By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये २०२६ वर्षस्य दीक्षारम्भकार्यक्रमः भव्यरूपेण सम्पन्नः 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये २०२६ वर्षस्य दीक्षारम्भकार्यक्रमः भव्यरूपेण सम्पन्नः 
संस्कृतगतिविधयः

कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये २०२६ वर्षस्य दीक्षारम्भकार्यक्रमः भव्यरूपेण सम्पन्नः 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/08/25 at 11:19 AM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE

कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये २०२६ वर्षस्य दीक्षारम्भकार्यक्रमः भव्यरूपेण सम्पन्नः 

कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये २०२६ वर्षस्य ‘दीक्षारम्भ:’ इति कार्यक्रमः आयोजितः अभवत्। अस्मिन् सभायाम् मुख्ख्यातिथिरूपेण असमसर्वकारस्य वित्तमन्त्री तथा स्थानीयविधायकः श्रीमान् जयन्त मल्ल बरुवा वर्येण सह बङ्गाईगावविश्वविद्यालयस्य सम्माननीयकुलपतिः विशिष्टशिक्षाविद् प्राध्यापकः तारिणीचन्द्रडेकावर्यः उपस्थितः आसीत्। विश्वविद्यालयस्य कुलपतिः प्राध्यापकः प्रह्लाद रा जोशीवर्यः, उपकुलपतिः प्राध्यापिका मल्लिका कलिता, कुलसचिवः डॉ. मनोज कुमार शर्मा एवञ्च विभिन्नाः प्राध्यापकाः प्राध्यापिकाः शोधच्छात्राः च उपस्थिताः आसन्। सहायकाचार्यायाः श्रीलोपामुद्रागोस्वामिवर्यायाः सञ्चालने आयोजिते अस्मिन् कार्यक्रमे कुलपतेः जोशीवर्यस्य पक्षतः सर्वेषां नवच्छात्राणामौपचारिकरूपेण विश्वविद्यालये स्वागतं कृतम्, तथा च प्राध्यापकः डेकावर्यः नवच्छात्रेभ्यः दीक्षोपदेशं प्रदत्तवान्। स्नातकप्रथमषण्मासस्य २४७ छात्राः तथा स्नातकोत्तरप्रथमषण्मासस्य ३६६ छात्राः दीक्षोपदेशं गृहीतवन्तः।

अस्य कार्यक्रमस्य साकमेव ज्येष्ठछात्रैः नवच्छात्रेभ्यः सङ्कल्पवचनं कारितम्। अस्यामेव सभायां मुख्यातिथिः वित्तमन्त्री जयन्त मल्ल बरुवावर्यः छात्रान् उद्दिश्य दत्ते भाषणे संस्कृतशिक्षा कथं छात्रान् विनयीकरोति समाजं प्रति उत्तरदायिनं च करोति इति प्रदर्शितवान्। मुख्यतः सङ्कल्पवचनम् आधारीकृत्य भाषिते स्ववक्तव्ये सः संस्कृतविश्वविद्यालयस्य सम्भावनाः प्रति स्वमतं प्रकटितवान्। २०११ तमे वर्षे स्थापितस्य अस्य विश्वविद्यालयस्य वर्तमानेषु १४ विभागेषु सर्वसमुच्चयेन १७२५ छात्राः अध्ययनं कुर्वन्तः सन्ति इति विषयः नलबारीक्षेत्रस्य कृते तथा च समग्र-उच्चशिक्षाक्षेत्रस्य कृते अतीव आशाजनकः इति सः उल्लिखितवान्।

विशिष्टातिथिः प्राध्यापकः डेकावर्यः संस्कृतशिक्षायाः महत्त्वं भविष्यस्य सम्भावनाः च इति अधिकृत्य स्वस्य सारगर्भितं भाषणं प्रदत्तवान्। उल्लेखनीयं यत् अद्यतनसभायामेव विश्वविद्यालयस्य वार्षिकपत्रिकायाः ‘भास्करद्युति’ इत्यस्याः विमोचनं कृतम्, तथा च विश्वविद्यालयस्य अनलाइन-ISSN-शोधपत्रिकायाः ‘ई-आन्तरिका’ इत्यस्याः शुभविमोचनं जातम्।

सभायाः अन्ते सर्वान् प्रति धन्यवादज्ञापनं विश्वविद्यालयस्य कुलसचिवः डॉ. मनोज कुमार शर्मावर्यः अकरोत्।

You Might Also Like

अयोध्यायां जनपदस्तरीयः संस्कृतप्रतिभाखोजप्रतियोगिताः सम्पन्नाः

नैमिषारण्ये संस्कृतसप्ताहे गीतास्वाध्यायेन सह ‘मम स्थाने संस्कृतम्’ इत्युद्घोषः

केन्द्रीयसंस्कृतविश्वविद्यालये खादी-ग्रामोद्योगविषये संगोष्ठी वाद-विवादप्रतियोगिता च सम्पन्ना

नैमिषारण्ये संस्कृतसप्ताहस्य शुभारम्भः, क्रीडया संस्कृतशिक्षणम्

अखिलभारतीयसंस्कृतपरिषदः प्रतियोगितायां प्रिया पाण्डेय प्रथमस्थाने

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article केन्द्रीयसंस्कृतविश्वविद्यालये खादी-ग्रामोद्योगविषये संगोष्ठी वाद-विवादप्रतियोगिता च सम्पन्ना
Next Article नैमिषारण्ये संस्कृतसप्ताहे गीतास्वाध्यायेन सह ‘मम स्थाने संस्कृतम्’ इत्युद्घोषः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?