By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: सेनायाः उपरि टिप्पण्या क्रुद्धः प्रतिपक्षः, उद्घोषणं कृत्वा सदनात् कृतं बहिर्गमनम्, उक्तम्—क्षमां याचेत् जगतसिंहनेगी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > सेनायाः उपरि टिप्पण्या क्रुद्धः प्रतिपक्षः, उद्घोषणं कृत्वा सदनात् कृतं बहिर्गमनम्, उक्तम्—क्षमां याचेत् जगतसिंहनेगी
हिमाचलवार्ता

सेनायाः उपरि टिप्पण्या क्रुद्धः प्रतिपक्षः, उद्घोषणं कृत्वा सदनात् कृतं बहिर्गमनम्, उक्तम्—क्षमां याचेत् जगतसिंहनेगी

डॉ मनोज शैल
Last updated: 2026/11/19 at 7:31 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

सेनायाः उपरि टिप्पण्या क्रुद्धः प्रतिपक्षः, उद्घोषणं कृत्वा सदनात् कृतं बहिर्गमनम्, उक्तम्—क्षमां याचेत् जगतसिंहनेगी

हिमसंस्कृतवार्ता — धर्मशाला।

हिमाचलप्रदेश-विधानसभायाम् ‘ऑपरेशन-सिन्दूर’, ‘राफेल-व्यवहारे’, भारतीयसेनायां च मन्त्रिणः जगतसिंहनेगी-महोदयस्य टिप्पणीम् अधिकृत्य गुरुवासरे तीव्रः कोलाहलः अभवत्। मन्त्रिणः वक्तव्येन रुष्टाः प्रतिपक्षस्य भाजपा-विधायकाः सदने उद्घोषणम् अकुर्वन् तथा च विरोधं प्रकटयन्तः सदनात् बहिर्गमनं (वॉकआउट्) कृत्वा बहिः आगतवन्तः। प्रतिपक्षनेता जयरामठाकुरः मन्त्रिणः उपरि भारतीयसेनायाः अपमानं कर्तुम् आरोपम् आरोपयन् तस्मात् सदने क्षमायाचनायाः याचनाम् अकरोत्।

जयरामठाकुरः अवदत् यत् मन्त्री जगतसिंहनेगी गतेभ्यः चतुःपञ्चदिनेभ्यः निरन्तरं विवादास्पद-वक्तव्यानि ददाति। तेन आरोपः आरोपितः यत् मन्त्री अधुना सर्वकारस्य नियन्त्रणात् बहिः गतः अस्ति। संवैधानिकदायित्वं निर्वहन्तः मन्त्रिणः पक्षतः देशस्य सेनायाः विरुद्धं पुनः पुनः टिप्पणीं कर्तुं दुर्भाग्यपूर्णम् अस्ति।

सः प्रावोचत् यद् ‘ऑपरेशन-सिन्दूर’ इत्यस्य अन्तराले राफेल-विमानानां भूमिकां व्यवहारं च अधिकृत्य मन्त्रिणा भ्रष्टाचारस्य आरोपाः आरोपिताः। प्रतिपक्षस्य पक्षतः भारतीयसेनायाः कार्यविधे: उल्लेखं कृते सति मन्त्रिणा तादृशी टिप्पणी कृता, यां भाजपा-दलं सेनायाः अपमानं निर्दिष्टवान् अस्ति। जयरामठाकुरः अवदत् यत् भारतीयसेनायाः बलेन देशः सुरक्षितः वर्तते। सेनया पाकिस्तानाय समुचितं प्रत्युत्तरं दत्तम् अस्ति तथा च समग्रविश्वे तस्याः सम्मानः वर्धितः अस्ति। एतादृश्यां स्थितौ विधानसभा-सदृशे गरिमामये सदने सेनायाः भूमिकायाम् अनेन प्रकारेण टिप्पणी स्वीकर्तुं न शक्यते।

सः अवदत् यत् विधानसभाध्यक्षात् मन्त्रिणः विवादास्पदटिप्पणीं सदनस्य कार्यविधे: निष्कासयितुं याचना कृता अस्ति। मुख्यमन्त्रिणः अपि प्रश्नः कृतः यत् सेनायाः विरुद्धं पुनः पुनः वक्तव्यदानस्य अनन्तरमपि मन्त्री मन्त्रिमण्डले किमर्थं स्थापितः अस्ति? भाजपा-दलस्य याचना अस्ति यत् जगतसिंहनेगी सदने क्षमां याचेत् तथा तस्य विवादास्पदटिप्पणी कार्यविधे: निष्कास्यताम्। क्षमायाचनाम् अकृते सति प्रतिपक्षः इमं विषयं पुनः सदने उत्थापयिष्यति।

You Might Also Like

SSVV Varanasi – शास्त्री-आचार्य-उपाधीनां समकक्षतां शिक्षकनियुक्तिषु च पात्रतां स्पष्टीकर्तुं दिशि शासनस्य महत्त्वपूर्णः उपक्रमः

निम्नस्तरस्य औषधीनां निर्मातॄणां विरुद्धं भविष्यति कठोरा कार्यविधि:, सर्वकारेण निर्गमिताः दिशानिर्देशाः

भव्यया शोभायात्रया अन्ताराष्ट्रिय-रेणुका-मेलापकः आरब्धः, सहस्रशः जनाः अभवन् मातृ-पुत्रयोः मिलनस्य साक्षिणः

संस्कृतम् भारतस्य सनातन-ज्ञानचेतनायाः, सांस्कृतिक-अस्मितायाः जीवनदर्शनस्य च अमर-सम्पदा— कुलपतिः प्रो. बिहारीलालशर्मा

जनगणना-२०२७ इत्यस्मिन् संस्कृतभाषायाः समुचितम् अभिलेखनं व्यापकजनजागरूकता च इत्येतदर्थं समस्तान् संस्कृतानुरागिनः प्रति आह्वानम्

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article निम्नस्तरस्य औषधीनां निर्मातॄणां विरुद्धं भविष्यति कठोरा कार्यविधि:, सर्वकारेण निर्गमिताः दिशानिर्देशाः
Next Article SSVV Varanasi – शास्त्री-आचार्य-उपाधीनां समकक्षतां शिक्षकनियुक्तिषु च पात्रतां स्पष्टीकर्तुं दिशि शासनस्य महत्त्वपूर्णः उपक्रमः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?