By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च संयुक्तरूपेण ‘शास्त्रमन्थनम्–१०८’ व्याख्यानमालायाः द्वाविंशतितमं शास्त्रपुष्पं समर्पितम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च संयुक्तरूपेण ‘शास्त्रमन्थनम्–१०८’ व्याख्यानमालायाः द्वाविंशतितमं शास्त्रपुष्पं समर्पितम्
संस्कृतगतिविधयः

सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च संयुक्तरूपेण ‘शास्त्रमन्थनम्–१०८’ व्याख्यानमालायाः द्वाविंशतितमं शास्त्रपुष्पं समर्पितम्

डॉ.अमनदीप शर्मा
Last updated: 2026/09/22 at 8:37 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

सर्वदर्शनविभागेन सर्वदर्शनमन्थनपरिषदा च संयुक्तरूपेण ‘शास्त्रमन्थनम्–१०८’ व्याख्यानमालायाः द्वाविंशतितमं शास्त्रपुष्पं समर्पितम्
हिमसंस्कृतवार्ता डॉ. निशिकान्तपाण्डेयः
नलवारि असमप्रदेशः
सर्वदर्शनविभागेन तथा सर्वदर्शनमन्थनपरिषदा च संयुक्तरूपेण भारतीयदर्शनपरम्परायाः विविधपक्षाणां गहनमननम्, तत्त्वचिन्तनम्, शास्त्रीयविमर्शश्च जनसामान्येषु विद्यार्थिषु च प्रसारयितुं प्रवर्तिता ‘शास्त्रमन्थनम्–१०८’ इति विशिष्टा व्याख्यानमाला निरन्तरं ज्ञानप्रदायिनीं शास्त्रचर्चां प्रवर्धयति। अस्याः व्याख्यानमालायाः अन्तर्गतं द्वाविंशतितमं व्याख्यानसत्रं २०२६ तमस्य वर्षस्य सितम्बर-मासस्य एकविंशतितमे २१ दिनाङ्के, सोमवासरे, सायं सार्ध-सप्तवादने ७:३० वादने आरभ्य ८.३० वादने सफलतया सम्पन्नम्।अस्य विशेषव्याख्यानसत्रस्य मुख्यविषयः ‘महापुरुषश्रीमन्तशङ्करदेवस्य कृतिषु भक्तिस्वरूपं दर्शनञ्च’ इति आसीत्। असमप्रदेशस्य महान् सन्तः, समाजसंशोधकः, भक्तिचिन्तकः, साहित्यकारश्च श्रीमन्तशङ्करदेवः भारतीयभक्तिपरम्परायां विशिष्टं स्थानमावहति। तस्य साहित्यिकेषु, आध्यात्मिकेषु तथा दार्शनिकेषु योगदानस्य सम्यगवगमनाय आयोजितेऽस्मिन् व्याख्यानसत्रे तस्य भक्तितत्त्वस्य विविधाः आयामाः विशदतया चर्चिताः।
अस्य कार्यक्रमस्य मुख्यवक्तृत्वेन भट्टदेव-विश्वविद्यालयस्य संस्कृतविभागस्य सह-प्राध्यापिका डॉ. रुणिमा शर्मा-महोदया समुपस्थिता आसीत्। तया स्वकीयस्य विद्वत्तापूर्णस्य व्याख्याने श्रीमन्तशङ्करदेवस्य कृतिषु निहितस्य भक्तितत्त्वस्य तात्त्विकम्, दार्शनिकम्, आध्यात्मिकं च स्वरूपं विस्तरेण विवेचितम्। तया विशेषतया प्रतिपादितं यत् श्रीमन्तशङ्करदेवस्य भक्तिदर्शनं केवलं धार्मिकानुष्ठानपरकं न, अपि तु मानवजीवनस्य नैतिकमूल्यानां, सामाजिकसमरसतायाः, आध्यात्मिकचेतनायाः च विकासाय महत्त्वपूर्णं साधनम् अस्ति। तया तस्य विविधग्रन्थेषु तथा रचनासु प्रतिपादितानां भक्तितत्त्वानां सोदाहरणं विश्लेषणं कृतम्।
