By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: निम्नस्तरस्य औषधीनां निर्मातॄणां विरुद्धं भविष्यति कठोरा कार्यविधि:, सर्वकारेण निर्गमिताः दिशानिर्देशाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > निम्नस्तरस्य औषधीनां निर्मातॄणां विरुद्धं भविष्यति कठोरा कार्यविधि:, सर्वकारेण निर्गमिताः दिशानिर्देशाः
संस्कृतगतिविधयः

निम्नस्तरस्य औषधीनां निर्मातॄणां विरुद्धं भविष्यति कठोरा कार्यविधि:, सर्वकारेण निर्गमिताः दिशानिर्देशाः

डॉ मनोज शैल
Last updated: 2026/11/19 at 7:27 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

निम्नस्तरस्य औषधीनां निर्मातॄणां विरुद्धं भविष्यति कठोरा कार्यविधि:, सर्वकारेण निर्गमिताः दिशानिर्देशाः

हिमसंस्कृतवार्ता — धर्मशाला।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः प्रदेशे कृत्रिम-निम्नस्तरीय-औषधीनां निर्माणम् आपूर्तिं च अधिकृत्य कठोरं पक्षं स्वीकुर्वन् अवदत् यत् ईदृशे व्यवसाये संलग्नानां जनानां विरुद्धं कठोरं कार्याचरणं भविष्यति। अस्मिन् सम्बन्धे प्रदेशसर्वकारेण आवश्यकाः दिशानिर्देशाः निर्गमिताः सन्ति। केन्द्रस्तरे अपि सम्बद्धाधिकारिणः कार्यविधये कथिताः सन्ति।

सः प्रावोचत् यत् सर्वकारीयचिकित्सालयेषु रुग्णेभ्यः गुणवत्तापूर्णानि औषधानि उपलब्धं कारयितुं सर्वकारस्य प्राथमिकता वर्तते। श्रीसुक्खू-महोदयः सूचितवान् यत् औषधीनां क्रयणे गुणवत्तां निश्चेतुं पञ्चशतकोटि-रूप्यकेभ्यः (५०० कोटि) अधिकस्य वार्षिकव्यापारस्य (कारोबारस्य) संस्थानां नियम: स्थापित: आसीत्, किन्तु लघु-औषध-आपूर्तिकर्तॄणाम् उच्चन्यायालयं गमनानन्तरं न्यायालयेन अस्मिन् नियमे स्थगनम् आरोपितम् अस्ति। सः अवदत् यत् औषधीनां गुणवत्तायाः साक्षात् सम्बन्धः जनानां स्वास्थ्येन सह अस्ति तथा सर्वकारः अस्मिन् प्रकरणे किमपि सामञ्जस्यं (समझौता) न करिष्यति।

 

इन्दिरागान्धी-महोदयायै विधानसभा-परिसरे श्रद्धांजलिः

विधानसभाया: शीतकालीने सत्रे धर्मशालायां पूर्वप्रधानमन्त्रिण्याः स्वर्गीयायाः इन्दिरागान्धी-महोदयायाः जयन्त्याम् अवसरे बुधवासरे विधानसभा-परिसरे धर्मशालायां श्रद्धांजलि-कार्यक्रमः आयोजितः। अस्मिन् अन्तराले मुख्यमन्त्री ठाकुर-सुखविन्दरसिंहसुक्खूः, विधानसभाध्यक्षः सहितम् अन्ये च गणमान्यजनाः इन्दिरागान्धी-महोदयायै श्रद्धासुमनानि अर्पितवन्तः।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खूः अवदत् यत् देशस्य एकतायै अखण्डतायै च इन्दिरागान्धी स्वकीयं सर्वोच्चं बलिदानं दत्तवती। देशस्य निर्माणे तस्याः ऐतिहासिकनिर्णयाः योगदानं च सदैव स्मरिष्यन्ते। १९७१ तमे वर्षे तस्याः नेतृत्वे बाङ्ग्लादेशस्य निर्माणम् अभवत्। एतदतिरिच्य तया राजसंस्थानानां शासकानां विशेषाधिकारान् समापयितुं तथा भूमिसीमा-विधानं (लैण्ड् सीलिङ्ग् एक्ट्) प्रवर्तयितुं सदृशाः महत्त्वपूर्णाः निर्णयाः स्वीकृताः। दृढ-इच्छाशक्तेः साहसिकनेतृत्वस्य च कारणादेव सा ‘लौहमहिला’ (आयरन् लेडी) इति नाम्ना ज्ञायते।

 

लडभड़ोल-दुर्घटनायां शोकः

मुख्यमन्त्री मण्ड्यां सञ्जातायां दुर्घटनायां दुःखं प्रकटयन् प्रभावितपरिवारान् प्रति संवेदनां प्रकाशितवान्। सः अवदत् यत् सन्तानस्य नाशस्य दुःखं पित्रोः कृते असहनीयं भवति। अस्यां दुःखस्य घट्यां प्रदेशसर्वकारः पीडितपरिवारै: सह स्थितः अस्ति तथा नियमानुसारं सर्वा सम्भवा सहायता प्रदास्यते।

You Might Also Like

SSVV Varanasi – शास्त्री-आचार्य-उपाधीनां समकक्षतां शिक्षकनियुक्तिषु च पात्रतां स्पष्टीकर्तुं दिशि शासनस्य महत्त्वपूर्णः उपक्रमः

सेनायाः उपरि टिप्पण्या क्रुद्धः प्रतिपक्षः, उद्घोषणं कृत्वा सदनात् कृतं बहिर्गमनम्, उक्तम्—क्षमां याचेत् जगतसिंहनेगी

भव्यया शोभायात्रया अन्ताराष्ट्रिय-रेणुका-मेलापकः आरब्धः, सहस्रशः जनाः अभवन् मातृ-पुत्रयोः मिलनस्य साक्षिणः

संस्कृतम् भारतस्य सनातन-ज्ञानचेतनायाः, सांस्कृतिक-अस्मितायाः जीवनदर्शनस्य च अमर-सम्पदा— कुलपतिः प्रो. बिहारीलालशर्मा

जनगणना-२०२७ इत्यस्मिन् संस्कृतभाषायाः समुचितम् अभिलेखनं व्यापकजनजागरूकता च इत्येतदर्थं समस्तान् संस्कृतानुरागिनः प्रति आह्वानम्

TAGGED: \हिमाचल के आज के समाचार, cmo himachal, cmo himachal Pradesh. HP News, Daily Sanskrit News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal government, Himachal news, Himachal Sanskrit Academy, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, Himsanskritvarta, narendra modi, National News, national News Headlines, News Headlines, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, Today Sanskrit Nerws, varta, vartah, अन्तर्राष्ट्रीय समाचार, आज के संस्कृत समाचार, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, दैनिक समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article भव्यया शोभायात्रया अन्ताराष्ट्रिय-रेणुका-मेलापकः आरब्धः, सहस्रशः जनाः अभवन् मातृ-पुत्रयोः मिलनस्य साक्षिणः
Next Article सेनायाः उपरि टिप्पण्या क्रुद्धः प्रतिपक्षः, उद्घोषणं कृत्वा सदनात् कृतं बहिर्गमनम्, उक्तम्—क्षमां याचेत् जगतसिंहनेगी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?