By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलस्य काङ्गड़ा-जनपदे एकोनविंशति-वर्ष-पर्यन्तानां युनां कृते प्रदास्यते कृमिनाशकौषधम्, सज्जीकरणे संलग्नः स्वास्थ्य-विभागः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलस्य काङ्गड़ा-जनपदे एकोनविंशति-वर्ष-पर्यन्तानां युनां कृते प्रदास्यते कृमिनाशकौषधम्, सज्जीकरणे संलग्नः स्वास्थ्य-विभागः
हिमाचलवार्ता

हिमाचलस्य काङ्गड़ा-जनपदे एकोनविंशति-वर्ष-पर्यन्तानां युनां कृते प्रदास्यते कृमिनाशकौषधम्, सज्जीकरणे संलग्नः स्वास्थ्य-विभागः

डॉ मनोज शैल
Last updated: 2026/08/21 at 9:40 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

हिमाचलस्य काङ्गड़ा-जनपदे एकोनविंशति-वर्ष-पर्यन्तानां युनां कृते प्रदास्यते कृमिनाशकौषधम्, सज्जीकरणे संलग्नः स्वास्थ्य-विभागः

हिमसंस्कृतवार्ता — काङ्गड़ा।

राष्ट्रिय-कृमि-मुक्ति-दिवसस्य २०२६ सफल-आयोजनाय उपायुक्त-कार्यालये काङ्गड़ा-मण्डल-स्वास्थ्य-विभागेन मण्डल-स्तरीय-कार्यदलस्य (टास्क फोर्स) उपवेशनम् आयोजितम्। उपवेशनस्य अध्यक्षताम् अतिरिक्त-उपायुक्तः काङ्गड़ा विनयकुमारः अकरोत्। राष्ट्रिय-कृमि-मुक्ति-दिवसस्य आयोजनम् १८ सितम्बर दिनाङ्के भविष्यति।

उपवेशने मण्डल-स्वास्थ्य-अधिकारी डॉ. राजेशसूदः, मण्डल-कार्यक्रम-अधिकारी डॉ. दुष्यन्तः, प्रदीपपटियालः, उप-मण्डल-प्रारम्भिक-शिक्षाधिकारी अश्वनीकुमारः, उप-निदेशकः प्रारम्भिक-शिक्षा बलविन्द्रसिंहः सहिताः विविध-विभागानाम् अधिकारिणः उपस्थिताः आसन्।

अतिरिक्त-उपायुक्तेन विनयकुमारेण सर्व-सम्बद्ध-विभागेभ्यः अभियानस्य सफल-सञ्चालनाय परस्पर-समन्वयेन कार्यं कर्तुं निर्देशाः दत्ताः। सः पालकेभ्यः, शिक्षकेभ्यः, बाल-विकास-केन्द्र-कार्यकर्तृभ्यः (आङ्गनवाडी), समुदायस्य सद्स्येभ्यश्च सक्रिय-सहयोगाय न्यवेदयत्।

 

३.७२ लक्ष-बालकेभ्यः औषध-वितरणस्य लक्ष्यम्

अतिरिक्त-उपायुक्तः विज्ञापितवान् यत् राष्ट्रिय-कृमि-मुक्ति-दिवसे एकात् एकोनविंशति-वर्ष-पर्यन्तस्य (१ तः १९ वर्षाणि) आयु-वर्गस्य बालकेभ्यः विद्यालयानाम् आङ्गनवाडी-केन्द्राणां च माध्यमेन कृमिनाशकम् औषधं प्रदास्यते, यदा च द्वि-तः पञ्च-वर्ष-पर्यन्तस्य बालकेभ्यः ‘विटामिन-ए’ इत्यस्य मात्रा (खुराक) दास्यते। तेन प्रोक्तं यत् प्रशासनस्य एषः यत्नः यत् प्रत्येकः बालकः अस्मिन् अभियाने समाविष्टः भवेत्।

काङ्गड़ा-मण्डले प्रायः त्रि-लक्ष-द्विसप्तति-सहस्र (३,७२,०००) योग्य-बालकेभ्यः कृमिनाशकौषध-प्रदानाय लक्ष्यं निर्धारितम् अस्ति। कृमि-मुक्तिः एका सुरक्षिता प्रभावशालिनी च स्वास्थ्य-योजना अस्ति, या बालकानां पोषणे, रोग-प्रतिरोधक-क्षमतायां, समग्र-विकासे च महद्-योगदानं करोति।

मण्डल-स्वास्थ्य-अधिकारिणा डॉ. राजेशसूदेन सज्जीकरणानां विवरणं दत्तम्। मण्डल-कार्यक्रम-अधिकारिणा डॉ. दुष्यन्तेन उक्तं यत् १८ सितम्बर दिनाङ्के विद्यालय-गामिभ्यः बालकेभ्यः ‘एल्बेन्डाजोल’-औषधस्य मात्रा दास्यते। पञ्च-वर्षेभ्यः न्यून-वयस्केभ्यः बालकेभ्यः ‘विटामिन-ए’ अपि प्रदास्यते। एषा सम्पूर्ण-प्रक्रिया प्रशिक्षित-कर्मचारिणां सम्मुखे सुरक्षा-नियमानां पालनेन सह सम्पन्ना भविष्यति।

You Might Also Like

HP VIDHANSABHA SESSION – प्रावृट्-सत्रस्य प्रथमे एव दिने कोलाहलः, ‘वन्दे मातरम्’ इत्यधिकृत्य सदने संजातः महद्-आक्रोशः

HP NEWS – ‘एनएचएम’ बाह्य-स्रोत-कर्मचारिणां वर्धितं मानदेयम्; एताभ्यः पञ्च-श्रेणीभ्यः लप्स्यते लाभः

मुख्यमन्त्री सुक्खू-महोदयः अवदत् — राष्ट्रगानस्य अपमानं कृत्वा भाजपा-विधायकैः कृतः अपराधः

संग्रहण-तन्त्रं समूलम् उत्पाटयिष्यामः; छात्राः प्रश्नान् पृच्छेयुः चेत् उत्तरम् अवश्यं लभ्येत् -राहुलगान्धी

प्रियङ्का गान्धी बालकेभ्यः सन्देशं प्रेषितवती, उक्तवती—निराशाः मा भवत, ऋतु: सम्यक् भवति चेत् अवश्यं मिलितुम् आगमिष्यामि

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP VIDHANSABHA SESSION – प्रावृट्-सत्रस्य प्रथमे एव दिने कोलाहलः, ‘वन्दे मातरम्’ इत्यधिकृत्य सदने संजातः महद्-आक्रोशः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?