संस्कृतभारत्याः गुर्जरप्रान्तस्य प्रान्त-अभ्यासवर्गः ऐठोरग्रामे सम्पन्नः
महेसाणा: संस्कृतभारत्याः गुर्जरप्रान्तस्य *प्रान्त-अभ्यासवर्गः महेसाणा-जनपदस्य ऊंझा-निकटवर्तिनि ऐठोरग्रामे सफलतया सम्पन्नः। अस्मिन् प्रान्त-अभ्यासवर्गे कार्यकर्तृणां मार्गदर्शनार्थं संस्कृतभारत्याः अखिलभारतीयमहामन्त्री श्री सत्यनारायणभट्टः* तथा *क्षेत्रसंघटनमन्त्री श्री विठ्ठलभट्टः विशेषरूपेण समागतवन्तौ।
अभ्यासवर्गस्य माध्यमेन संस्कृतस्य प्रचार-प्रसारः, कार्यकर्तृनिर्माणम्, संगठनविस्तारः तथा समाजस्य विभिन्नवर्गेषु संस्कृतं कथं जन-जनपर्यन्तं प्रापयितुं शक्यते इत्यादिषु विषयेषु विस्तृतं मार्गदर्शनं प्रदत्तम्। विविधेषु सत्रेषु कार्यकर्तृभिः सक्रियतया सहभागित्वं कृत्वा संस्कृतकार्यस्य विस्ताराय आवश्यकाः योजनाः चर्चिताः।
वर्गे आहत्य प्रायः ७५ कार्यकर्तारः उत्साहपूर्वकं सहभागितां कृतवन्तः। सम्पूर्णवर्गस्य वातावरणम् उत्साहपूर्णं प्रेरणादायकं च आसीत्। कार्यकर्तृभिः संस्कृतस्य प्रचार-प्रसाराय तथा समाजस्य जन-जनपर्यन्तं संस्कृतं नेतुं समर्पितभावेन कार्यं कर्तुं संकल्पः व्यक्तः।
अस्य प्रान्त-अभ्यासवर्गस्य अध्यक्षत्वं डॉ. कृष्णप्रसाद निरौलामहोदयेन* कृतम्। प्रान्तमन्त्रीरूपेण डॉ. रघुराम लश्करी, सहमन्त्रीरूपेण श्री वसन्तभाई जोशी, सञ्चालनदायित्वं डॉ. धीरेन्द्र मिश्रः, महाप्रबन्धकरूपेण श्री विष्णुभाई पटेल तथा महेसाणा-जनपद-संयोजकरूपेण श्री विष्णुभाई पटेल उपस्थिताः आसन्। सर्वैः दायित्वधारकैः कार्यक्रमस्य सफलतायै सक्रियतया सहयोगः प्रदत्तः।
अभ्यासवर्गः *गुर्जरप्रान्ते संस्कृतकार्यस्य विस्ताराय, कार्यकर्तृणां क्षमताविकासाय तथा संस्कृतसेवायाः नवीनदिशानिर्धारणाय महत्त्वपूर्णः सिद्धः। कार्यक्रमस्य समापनसमये उपस्थितैः कार्यकर्तृभिः संस्कृतकार्यं अधिकाधिकं जनानां समीपं नेतुं दृढः संकल्पः कृतः।
