*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*
कोलकाता , पश्चिमबङ्गः
केन्द्रीयसंस्कृतविश्वविद्यालयसम्बद्ध- ‘श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये’ प्रतिपक्षम् आयोज्यमानायाः पाक्षिक्याः वाक्यार्थसभायाः आयोजनम् अस्मिन्पक्षे क्टोबरमासस्य ५ दिनाङ्केब २०२६ तमे सम्पन्नम्। अस्यां शास्त्रसभायां महाविद्यालयस्य प्राचार्याः, सर्वे प्राध्यापकाः तथा च छात्राः महता उत्साहेन उपस्थिताः आसन्।
कार्यक्रमस्य आरम्भः प्राचार्याणां मङ्गलमयाशीर्वचनेन अभवत्। प्राचार्यमहोदयैः स्वकीयभाषणे संस्कृतवाङ्मये वाक्यार्थसभायाः महत्तां शास्त्रीयपरम्परायाः संरक्षणे अस्याः उपयोगिताफिकं च प्रतिपादितम्।
सभायाः प्रथमे चरणे त्रिभिः शोधछात्रैः—सुफलमोदकेन, सन्तोषओझामहोदेन, सुनन्दादेमहोदयया च स्व-स्व-निर्धारितविषयेषु उत्कृष्टः वाक्यार्थः उपस्थापितः।
तदनन्तरं अध्यापकैराचार्यै: वाक्यार्थ: पस्तुत:। अस्यां शृङ्खलायां साहित्यविभागस्य आचार्यः श्रीसुमन्तपात्रमहोदयः “दोषाभासविमर्शः” इति विषयम् अधिकृत्य, दर्शनविभागस्य आचार्यः डॉ. जनार्दनसुवेदीमहोदयः “अभेदान्वयविचारः” इति दार्शनिकविषये, तथा च परिसरस्य उपप्राचार्यः वरिष्ठाचार्यः डॉ. राजेश्वरद्विवेदीमहोदयः “जिज्ञासाधिकरणम्” इति विषयमधिकृत्य पाण्डित्यपूर्णं वाक्यार्थं प्रस्तुतवन्तः।
कार्यक्रमस्य अन्ते साहित्यविभागस्य आचार्यः श्रीसुमन्तपात्रमहोदयः सर्वेषां धन्यवादज्ञापनं कृतवान्। तत्पश्चात् मङ्गलमयेन शान्तिमन्त्रेण सह सभायाः साफल्येन समापनम् अभवत्।
