By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: चुराह-क्षेत्रस्य त्रयः सर्वकारीय-विद्यालयाः सीबीएसई-मण्डलेन सम्बद्धाः भविष्यन्ति, महिलाः लप्स्यन्ते १५००-१५०० रूप्यकाणि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > चुराह-क्षेत्रस्य त्रयः सर्वकारीय-विद्यालयाः सीबीएसई-मण्डलेन सम्बद्धाः भविष्यन्ति, महिलाः लप्स्यन्ते १५००-१५०० रूप्यकाणि
हिमाचलवार्ता

चुराह-क्षेत्रस्य त्रयः सर्वकारीय-विद्यालयाः सीबीएसई-मण्डलेन सम्बद्धाः भविष्यन्ति, महिलाः लप्स्यन्ते १५००-१५०० रूप्यकाणि

डॉ.अमनदीप शर्मा
Last updated: 2026/11/04 at 9:29 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

चुराह-क्षेत्रस्य त्रयः सर्वकारीय-विद्यालयाः सीबीएसई-मण्डलेन सम्बद्धाः भविष्यन्ति, महिलाः लप्स्यन्ते १५००-१५०० रूप्यकाणि

हिमसंस्कृतवार्ता — चम्बा।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः बुधवासरे हिमाचलप्रदेशस्य चम्बा-मण्डलस्थस्य चुराह-विधानसभाक्षेत्रस्य कृते काश्चन महत्त्वपूर्णाः घोषणाः अकरोत्। सः क्षेत्रस्य पञ्चदशसहस्र (१५,०००) महिलाभ्यः सर्वकारस्य चतुर्वर्षपूर्तेः अनन्तरं प्रतिमासं १५०० रूप्यकाणां प्रदानाय घोषणां विहितवान्। अपरत्र हिमगिरि- थल्ली- झज्जाकोठी-क्षेत्राणां त्रिषु सर्वकारीयविद्यालयेषु आगामिशैक्षणिकसत्रात् सीबीएसई (CBSE)-प्रतिरूपं (पैटर्न्) प्रवर्तिष्यते। एतदतिरिच्य लोकनिर्माणविभागस्य जलशक्तिविभागस्य च नवानां विकासपरियोजनानाम् उद्घाटनानि शिलान्यासाश्च प्रस्तावितानि सन्ति। एतासाम् उपरि कुलम् ६०.६७ कोटिरूप्यकाणि व्ययीकरिष्यन्ते।
मुख्यमन्त्री अवदत् यत् प्रदेशसर्वकारेण प्रशासनिकव्यवस्थां सरलां पारदर्शिनीं च विधातुं बहवः महत्त्वपूर्णाः पदक्षेपाः स्वीकृताः। उपमण्डलेषु (तहसील-कार्यालयेषु) भू-नामाङ्कनस्य (इन्तकालस्य) प्रक्रिया अन्तर्जालमाध्यमेन (ऑनलाइन) कृता। एतदतिरिच्य अन्याः आवश्यकाः सेवाः अपि अङ्कीयमाध्यमेन (डिजिटल-माध्यमेन) समुपलब्धाः क्रियन्ते। अनेन लघु-लघु-कार्याणां कृते जनेभ्यः वारं वारं तहसील-कार्यालयेषु भ्रमितुं न भविष्यति, गृहे एव उपविश्य च सुविधानां लाभः लब्धुं शक्ष्यते।

*मुख्यमन्त्री सुक्खूः अवदत्—भाजपा-विधायकेन जयरामठाकुरं प्रति शिक्षानीतिविषये प्रश्नाः किमर्थं नोत्थापिताः*

