SSVV Varanasi – शास्त्री-आचार्य-उपाधीनां समकक्षतां शिक्षकनियुक्तिषु च पात्रतां स्पष्टीकर्तुं दिशि शासनस्य महत्त्वपूर्णः उपक्रमः
कुलपतेः सततप्रयासानां प्राप्ता सार्थका परिणतिः, संस्कृतच्छात्राणां भविष्याय नूतना आशा
हिमसंस्कृतवार्ता — वाराणसी।
देवभाषायाः संस्कृतस्य गौरवशालिन्याः शैक्षिकपरम्परायाः, विश्वविद्यालयस्य अकादमिक-प्रतिष्ठायाः तथा संस्कृतच्छात्राणाम् उज्ज्वलभविष्यस्य च दिशि उत्तरप्रदेशशासनस्य महत्त्वपूर्णः उपक्रमः सम्मुखम् आगतः अस्ति। सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वाराणस्याः शास्त्री-आचार्य-उपाधीनां क्रमशः स्नातक-स्नातकोत्तर-उपाधिभ्यां (B.A. तथा M.A.) समकक्षतां स्पष्टीकुर्वता संस्कृतविषयस्य टी.जी.टी. (TGT) पी.जी.टी. (PGT) च शिक्षकनियुक्तिषु तेषाम् अर्हतां ग्राह्यतां च स्पष्टीकर्तुं सम्बन्धे शासनस्तरे महत्त्वपूर्णं कार्याचरणं विहितम् अस्ति।
अस्यां दिशि विश्वविद्यालयस्य कुलपतिना प्रो. बिहारीलालशर्मणा शासनाय प्रेषितानां पत्राणां व्यक्तिगतसम्पर्कस्य च माध्यमेन निरन्तरम् अनवरतं च प्रयासाः क्रियमाणाः आसन्। तेन संस्कृतच्छात्राणां शैक्षिकहितानि, उपाधीनां समुचितमान्यतां वृत्तेः (रोजगार) अवसरांश्च सुनिश्चितं कारयितुम् उद्देशेन शासनाय अनेकानि पत्राणि प्रेषयित्वा अयं विषयः निरन्तरं प्रभावशालिरूपेण उत्थापितः। अस्मिन् महत्त्वपूर्णप्रकरणे माननीयस्य मुख्यमन्त्रिणः सचिवस्य हस्तक्षेपात् सकारात्मक-उपक्रमाच्च अनन्तरं शासनस्तरे कार्यविधौ गतिः प्राप्ता तथा माध्यमिकशिक्षा-अनुभाग-५ इत्यस्य अन्तर्गततया अस्य सचिवया श्रीमत्या किञ्जलसिंहया १३ नवम्बर्, २०२६ दिनाङ्के ‘उत्तरप्रदेश-शिक्षा-सेवा-चयन-आयोगाय, प्रयागराजाय’ महत्त्वपूर्णं पत्रं प्रेषितम्।
उक्तपत्रे शास्त्री-आचार्य-उपाधीनां क्रमशः स्नातक-स्नातकोत्तर-समकक्षतायाः आधारेण संस्कृतविषयस्य शिक्षकनियुक्तिषु अभ्यर्थिनाम् अर्हतां ग्राह्यतां च स्पष्टीकर्तुं तथा च वर्तमान-टी.जी.टी.-नियुक्तिविज्ञापने आवश्यकं संशोधनं कर्तुं विषयः उत्थापितः अस्ति। विशेषरूपेण शास्त्री (संस्कृतम्) उपाधिधारिणां कृते विज्ञापनसंख्या ०७/२०२६ इत्यस्य अन्तर्गततया सहायकाध्यापक-पदाय (संस्कृतम्) आवेदनं कर्तुं कापि कठिनता न भवेत् इति वार्ता स्पष्टीकृता अस्ति।
जनसम्पर्काधिकारी, सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः, वाराणसी अकथयत् यत् अयम् उपक्रमः केवलम् उपाधीनां समकक्षतायाः प्रशासनिकविषयः नास्ति, अपि तु संस्कृतस्य तेषां छात्राणां वर्षाणां साधनायै, प्रतिभायै, परिश्रमाय च उचितसम्मानं दापयितुं महत्त्वपूर्णः प्रयासः अस्ति, यैः पारम्परिक-संस्कृतशिक्षापद्धतेः माध्यमेन स्वकीया शैक्षिकयात्रा सम्पूर्णा कृता अस्ति। अनेन संस्कृतशिक्षाम् आधुनिकवृत्तेः सम्भावनाभिः सह योजयितुं तथा छात्रेषु नूतनाशायाः आत्मविश्वासस्य च सञ्चारः भविष्यति।
अस्मिन् महत्त्वपूर्ण-उपक्रमे कुलपतिः प्रो. बिहारीलालशर्मा उत्तरप्रदेशशासनं माननीयं मुख्यमन्त्रिणं च प्रति हार्दिकम् आभारं कृतज्ञतां च प्रकटितवान् अस्ति। सः अवदत् यत् संस्कृतं भारतीयज्ञानपरम्परायाः आत्मा, सांस्कृतिकचेतनायाः आधारः जीवनं च संस्कारितं कुर्वती अमूल्या ज्ञानधारा वर्तते। संस्कृतच्छात्रेभ्यः तेषाम् अर्जितयोग्यतायाः अनुरूपं सम्मानं, परिचयः अवसराश्च प्राप्तुम् आवश्यकम् अस्ति। शासनस्य अयं सकारात्मकः उपक्रमः संस्कृतशिक्षायाः प्रतिष्ठां सुदृढां कर्तुं सहैव छात्राणाम् उज्ज्वलभविष्यस्य मार्गं प्रशस्तं करिष्यति।
कुलपतिः विश्वासं प्रकटितवान् यत् शासनस्य सकारात्मकसहयोगेन देववाण्याः संस्कृतस्य संरक्षणाय, संवर्धनाय व्यापकप्रसाराय च नूतना गतिः लप्स्यते तथा च विश्वविद्यालयः संस्कृतच्छात्राणां शैक्षिकहितेभ्यः भविष्याय च निरन्तरं प्रतिबद्धः स्थास्यति।
