By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ऊनाजनपदे डोहगीस्थे सनातनधर्म-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमा-महोत्सवस्य भव्यायोजनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > ऊनाजनपदे डोहगीस्थे सनातनधर्म-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमा-महोत्सवस्य भव्यायोजनम्
राष्ट्रीयवार्ताः

ऊनाजनपदे डोहगीस्थे सनातनधर्म-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमा-महोत्सवस्य भव्यायोजनम्

डॉ.अमनदीप शर्मा
Last updated: 2026/07/29 at 3:59 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

ऊनाजनपदे डोहगीस्थे सनातनधर्म-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमा-महोत्सवस्य भव्यायोजनम्

सनातनधर्म-आदर्शसंस्कृतमहाविद्यालये, डोहग्यां गुरुपूर्णिमायाः पावनः महोत्सवः श्रद्धाभक्तिपूर्णे गरिममये च वातावरणे सुसम्पन्नः । कार्यक्रमस्य शुभारम्भः महाविद्यालयस्य छात्रैः नेहा-दिव्यांशु-इत्यादिभिः सर्वेषां गुरूणां तिलकधारणपूर्वकं विहितः । ततःपरं कार्यक्रमस्य अध्यक्षेन महाविद्यालयस्य प्राचार्येण प्रो. लालसिंहपठानियामहोदयेन वरिष्ठाचार्यैश्च दीपप्रज्वालनं कृत्वा कार्यक्रमस्य औपचारिकः शुभारम्भः कृतः । वैदिकमङ्गलाचरणं वेदविभागस्य आचार्येण डा. महेशशर्मणा तथा वैदिकछात्रेण निशान्तेन अन्यैश्च वैदिकविद्यार्थिभिः विहितम् ।
कार्यक्रमे समुपस्थितानां सर्वेषामतिथीनां स्वागतं सम्मानं च महाविद्यालयस्य छात्राभ्याम् आर्यनशर्मणा सचिनशर्मणा च कृतम् । महाविद्यालयस्य छात्राभिः पूजा-शिखा-अञ्जलि-सुहानीभिः स्वागतगीतस्य माध्यमेन सर्वेषां गुरुजनानामभिनन्दनं कृतम् । अस्मिन्नवसरे विद्यार्थिभिः गुरुमहिम्नः सम्बन्धीनि प्रेरणादायकानि विचारप्रस्तावनानि, भाषणानि, कवितापाठाः तथा सांस्कृतिककार्यक्रमाश्च प्रस्तुताः, येषां सर्वैः मुक्तकण्ठेन प्रशंसा कृता। शास्त्री-द्वितीयवर्षस्य छात्र्यः रिधम, नैन्सी तथा सिमरन भाषणैः, अभिलाषाशर्मा तथा काजल गीत-कविताभ्यां, राघवशर्मा च मङ्गलश्लोकपाठेन गुरुवन्दनां कृतवान् ।
कार्यक्रमस्य समन्वयकः मुख्यवक्ता च आचार्यः डा. नरेन्द्रकुमारः गुरुपूर्णिमायाः ऐतिहासिकं दार्शनिकं सांस्कृतिकं च महत्त्वं विशदीकृत्य महर्षेः वेदव्यासस्य अद्वितीयं योगदानं स्मारितवान्। तेन उक्तं यत् गुरवः भारतीयज्ञानपरम्परायाः संवाहकाः सन्ति, तेषां मार्गदर्शनेन एव समाजे ज्ञानस्य, संस्काराणां नैतिकमूल्यानां च संरक्षणं सम्भवति । स्वकीयवक्तव्ये तेन स्वामीविवेकानन्दस्य, स्वामीदयानन्दस्य च उदाहरणैः गुरोर्वैभवं सुस्पष्टतया प्रतिपादितम् ।
महाविद्यालयस्य वरिष्ठाचार्यः डा. केदारदत्तपुरोहितः शास्त्रेषु वर्णितानां “नमोऽस्तु ते व्यासविशालबुद्धे” इत्यादीनां श्लोकानामाधारेण महर्षेः वेदव्यासस्य संस्कृतभाषायाः भारतीयसंस्कृतेश्च उन्नयने योगदानं विवृण्वन् गुरोः सम्बन्धिनां बहूनां श्लोकानां यथार्थभावं श्रोतृभ्यः सम्यक् निरूपितवान् ।
कार्यक्रमस्य अध्यक्षः महाविद्यालयस्य प्राचार्यः प्रो. लालसिंहपठानियामहोदयः स्वीये अध्यक्षीयोद्बोधने अवदत् यत् भारतीयसंस्कृतौ गुरोः स्थानं सर्वोच्चम् अस्ति। गुरुः केवलं ज्ञानं न ददाति, अपितु शिष्यस्य व्यक्तित्वनिर्माणं कृत्वा तं संस्कारितजीवनस्य मार्गे प्रेरयति । गुरौ श्रद्धा, विनयः, समर्पणभावश्च विद्यार्थीजीवनस्य वास्तविकसफलतायाः मूलाधारः इति प्रतिपादयन् प्रो. पठानियामहोदयः स्वकीयकवितया विद्यार्थिनः गुरुजनानां प्रति सम्मानम्, अनुशासनं समर्पणभावं च निरन्तरं धारयितुमाह्वानम् अकरोत् ।
कार्यक्रमस्य संयोजनं ज्योतिषविभागस्य आचार्येण डा. मुकेशकुमारेण कृतम् । मञ्चसञ्चालनं शास्त्रीकक्षायाः छात्राभ्यां श्रीसुधांशुना सुश्रीतमन्नया च कुशलतया विहितम् । कार्यक्रमस्य समापनकाले महाविद्यालयस्य राष्ट्रियसेवायोजनायाः (एन.एस.एस.) स्वयंसेवकविद्यार्थिभिः सत्यम् सरोचः, अंशुलभट्टः, मनीषः, अनीकेतः, शुभम्, संजु इत्यादिभिः प्रसादवितरणं कृतम् ।