डॉ. शर्मा-महोदयया श्रीमन्तशङ्करदेवस्य एकशरण-नामधर्मस्य, भगवद्भक्तेः, नामस्मरणस्य, शरणागतेः तथा भक्तस्य भगवता सह सम्बन्धस्य च विविधाः पक्षाः सरलया, सरसया, सारगर्भितया च शैल्या प्रस्तुताः। तया प्रतिपादितं यत् शङ्करदेवस्य भक्तिचिन्तने बाह्याडम्बरस्य अपेक्षया अन्तःकरणस्य शुद्धिः, ईश्वरनिष्ठा, सदाचारः, प्रेम, करुणा तथा मानवमात्रे समभावना इत्यादीनां विशेषं महत्त्वं वर्तते। तस्य भक्तिविचारः समाजस्य विविधवर्गान् एकसूत्रे संयोजयितुं समर्थः अभवत् इति तथ्यं तया विविधोदाहरणैः स्पष्टतया प्रकाशितम्।व्याख्याने श्रीमन्तशङ्करदेवस्य साहित्यिकप्रतिभायाः अपि सम्यगवलोकनं कृतम्। तस्य काव्येषु, नाटकेषु, गीतिषु तथा अन्यासु रचनासु भक्तेः यत् सजीवम्, भावपूर्णम्, लोकमङ्गलपरकं च रूपं दृश्यते, तस्य विवेचनं मुख्यवक्त्र्या विस्तरेण कृतम्। तया एतदपि प्रतिपादितं यत् शङ्करदेवस्य साहित्यं केवलं भक्तिभावस्य अभिव्यक्तिमात्रं न, अपि तु तत् तत्कालीनसमाजस्य सांस्कृतिक-आध्यात्मिक-पुनर्जागरस्य महत्त्वपूर्णं माध्यममपि आसीत्।
कार्यक्रमस्य अध्यक्षतां कुलगुरुः प्रो. प्रह्लाद आर्. जोशी-महोदयः निर्व्यूढवान्। स्वकीयाध्यक्षीयभाषणे तेन श्रीमन्तशङ्करदेवस्य भक्तिसिद्धान्तस्य समकालीनसमाजे प्रासङ्गिकतां विशेषतया प्रतिपादितम्। तेन उक्तं यत् भारतीयदर्शनपरम्परा केवलं सैद्धान्तिकचिन्तनस्य परम्परा न, अपि तु सा मानवजीवनस्य परिष्कारं, समाजस्य कल्याणं तथा नैतिकमूल्यानां स्थापनां च लक्ष्यीकृत्य प्रवर्तते। अस्मिन् सन्दर्भे श्रीमन्तशङ्करदेवस्य योगदानं अत्यन्तं महत्त्वपूर्णम् अस्ति। तस्य भक्तिदर्शनं मानवजीवनं प्रेम्णा, सद्भावनया, नैतिकतया तथा आध्यात्मिकचेतनया समृद्धीकर्तुं प्रेरणां ददाति इति तेन स्पष्टतया प्रतिपादितम्।
अध्यक्षीयभाषणे प्रो. जोशी-महोदयेन भारतीयदर्शनस्य समृद्धपरम्परायां श्रीमन्तशङ्करदेवस्य विशिष्टस्थानमपि रेखाङ्कितम्। तेन तस्य शिक्षाणां वर्तमानसामाजिकपरिप्रेक्ष्ये महत्त्वं विवेचितम् तथा युवपीढ्या तस्य विचाराणां गम्भीरतया अध्ययनं कर्तव्यमिति प्रेरणापूर्वकं प्रतिपादितम्। तस्य सम्बोधनं विद्वद्भिः, शोधच्छात्रैः तथा उपस्थितैः छात्रैः विशेषरुचिना श्रुतम्।

