जनहिते सर्वकारीय-कर्मचारिणाम् अनिवार्य-सेवानिवृत्तेः विषये सर्वकारस्य व्यापकः अधिकारः अस्ति – सर्वोच्चन्यायालयः
नवदेहलीसर्वकारीय-कर्मचारिणाम् अनिवार्य-सेवानिवृत्ति-सम्बद्धे एकस्मिन् महत्त्वपूर्णनिर्णये सर्वोच्चन्यायालयेन स्पष्टीकृतं यत् सर्वकारस्य पार्श्वे जनहिते कर्मचारिणः समयात् पूर्वं सेवानिवृत्तान् कर्तुं व्यापकः अधिकारः वर्तते। शीर्षन्यायालयेन उक्तं यत् प्रशासनिकदक्षतायाः संरक्षणाय तथा च येषां कर्मचारिणाम् उपयोगितायाः, कार्यक्षमतायाः, निष्ठायाः (ईमानदारी) वा विषये प्रश्नाः सन्ति, तादृशान् कर्मचारिन् सेवातः अपसारयितुम् इयं व्यवस्था निर्मिता अस्ति।न्यायालयेन एतदपि स्पष्टं कृतं यत् यदि निर्णयः दुर्भावनापूर्णः, स्वेच्छाचारी (मनमाना), पर्याप्त-आधारं विना वा गृहीतः स्यात्, तर्हि तस्य न्यायिकसमीक्षा (Judicial Review) सम्भवति। सर्वोच्चन्यायालयेन अयं निर्णयः छत्तीसगढ-सर्वकारस्य द्वयोः कर्मचारिणोः अपील-याचिके निरस्तं कुर्वन् श्रावितः। ताभ्यां कर्मचारिभ्यां जनहिते प्रदत्ताम् अनिवार्य-सेवानिवृत्तिं न्यायालये चुनौती प्रदत्ता आसीत्।
निर्णयस्य प्रमुखाः बिन्दवः –
सक्षमप्राधिकारिणः अधिकारः: श्रवणकाले न्यायालयेन उक्तं यत् कस्यापि कर्मचारिणः निष्ठायाः, कार्यकुशलतायाः, दक्षतायाः, समग्रसेवाभिलेखस्य (सर्विस रिकॉर्ड) च आकलनं कर्तुं सक्षमप्राधिकारिणः अधिकारः अस्ति।
समानतायाः अधिकारस्य व्याख्या: केवलम् एतस्मिन् आधारे कार्यवाह्यै चुनौती दातुं न शक्यते यत् समान-सेवाभिलेखयुक्तः अन्यः कश्चन कर्मचारी सेवायां स्थापितः अस्ति। न्यायालयेन स्पष्टीकृतं यत् संविधाने प्रदत्तः समानतायाः अधिकारः एतत् न कथयति यत् यदि पूर्वं कस्मिंश्चित् प्रकरणे त्रुटिः अभवत्, तर्हि सैव त्रुटिः अग्रे अपि अनुवर्तेत। पुरातनप्रकरणस्य त्रुटिम् आधारीकृत्य भविष्ये तादृशी एव त्रुटिः न करणीया।
न्यायिकहस्तक्षेपस्य सीमा: सर्वोच्चन्यायालयेन स्पष्टं कृतं यत् सर्वकारस्य अधिकारः असीमितः नास्ति। यदि अनिवार्य-सेवानिवृत्तेः निर्णयः प्रमाणं विना, सम्यक् विचारं विना, स्पष्टतया स्वेच्छाचारितया दुर्भावनया वा प्रेरितः स्यात्, तर्हि न्यायालयाः हस्तक्षेपं कर्तुं शक्नुवन्ति। परन्तु यत्र निर्धारितप्रक्रियायाः पालनं कृतं स्यात्, अभिलेखानाम् आधारेण च निर्णयः गृहीतः स्यात्, तत्र न्यायालयः सामान्यतः हस्तक्षेपं न करिष्यति।
जनहिते सर्वकारीय-कर्मचारिणाम् अनिवार्य-सेवानिवृत्तेः विषये सर्वकारस्य व्यापकः अधिकारः अस्ति – सर्वोच्चन्यायालयः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