अस्मिन्नवसरे महाविद्यालयस्य आचार्याः डा. राजिन्द्रकुमारशर्मा, डा. रविदत्तशर्मा, डा. कृष्णादेवी, श्री रविकन्यालः, श्री विपिनपटियालः, डा. बिक्रमबाद्यकरः, डा. अरुणादेवी, डा. महेशशर्मा, सुश्री अनीता, श्रीमती कपिलापुरोहिता, श्रीमती अञ्जु, श्रीमती पूजा, श्री विजयः, श्री राजेशः, श्रीमती रीता तथा अन्ये प्राध्यापकाः कर्मचारीवर्गश्च सादरमुपस्थिताः आसन् ।

You Might Also Like

रामजन्मभूमि-मन्दिर-समर्पणराशि-चौर्ये नवीन-एसआईटी-गठनम्, सर्वोच्चन्यायालयः स्थितिप्रतिवेदनम् अयाचत

भाजपा-दलस्य राज्यसभा-सांसदेन हर्षमहाजनेन सह गृह मन्त्रिणः अमितशाहस्य शिष्टाचारमेलनम्

राष्ट्रमण्डल-क्रीडासु मीराबाई-चानू-वर्गायाः स्वर्णिमं प्रदर्शनम्

परीक्षा-परिष्काराय नन्दन-निलेकणि-महोदयस्य अध्यक्षतायां उच्च-स्तरीय-समित्याः गठनम्: प्रधानमन्त्री नरेन्द्रमोदी

‘मन की बात’ भारतं स्वस्य वैज्ञानिकीं प्राविधिकीं क्षमतां निरन्तरं वर्धयति-प्रधानमन्त्री

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article अग्नेश्वर-महादेव-मन्दिरस्य महत्त्वम्, एकस्मिन् गर्भगृहे द्वे शिवलिङ्गे सम्मुखे स्थापिते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?