‘मालामाल वीकली २’ इति चलच्चित्रस्य सज्जीकरणम् आरब्धम्, परिणीतिचोपडा रवीनाटण्डन् च अस्य अंशः सञ्जाते
वार्ताहर: जगदीश डाभी, मुम्बई
(हिमसंस्कृतवार्ता:) प्रियदर्शनस्य निर्देशने निर्मिता ‘मालामाल वीकली’ इति चलच्चित्रं बॉलिवुड-क्षेत्रस्य उत्कृष्टतमासु हास्यचित्रकथासु अन्यतमं वर्तते। एतत् चलच्चित्रम् आरम्भात् समाप्यवधि प्रेक्षकान् हासयति। अस्य चलच्चित्रस्य बहूनि हास्यदृश्यानि अद्यापि सामाजिकमाध्यमेषु प्रसारितानि भवन्ति, येषु बहवः व्यङ्ग्यचित्राणि (मीम्स) अपि रच्यन्ते। अधुना अस्यैव उत्कृष्टस्य हास्यचलच्चित्रस्य उत्तरभागः (सीक्वल) निर्मितुं प्रक्रम्यते।
‘मालामाल वीकली’ इत्यस्य उत्तरभागस्य ‘मालामाल वीकली २’ इत्यस्य सज्जीकरणं प्रारब्धम्। निर्मातृभिः पात्राणां चयनम् आरब्धम्। बॉलिवुड-जगतः प्रसिद्धे अभिनेत्र्यौ रवीनाटण्डन् परिणीतिचोपडा च अस्य हास्यचलच्चित्रस्य भागः सञ्जाते। ‘बॉलिवुड हंगामा’ इति प्रतिवेदनस्यानुसारं द्वे अपि अभिनेत्र्यौ कथायाः पात्राणां च आवश्यकतानुसारं पूर्णतः उपयुक्ते स्तः। एतदेव कारणम् आसीत् यत् निर्मातारः ते चलच्चित्रस्य भागं कर्तुम् अतीव उत्साहिताः आसन्। प्रसन्ना वार्ता इयं यत् रवीनाटण्डन् परिणीतिचोपडा च उभे अपि कथां स्वस्वपात्रे च अतीव अरोचेताम्। उभे अपि अविलम्बं चलच्चित्राय स्वीकृतिं दत्तवत्यौ।
रवीनाटण्डन् परिणीतिचोपडा च उभे अपि प्रतिभाशालिन्यौ अभिनेत्र्यौ स्तः। उभे अपि हास्यभिनयम् अतिशयेन कुरुतः। रवीना अद्यावधि बहुषु हास्यचलच्चित्रेषु कार्यं कृत्वा प्रेक्षकान् अहासयत्। परिणीतिः अपि अनेकेषु हास्यचलच्चित्रेषु दृष्टा। एतादृश्यां स्थितौ ‘मालामाल वीकली २’ इत्यस्मन् अपि उभे स्वस्य उत्कृष्टेन अभिनयेन प्रेक्षकान् हासयितुं सफले भविष्यतः।
#parineetichopra #raveenatandon #MalamaalWeekly2 #movietime
