राष्ट्रमण्डल-क्रीडासु मीराबाई-चानू-वर्गायाः स्वर्णिमं प्रदर्शनम्: भारतेन जितं प्रथमं स्वर्णपदकम्
भारतस्य तारा-भारोत्तोलिका (वेटलिफ्टर) मीराबाई चानू राष्ट्रमण्डल-क्रीडासु (राष्ट्रमंडल खेल 2026) इतिहासम् अरचयत् भारतस्य स्वर्णिम-अभियानस्य प्रारम्भम् अकरोत्। महिलानां ४८ किलोग्राम्-वर्गे मीराबाई उत्कृष्टं प्रदर्शनं कृत्वा स्वर्णपदकं स्वनाम्ना अकरोत्, एतत् राष्ट्रमण्डल-क्रीडासु भारतस्य प्रथमं स्वर्णपदकम् अस्ति। अनेन सह एव मीराबाई चानू राष्ट्रमण्डल-क्रीडासु स्वर्णपदकस्य स्वकीयां ‘हैट्रिक’-श्रृङ्खलाम् अपूरयत्। अस्मात् पूर्वं सा २०१८ (गोल्ड कोस्ट) तथा २०२२ (बर्मिंघम) तमे वर्षे अपि भारताय स्वर्णपदकं प्रापयत्। मीराबाई चानू आहत्य १९० किलोग्राम्-भारम् उत्थाप्य स्पर्धायाम् एकपक्षीयं विजयं प्राप्नोत्। सा ‘स्नैच’-चक्रे ८५ किलोग्राम्-भारम् उत्थाप्य नवीनं क्रीडा-कीर्तिमानं (गेम्स रिकॉर्ड) स्थापयित्वा स्वकीयां अग्रतां सुदृढाम अकरोत्। ततः ‘क्लीन एंड जर्क’-चक्रे १०५ किलोग्राम्-भारम् उत्थाप्य इतिहासम् अरचयत्।
🇮🇳 MIRABAI CHANU IS A THREE-TIME COMMONWEALTH GAMES GOLD MEDALIST 🥇
▶️ Follow here for live updates: https://t.co/HMv5pN0U60 pic.twitter.com/mVItiAfJe0
— ESPN India (@ESPNIndia) July 26, 2026
२०१४ तमे वर्षे ग्लासगो-नगरे मीराबाई चानू स्वस्य प्रथमं राष्ट्रमण्डल-क्रीडा-पदकं जितवती आसीत्, यत् रजत-रूपेण आगच्छत्। अधुना निरन्तरं चतुर्थ-संस्करणे सा पदक-जयने सफलताम् अवाप्नोत्। गतेभ्यः त्रिभ्यः संस्करणेभ्यः सा स्वर्णपदकं जयति। मीराबाई चानू एतासु क्रीडासु स्वर्णस्य ‘हैट्रिक’-श्रृङ्खलां स्थापयित्री प्रथमा भारतीया भारोत्तोलिका संजाता।