कार्यक्रमस्य मुख्यपृष्ठपोषकः तथा संयोजकः प्रो. रणजीतकुमारतिवारी-महोदयः आसीत्। तेन कार्यक्रमे समुपस्थितैः सह स्वकीयाः महत्त्वपूर्णाः विचाराः संविभक्ताः। तेन ‘शास्त्रमन्थनम्–१०८’ इत्यस्याः व्याख्यानमालायाः उद्देश्यम् अपि प्रकाशयता उक्तं यत् भारतीयशास्त्रपरम्परायाः विविधविषयाणां गहनचर्चां आधुनिकमाध्यमैः व्यापकजनसमुदायं प्रति नेतुम् एषा व्याख्यानमाला महत्त्वपूर्णं माध्यमं भवति। शास्त्रीयज्ञानस्य संरक्षणम्, संवर्धनम्, प्रचारश्च अस्याः व्याख्यानमालायाः प्रमुखेषु प्रयोजनेषु अन्तर्भवति।
अस्मिन् ज्ञानगर्भिते कार्यक्रमे विश्वविद्यालयस्य समकुलपतिः आचार्या मल्लिका कलिता महोदया, कुलसचिवः डॉ मनोजकुमारशर्ममहोदय:, व्याकरणविभागाध्यक्षः डॉ सुधाकरमिश्रमहोदय:, सर्वदर्शनविभागस्य आचार्या प्रो. उमा महेश्वरी बी. महोदया, विभागस्य अन्ये प्राध्यापकाः, प्राध्यापिकाः, अतिथिशिक्षकाः, शोधच्छात्राः तथा छात्राः च सोत्साहं समुपस्थिताः आसन्। उपस्थितानां सहभागितया कार्यक्रमस्य शैक्षिकं वातावरणं अधिकं समृद्धम् अभवत्। व्याख्यानस्य समये उपस्थितैः श्रोतृभिः विषयस्य गाम्भीर्यं, मुख्यवक्त्र्याः तात्त्विकविश्लेषणं तथा अध्यक्षीयभाषणस्य प्रेरणादायकं स्वरूपं विशेषरुचिना अनुभूतम्।
कार्यक्रमस्य सम्पूर्णं मञ्चसञ्चालनं सर्वदर्शनविभागस्य अतिथिव्याख्यात्र्या सीमा वर्मन्-महोदयया अत्यन्तं सुव्यवस्थितरूपेण कृतम्। तया कार्यक्रमस्य विभिन्नानां चरणानां सुचारुरूपेण संचालनं कुर्वत्या वक्तॄणां परिचयः, विषयप्रवेशः, व्याख्यानस्य क्रमः तथा अन्याः कार्यक्रमीयाः प्रक्रियाः सम्यक् सम्पादिताः। तस्याः सुस्पष्टेन प्रभावशालिना च मञ्चसञ्चालनेन कार्यक्रमस्य गरिमा वर्धिता।
कार्यक्रमस्य अन्ते शोधच्छात्रा दीपशिखा घोषः उपस्थितेभ्यः सर्वेभ्यः अतिथिभ्यः, वक्तृभ्यः, अध्यक्षाय, शिक्षकवर्गाय, शोधच्छात्रेभ्यः तथा छात्रेभ्यः च हार्दिकं धन्यवादं समर्पितवती। तया विशेषतया मुख्यवक्त्र्याः विद्वत्तापूर्णव्याख्यानाय, अध्यक्षस्य प्रेरणादायकसम्बोधनाय तथा कार्यक्रमस्य सफलतायै योगदानं दत्तवद्भ्यः सर्वेभ्यः कृतज्ञता ज्ञापिता।
अन्ते शान्तिमन्त्रस्य सामूहिकपाठेन कार्यक्रमस्य विधिवत् समापनम् अभवत्। सम्पूर्णं व्याख्यानसत्रं ज्ञानवर्धकम्, चिन्तनोद्दीपकम्, प्रेरणादायकं च आसीत्। श्रीमन्तशङ्करदेवस्य भक्तिदर्शनस्य विविधपक्षाणां गम्भीरचर्चया न केवलं उपस्थितानां ज्ञानविस्तारः अभवत्, अपि तु भारतीयदर्शनपरम्परायाः लोकमङ्गलपरकं स्वरूपमपि पुनः प्रकाशमानम् अभवत्। एवं ‘शास्त्रमन्थनम्–१०८’ व्याख्यानमालायाः द्वाविंशतितमं सत्रं सफलतया सम्पन्नं भूत्वा भारतीयज्ञानपरम्परायाः सततमननम्, मन्थनं तथा प्रसारणं प्रति एकं महत्त्वपूर्णं सोपानम् अभवत्।

You Might Also Like

संस्कृतभारती – गुर्जरप्रान्तः पञ्चमहालविभागे अभ्यासवर्गः तथा मार्गदर्शनसत्रं सम्पन्नम्

विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा

खण्डस्तरीयस्य संस्कृतप्रतियोगितायाः भव्यसमापनम्

कृष्णावतारकाले समाजस्य स्थितिः(पर्वविशेष:)- डा.विमलेशः

*गाजोलमहाविद्यालये विश्वसंस्कृतदिवसोत्सवः सम्पन्नः*

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article आदरणीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य प्रेरक-उपस्थित्यां ‘जय सोमनाथ’ इति शिक्षकमण्डल्या: एकादशी वार्षिकी साधारणसभा आयोजिता
Next Article रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?