प्रतिबद्धः अस्ति। सः अकथयत् यत् सम्पत्तिपञ्जीयनम् एका महत्त्वपूर्णा जनसेवा वर्तते, यस्याः सम्बन्धः नागरिकाणां जीवनस्य महत्त्वपूर्णैः सोपानैः सह भवति। सर्वकारस्य विशेषं ध्यानम् अस्याः प्रक्रियायाः सरलीकरणे, व्यवस्थीकृते अत्र च व्ययमाणस्य समयस्य न्यूनतायां वर्तते। मुख्यमन्त्री अवदत् यत् पञ्जीयन-सेवा-केन्द्राणां माध्यमेन नागरिकेभ्यः आधुनिकसुविधानाम्, उत्तमजनसुविधानां, सुव्यवस्थितप्रक्रियाणां तन्त्रज्ञानाधारितसेवानां च लाभः प्राप्स्यते। सः आश्वस्तवान् यद् अनेन उपक्रमेण सम्पत्तिपञ्जीयनस्य अन्तराले जनेभ्यः अधिका सुविधा प्राप्स्यते, पारदर्शिता वर्धिष्यते अनावश्यकविलम्बस्य उपरि च अङ्कुशः स्थास्यति।
मुख्यमन्त्री सुक्खूमहोदयः अवदत् यत् प्रदेशसर्वकारः विगतानां चतुर्णां वर्षाणां काले नागरिकेभ्यः उत्तमाः सुविधाः प्रदातुं निरन्तरं प्रयासान् कृतवान् अस्ति। सः अकथयत् यत् प्रदेशसर्वकारः जनसेवासु इतोऽपि परिष्कारं आनेतुं तथा नागरिकेभ्यः अधिकसुविधया, पारदर्शितया उत्तरदायित्वेन च सह गुणवत्तापूर्णसेवाः उपलब्धं कारयितुं भविष्ये अपि आवश्यकपरिष्कारान् आधुनिकतन्त्रज्ञानं च अङ्गीकर्तुं प्रतिबद्धः अस्ति।
