By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः
संस्कृतगतिविधयःप्रादेशिकवार्ता

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

जगदीश डाभी
Last updated: 2026/10/01 at 4:33 PM
जगदीश डाभी
Share
2 Min Read
SHARE

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

 

वार्ताहर: – जगदीश डाभी, गोधरा (गुजरातम्)

(हिमसंस्कृतवार्ता:) बैंकाक (थाईलैंड) स्थितायाः शिल्पकोर्न विश्वविद्यालयस्य प्राङ्गणे भारतशासनेन संचालितस्य संस्कृताध्ययनकेंद्रस्य तथा ग्लोबलसंस्कृतफोरम-भारतस्य संयुक्तोपक्रमे आयोजितस्य पंचमस्य अन्तर्राष्ट्रियग्लोबलसंस्कृतसंगोष्ठ्याः “Indian Knowledge Systems : Bridging Cultures and Knowledge Traditions” इति विषयिकायाः त्रिदिवसीयस्य भव्यायोजनस्य द्वितीये दिने ऑफलाइन अकादमिक-सत्रे सत्राध्यक्षस्य प्रो. रजनीश शुक्लस्य, सह-अध्यक्षायाः प्रो. जया मिश्रायाः तथा कन्वीनर डॉ. कुमार बागेवाडीमठस्य गरिमामयि-उपस्थितौ गुजरातस्य गोधरास्थितायाः जय जलाराम आयुर्वेदिक मेडिकल कॉलेज (शिवपुरी) इत्यस्याः डॉ. चिराग हेमन्तकुमार पुरोहितः “संस्कृतसाहित्ये पर्यावरणचिन्तनम् : आयुर्वेदीयदृष्ट्या समकालीनवैश्विकप्रासंगिकताया: समीक्षात्मकमध्ययनम्” इति विषये स्वकीयम् उत्कृष्टं शोधपत्रं प्रस्तुतवान्।
अस्मिन् शोधपत्रे सः संस्कृतसाहित्ये पर्यावरणचेतनायाः तथा आयुर्वेददृष्टिकोणेन समकालीनवैश्विकप्रासंगिकतायाः उपरि अत्यन्तं ज्ञानवर्धकं समीक्षात्मकंच विश्लेषणं प्रस्तुत्य देश-विदेशानां विद्वज्जनान् प्रभावितवान्। एतस्मिन् वैश्विकमंचे तस्मै संस्कृतसेवाये, संस्कृतिं प्रति अद्वितीयसमर्पणाय, निष्ठायै तथा सततसाधनायै “अन्तर्राष्ट्रियसंसकृतरत्नसम्मानम्” प्रदत्तम्। एतत् तस्य कृते तथा समग्रसंस्थायाः कृते अपि महागौरवस्य क्षणः अस्ति।
संक्षिप्त-मुख्यबिन्दवः
* प्राप्तं सम्मानम्: अन्तर्राष्ट्रियसंसकृतरत्नम् (International Sanskrit Ratna)
* सम्मानितः महोदयः – डॉ. चिराग हेमन्तकुमार पुरोहितः (जय जलाराम आयुर्वेदिक मेडिकल कॉलेज, शिवपुरी, गोधरा, गुजरात)
* स्थलम् – शिल्पकोर्न विश्वविद्यालयः, बैंकाक (थाईलैंड)
* कार्यक्रमः: पंचमः अन्तर्राष्ट्रिय ग्लोबल संस्कृत संगोष्ठी (सेमिनार)
* सङ्गोष्ठ्याः विषयः – “Indian Knowledge Systems : Bridging Cultures and Knowledge Traditions”
* शोधपत्रस्य विषयः – “संस्कृतसाहित्ये पर्यावरणचिन्तनम् : आयुर्वेदीयदृष्ट्या समकालीनवैश्विकप्रासंगिकताया: समीक्षात्मकमध्ययनम्”
* उपस्थित-विद्वज्जनाः – सत्राध्यक्षः प्रो. रजनीश शुक्लः, सह-अध्यक्षी प्रो. जया मिश्रा, कन्वीनर डॉ. कुमार बागेवाडीमठः च।

You Might Also Like

SSVV Varanasi – शास्त्री-आचार्य-उपाधीनां समकक्षतां शिक्षकनियुक्तिषु च पात्रतां स्पष्टीकर्तुं दिशि शासनस्य महत्त्वपूर्णः उपक्रमः

निम्नस्तरस्य औषधीनां निर्मातॄणां विरुद्धं भविष्यति कठोरा कार्यविधि:, सर्वकारेण निर्गमिताः दिशानिर्देशाः

भव्यया शोभायात्रया अन्ताराष्ट्रिय-रेणुका-मेलापकः आरब्धः, सहस्रशः जनाः अभवन् मातृ-पुत्रयोः मिलनस्य साक्षिणः

संस्कृतम् भारतस्य सनातन-ज्ञानचेतनायाः, सांस्कृतिक-अस्मितायाः जीवनदर्शनस्य च अमर-सम्पदा— कुलपतिः प्रो. बिहारीलालशर्मा

जनगणना-२०२७ इत्यस्मिन् संस्कृतभाषायाः समुचितम् अभिलेखनं व्यापकजनजागरूकता च इत्येतदर्थं समस्तान् संस्कृतानुरागिनः प्रति आह्वानम्

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्
Next Article एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?