By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP NEWS – ‘एनएचएम’ बाह्य-स्रोत-कर्मचारिणां वर्धितं मानदेयम्; एताभ्यः पञ्च-श्रेणीभ्यः लप्स्यते लाभः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP NEWS – ‘एनएचएम’ बाह्य-स्रोत-कर्मचारिणां वर्धितं मानदेयम्; एताभ्यः पञ्च-श्रेणीभ्यः लप्स्यते लाभः
हिमाचलवार्ता

HP NEWS – ‘एनएचएम’ बाह्य-स्रोत-कर्मचारिणां वर्धितं मानदेयम्; एताभ्यः पञ्च-श्रेणीभ्यः लप्स्यते लाभः

डॉ मनोज शैल
Last updated: 2026/08/21 at 9:33 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

HP NEWS – ‘एनएचएम’ बाह्य-स्रोत-कर्मचारिणां वर्धितं मानदेयम्; एताभ्यः पञ्च-श्रेणीभ्यः लप्स्यते लाभः

हिमसंस्कृतवार्ता — शिमला। 

हिमाचलप्रदेशे राष्ट्रिय-स्वास्थ्य-अभियानस्य (NHM) अन्तर्गतं बाह्य-स्रोत-आधारेण सेवां यच्छतां कर्मचारिणां मानदेये वृद्धिः कृता। अभियानेन परिचारिकायाः (उपचारिकायाः), औषध-प्रदातृणां (फार्मासिस्ट), प्रयोगशाला-तन्त्रज्ञानां (लैब तकनीशियन) तथा च शल्यक्रिया-कक्ष-सहायकानां मासिक-मानदेयं पञ्चविंशति-सहस्र-रूप्यकाणि (२५,०००) निर्धारितम्। तत्रैव दत्त-प्रविष्टि-सञ्चालकाय (डाटा एण्ट्री ऑपरेटर) अधुना प्रति-मासम् अष्टादश-सहस्र-रूप्यकाणि (१८,०००) मानदेयं प्राप्स्यते। संशोधितानि वेतनानि १ सितम्बर २०२६ दिनाङ्कात् प्रवर्तिष्यन्ते। राष्ट्रिय-स्वास्थ्य-अभियानस्य अभियान-निदेशकेन अस्मिन् विषये आदेशाः प्रसारिताः।

हिमाचलप्रदेश-स्वास्थ्य-परिवार-कल्याण-समित्याः अधिशासी-निकायस्य (प्रशासक-मण्डलस्य) उपवेशने स्वीकृतस्य निर्णयस्य तथा च २०२६-२७ वर्षाय भारत-सर्वकारस्य स्वास्थ्य-परिवार-कल्याण-मन्त्रालयात् प्राप्तायाः अनुमतेः अनन्तरम् एषः निर्णयः स्वीकृतः।

आदेशस्य प्रतिलिपयः राज्य-सर्वकारस्य स्वास्थ्य-सचिवाय, स्वास्थ्य-सेवा-निदेशकाय, सर्वेभ्यः मुख्य-चिकित्साधिकारिभ्यः, राष्ट्रिय-स्वास्थ्य-अभियानस्य संयुक्त-नियन्त्रकाय, सर्वेभ्यः खण्ड-चिकित्साधिकारिभ्यश्च आवश्यक-कार्यानुष्ठानाय प्रेषिताः। अधुना स्वास्थ्य-विभागेन राष्ट्रिय-स्वास्थ्य-अभियानेन च सम्बद्धैः संस्थानैः १ सितम्बर-तः संशोधित-मानदेयानुसारं कर्मचारिभ्यः धन-प्रदानं सुनिश्चितं कर्तव्यं भविष्यति।

You Might Also Like

हिमाचलस्य काङ्गड़ा-जनपदे एकोनविंशति-वर्ष-पर्यन्तानां युनां कृते प्रदास्यते कृमिनाशकौषधम्, सज्जीकरणे संलग्नः स्वास्थ्य-विभागः

HP VIDHANSABHA SESSION – प्रावृट्-सत्रस्य प्रथमे एव दिने कोलाहलः, ‘वन्दे मातरम्’ इत्यधिकृत्य सदने संजातः महद्-आक्रोशः

मुख्यमन्त्री सुक्खू-महोदयः अवदत् — राष्ट्रगानस्य अपमानं कृत्वा भाजपा-विधायकैः कृतः अपराधः

संग्रहण-तन्त्रं समूलम् उत्पाटयिष्यामः; छात्राः प्रश्नान् पृच्छेयुः चेत् उत्तरम् अवश्यं लभ्येत् -राहुलगान्धी

प्रियङ्का गान्धी बालकेभ्यः सन्देशं प्रेषितवती, उक्तवती—निराशाः मा भवत, ऋतु: सम्यक् भवति चेत् अवश्यं मिलितुम् आगमिष्यामि

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article मुख्यमन्त्री सुक्खू-महोदयः अवदत् — राष्ट्रगानस्य अपमानं कृत्वा भाजपा-विधायकैः कृतः अपराधः
Next Article HP VIDHANSABHA SESSION – प्रावृट्-सत्रस्य प्रथमे एव दिने कोलाहलः, ‘वन्दे मातरम्’ इत्यधिकृत्य सदने संजातः महद्-आक्रोशः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?