मुख्यमन्त्री सुखविन्दरसिंहसुक्खूः चुराह-क्षेत्रस्य भाजपा-विधायकमभिलक्ष्य प्रहारं कुर्वन् प्रावोचत् यत् सः पञ्चदशवर्षाणि यावत् क्षेत्रस्य विधायकः आसीत्, किन्तु तस्मिन् काले शिक्षानीतिम् अधिकृत्य तेन प्रश्नाः किमर्थं नोत्थापिताः? सः अपृच्छत् यत् तत्कालीनस्य मुख्यमन्त्रिणः जयरामठाकुरस्य कार्यकाले अयं विषयः किमर्थं नोत्थापितः? सुक्खू-महोदयः अवदत् यत् चुराह-क्षेत्रस्य काङ्ग्रेस-नेत्तॄणाम् अनुरुद्धौ सत्यां क्षेत्रस्य त्रीन् सर्वकारीयविद्यालयान् केन्द्रीय-माध्यमिक-शिक्षा-मण्डलेन (सीबीएसई) सह सम्बद्धीकर्तुं निर्णयः स्वीकृतः। आगामिशैक्षणिकसत्रात् एतेषु सीबीएसई-पाठ्यक्रमस्य कक्षाः प्रारप्स्यन्ते। कक्षाणां प्रारम्भात् पूर्वमेव शिक्षकाणां नियुक्तिः विधास्यते। सः विज्ञापितवान् यत् क्षेत्रस्य अन्येषां त्रयाणां विद्यालयानाम् अपि सीबीएसई-मण्डलेन सह सम्बद्धीकरणस्य प्रस्तावे विचारः क्रियमाणः वर्तते। अस्यार्थं छात्रसंख्यायाः आधारेण निर्णयः स्वीकरिष्यते। येषु विद्यालयेषु ३०० तः ४०० यावत् छात्राः भविष्यन्ति, तेऽपि अस्याः व्यवस्थायाः परिधौ आनेतुं शक्यन्ते। सम्बद्धविद्यालयानाम् अभिलेखाः (रेकार्ड) समाहूताः सन्ति। मुख्यमन्त्री अवदत् यत् तीसा-विद्यालयं सीबीएसई-मण्डलेन सम्बद्धीकर्तुं निर्णयः प्रदेशसर्वकारेण स्वीकृतः, किन्तु स्थानीय-भाजपा-विधायकेन अस्यार्थं कृतज्ञता अपि न प्रदर्शिता।

राजस्थानं प्रति विद्युद्विक्रयणं विधाय चतुर्षु *मासेषु ४०० कोटिरूप्यकाणि अर्जयिष्यति हिमाचलम् : सुक्खू-महोदयः*
मुख्यमन्त्री सुखविन्दरसिंहसुक्खूः प्रावोचत् यत् प्रदेशसर्वकारेण संसाधनानां समुचितोपयोगं कृत्वा हिमाचलस्य आर्थिकस्थितेः दृढीकरणाय बहवः महत्त्वपूर्णाः निर्णयाः स्वीकृताः। राजस्थानं प्रति १५.५० रूप्यकाणि प्रति-मात्रकस्य (यूनिट्) दरेण विद्युद्विक्रयस्य सन्धिः कृता। अनेन आगामिषु चतुर्षु मासेषु प्रदेशाय प्रायः ४०० कोटिरूप्यकाणाम् आयः भविष्यति। सर्वकारः भ्रष्टाचारस्य गुप्तद्वाराणि पिधाय हिमाचलम् आत्मनिर्भरं विधातुं कार्यं कुर्वन् अस्ति। मुख्यमन्त्री चुराह-विधानसभाक्षेत्रे चतुरः सीबीएसई-विद्यालयान् उद्घाटयितुम् अपि उद्घोषम् अकरोत्। बुधवासरे भञ्जराडू-क्षेत्रे मुख्यमन्त्री अवदत् यत् बैरास्यूल-जलविद्युत्-परियोजनायाः सञ्चालनस्य चतुश्चत्वारिंशत् (४४) वर्षपूर्तौ प्रदेशस्य निःशुल्क-विद्युद्-अंशभागं वर्धयित्वा पञ्चाशत् प्रतिशतं (५०%) कर्तुं केन्द्रसर्वकारस्य समक्षं सबलं पक्षः उपस्थापितः वर्तते।

You Might Also Like

मण्ड्यां ‘लोकतन्त्रं रक्षत, अराजकताम् अपसारयत’ इति पदयात्रया भाजपा-दलस्य शक्तिप्रदर्शनम्

लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्

हिमाचलप्रदेशस्य संस्कृतभाषासंरक्षणसंवर्धनप्रवर्तकस्य पूर्वमुख्यमंत्रिण: श्रीजयरामस्य यशोगाथा

सेवाभारती-बिलासपुर-पक्षतः AIIMS-बिलासपुर-चिकित्सालयाय पञ्च चक्रासनयन्त्राणि (व्हीलचेयर) समर्पितानि

द्विगुणादपि अधिकानि संवृत्तानि पीजी-चिकित्सा-आसनानि, षट्सु सर्वकारीय-आयुर्विज्ञान-महाविद्यालयेषु ३२० आसनानां वृद्धिः, अधुना ५९७ आसनानि

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article विक्रमजीतसिंहसनातनधर्ममहाविद्यालये दशदिवसीयसंस्कृतसम्भाषणशिबिरस्य भव्यः समापनसमारोहः सम्पन्नः
Next Article मण्ड्यां ‘लोकतन्त्रं रक्षत, अराजकताम् अपसारयत’ इति पदयात्रया भाजपा-दलस्य शक्तिप्रदर्शनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?