रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति
हिमसंस्कृतवार्ता:- नाहनम्।
रेणुकाजी-लघुसङ्ग्रहालये प्रायः एकदशकतः प्रचलन्ती व्याघ्राणां प्रतीक्षा अधुना समाप्ता। महाराष्ट्रस्य नागपुरनगरात् ‘रॉयल बङ्गाल टाइगर’ इत्यनयोः युगलं प्रायः १८०० किलोमीटर- परिमितं मार्गं तीर्त्वा रविवासरे मध्याह्ने रेणुकाजी प्राप्तम्। व्याघ्रयोः आगमनेन एव वन्यजीवविभागस्य कर्मचारिषु उत्साहस्य वातावरणम् अस्ति, परं पर्यटकान् तौ द्रष्टुम् अधुना अपि दशदिनानां प्रतीक्षा कर्तव्या भविष्यति।द्वौ अपि व्याघ्रौ साम्प्रतं बहिः क्षेत्रे न न्यस्तौ। तौ आन्तरिककक्षे रक्षितौ स्तः, यत्र चिकित्सकानां निरीक्षणातौ स्वास्थ्यस्य नूतनवातावरणस्य च अनुकूलतायाः परीक्षणं क्रियते। विभागस्य योजनारूपेण लगभग दशदिनानां निरीक्षणानन्तरम् अक्तूबर-मासस्य द्वितीयदिनाङ्कात् पर्यटकानां कृते व्याघ्रौ बहिः क्षेत्रे प्रेषयितुं शक्येते।
नागपुरतः रेणुकाजी पर्यन्तं दीर्घः प्रवासः
व्याघ्रयोः इदं युगलम् महाराष्ट्रस्य नागपुरस्थितात् ‘गोरेवाडा’ स्थानात् विशेषयानेन हिमाचलं नीतम्। उपलब्धानि विवरणानि अनुसृत्य यात्रायाः दूरी लगभग १८०० तः १९०० किलोमीटर्-मिता अस्ति। सम्पूर्णयात्रायै वन्यप्राणिविभागस्य दलम् व्याघ्रैः सह आसीत्, तेषां भोजनस्य, जलस्य, विश्रामस्य, स्वास्थ्यस्य च विशेषध्यानं च रक्षितम्। रेणुकाजी प्राप्तेः अनन्तरम् द्वौ अपि व्याघ्रौ सुरक्षितरीत्या यानात् अवतीर्य आन्तरिककक्षे प्रापितौ। नूतनवातावरणे तौ सहजौ कर्तुम् सद्यः एव पर्यटकानां सम्मुखे न नीयेते।
१.६७ कोटिरूप्यकैः निर्मितम् आधुनिकं क्षेत्रम्
व्याघ्रयोः आगमनात् प्राक् वन्यप्राणिभागेन रेणुकाजी- लघुसङ्ग्रहालये ताभ्याम् आधुनिक- सुविधासम्पन्नं क्षेत्रं निर्मितम्। विभागानुसारम् अस्मिन् १.६७ कोटिरूप्यकाणां व्ययः जातः। क्षेत्रमिदं व्याघ्रयोः सुरक्षायाः आवश्यकतानां च ध्यानं कृत्वा निर्मितम्। भविष्ये अत्र चत्वारः व्याघ्राः स्थापयितुं शक्यन्ते इति अपि सूचयितम्। अस्मात् विना व्याघ्रयोः चिकित्सकीयसुविधायाः कृते ३२ लक्षरूप्यकाणां व्ययेन वन्यप्राणिचिकित्सालयः अपि निर्मितः। अनेन रेणुकाजी-लघुसङ्ग्रहालये वन्यजीवानामुपचारे उत्तमाः सुविधाः प्राप्स्यन्ते इति आशा वर्तते।
वन्यजीव-विनिमयक्रमेण आगताः व्याघ्राः
नवीनविवरणानुसारम् ‘रॉयल बङ्गाल टाइगर’ इत्येतद् युगलम् महाराष्ट्रस्य गोरेवाडा-तः वन्यजीव- विनिमयकार्यक्रमान्तर्गतम् हिमाचलम् आनीतम् अस्ति। अस्मिन् क्रमे रेणुकाजी- सङ्ग्रहालयात् वनकुक्कुटानां युगलम् महाराष्ट्रस्य व्याघ्ररक्षणकेन्द्राय दत्तं, तस्य प्रतिदानेन च ‘रॉयल बङ्गाल टाइगर’ युगलं हिमाचलम् प्राप्त्म्। अस्य विनिमयस्य कृते अगस्तमासे २०२६ तमे वर्षे मञ्जुरी प्राप्ता आसीत् इति ज्ञापितम्। वन्यप्राणिमण्डलस्य शिमला इत्यस्य वनमण्डलाधिकारी डाॅ. शाहनवाज़ अहमद भट्टः व्याघ्रयोः रेणुकाजी-प्राप्तिम् निश्चिणोति। सः अवदत् यत् साम्प्रतं द्वौ अपि आन्तरिककक्षे रक्षितौ स्तः, लगभग दशदिनानि चिकित्सकानां निरीक्षणात् परम् अक्तूबरमासस्य द्वितीयदिनाङ्कात् पर्यटकानां कृते बहिः क्षेत्रे प्रेषणस्य तयारी क्रियते। अनेन रेणुकाजी आगच्छतां पर्यटकानां कृते आगामी अक्तूबरमासः विशेषः भविष्यति। लगभग एकदशाब्द्याः व्याघ्राणां प्रतीक्षां कुर्वन्तः जनाः इदानीम् अक्टोबर्-मासस्य द्वितीयादिनादारभ्य तान् द्रष्टुम् सुअवसरं प्राप्स्यन्ति।
रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
