By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा
प्रादेशिकवार्तासंस्कृतगतिविधयः

विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा

जगदीश डाभी
Last updated: 2026/09/10 at 6:41 PM
जगदीश डाभी
Share
1 Min Read
SHARE

विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा

वार्ताहर: – जगदीश डाभी (महाराष्ट्रम्)

(हिमसंस्कृतवार्ता:)
​”गीर्वाणवाणी” इत्यस्य उपक्रमस्य माध्यमेन यथार्थरूपेण “विश्वगुरुत्वं” प्राप्तानां, लोकमान्यटिळकमहाविद्यालयवणी इत्यत्र संस्कृतविभागप्रमुखानां तथा च संतगाडगेबाबाअमरावतीविश्वविद्यालयस्य संस्कृतपाठ्यक्रममण्डलनियामकस्य विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयानां महाराष्ट्रशासनस्य उच्च-तन्त्रशिक्षणविभागेन घोषितः “महाराष्ट्रराज्यमहाकविकालिदाससंस्कृतसाधनापुरस्कारः” तावत् तेभ्यः यावत्पर्यन्तं विश्वतः प्राप्यमाणायां लोकमान्यतायां राजमान्यतायाः राजमुद्रा एव अस्ति। ९६ ग्रन्थाः, ३०ई-पुस्तकानि, ६ पुस्तकानां सम्पादनम्, ६००० वृत्तपत्रेषु लेखाः,५००० व्याख्यान-प्रवचनानि, त्रिंशत्तः अधिकैः मान्यवरसंस्थाभिः प्रदत्ताः पुरस्काराः, लिम्का-बुक-ऑफ-रेकॉर्ड्, नॅशनल-बुक-ऑफ-रेकॉर्ड्, इण्टरनॅशनल-बुक-ऑफ-रेकॉर्ड्, इण्डिया-बुक-ऑफ-रेकॉर्ड् तथा लण्डन-बुक-ऑफ-रेकॉर्ड् इत्येतासु विक्रमपुस्तिकायाम् पञ्चभिः विभिन्नैः उपक्रमैः कृता विक्रम: एष: विस्मयकारिणः कार्यस्य एतद् महान् सम्मानः अस्ति।


​’गीर्वाणवाणी’ यूट्यूब्-वाहिन्याः माध्यमेन नीतिशतकम्, मेघदूतम्, अभिज्ञानशाकुन्तलम्, स्वप्नवासवदत्तम, वेदान्तसारः, भारतीयस्वयंशिक्षापद्धतिः, रसास्वादोऽन्योक्तीनाम् इत्यादयः विभिन्ननिरूपणमालिकाः प्रसरन्ति, याभिः सहस्रशः संस्कृतप्रेमिणः लाभान्विताः भवन्ति।
राष्ट्रीयशैक्षणिकसंसाधनस्वयं-इत्यस्य अनुसरणेन तैः एषु विषयेषु निर्मिताः सर्वे ऑनलाईन-निःशुल्क-अभ्यासक्रमाः विश्वतः सहस्रशः संस्कृतप्रेमिणां प्रचुरं प्रतिसादं प्राप्नुवन्ति।
‘दैनिकहिन्दुस्थान’ पत्रे नित्यं प्रकाश्यमाना तेषां रघुवंशमहाकाव्यस्य लेखमाला लण्डन-बुक-ऑफ-रेकॉर्ड् इत्यनेन स्वीकृता अस्ति, शीघ्रमेव एषा मालिका नूतनं विक्रमं स्थापयिष्यति।
​          महाराष्ट्रशासनेन प्रदत्तः अयं सम्मानः सर्वेषां संस्कृतप्रेमिणां कृते सार्थाभिमानस्य विषयः अस्ति। हिमवार्ता-परिवारस्य पक्षतः डॉ. स्वानंदगजाननपुण्डमहोदयस्य हार्दिकं अभिनन्दनम्!

You Might Also Like

खण्डस्तरीयस्य संस्कृतप्रतियोगितायाः भव्यसमापनम्

कृष्णावतारकाले समाजस्य स्थितिः(पर्वविशेष:)- डा.विमलेशः

*गाजोलमहाविद्यालये विश्वसंस्कृतदिवसोत्सवः सम्पन्नः*

नवीनशिक्षानीतौ संस्कृतस्य भविष्यं च इति विषये व्याख्यानगोष्ठी सम्पन्ना

संस्कृतदिवसविशेषः – पाणिनेः सूत्रेभ्यः ए.आई.-पर्यन्तं संस्कृतेः नूतनम् उड्डयनम्

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article खण्डस्तरीयस्य संस्कृतप्रतियोगितायाः भव्यसमापनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?