By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: शिक्षाक्षेत्रे अनुपमं निदर्शनम्: परीक्षायाः अन्तिमदिने एव कुमारभास्करवर्मासंस्कृत-पुरातनाध्ययनविश्वविद्यालयेन परीक्षाफलं घोषितम्* 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > शिक्षाक्षेत्रे अनुपमं निदर्शनम्: परीक्षायाः अन्तिमदिने एव कुमारभास्करवर्मासंस्कृत-पुरातनाध्ययनविश्वविद्यालयेन परीक्षाफलं घोषितम्* 
संस्कृतगतिविधयः

शिक्षाक्षेत्रे अनुपमं निदर्शनम्: परीक्षायाः अन्तिमदिने एव कुमारभास्करवर्मासंस्कृत-पुरातनाध्ययनविश्वविद्यालयेन परीक्षाफलं घोषितम्* 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/07/25 at 9:20 AM
डॉ.निशिकान्तः पाण्डेयः
Share
1 Min Read
SHARE

*शिक्षाक्षेत्रे अनुपमं निदर्शनम्: परीक्षायाः अन्तिमदिने एव कुमारभास्करवर्मासंस्कृत-पुरातनाध्ययनविश्वविद्यालयेन परीक्षाफलं घोषितम्* 

नलबाडी, २४-०७-२६:

 

छात्राणां शैक्षणिकभविष्यस्य सुरक्षितीकरणाय नलबाडीस्थितः कुमारभास्करवर्मासंस्कृतपुरातनअध्ययनविश्वविद्यालयः एकं युगान्तकारिणं समयोचितं च पदक्षेपं स्वीकृत्य अनन्यं निदर्शनं प्रस्तुतवान्। शिक्षासुधारस्य अभिनवप्रयासरूपेण विश्वविद्यालयप्रशासनेन अद्य विधि-पारङ्गत (LL.M.) प्रथमसत्रपरीक्षायाः अन्तिमप्रश्नपत्रस्य समाप्तेः केवलं चतसृषु (४) होरासु (घण्टासु) एव परीक्षाफलं घोषितम्। अस्मिन् वर्षे जनवरीमासे विश्वविद्यालयेन विधिशास्त्रे नूतनः स्नातकोत्तरपाठ्यक्रमः आरब्धः।

एतस्याः उपलब्धेः विषये परीक्षानियन्त्रकः डॉ. प्रशान्तज्योतिगौतममहोदयः उक्तवान् यत्, परीक्षाफलस्य प्रतीक्षायां परीक्षार्थिनां यः बहुमूल्यः समयः प्रायशः नष्टः भवति, तस्य रक्षणार्थमेव एषा विशिष्टा व्यवस्था कृता। सः अवदत् यत् आधुनिक-अङ्कीय-प्रविधेः (Digital Technology) मानवीयप्रयत्नस्य च सुदृढसमन्वयेन एतादृशे न्यूनतमे समये परीक्षाफलं प्रकाशयितुं शक्यम् अभवत्। अपि च सूचितं यत् परीक्षार्थिनः विश्वविद्यालयस्य जालपुटे (Website) निश्चित-सङ्केत-माध्यमेन (Link) स्वकीयाम् अङ्कतालिकां (Score Card) प्राप्तुं (Download) शक्नुवन्ति। तदतिरिक्तं, छात्राणां सौकर्यार्थं विश्वविद्यालयेन उत्तरपुस्तिकानां पुनर्मूल्याङ्कनाय (Re-evaluation) अपि अन्तर्जालमाध्यमेन आवेदनस्य व्यवस्था कृता अस्ति। पुनर्मूल्याङ्कनार्थं अन्तर्जाल-आवेदनस्य अन्तिमा तिथिः ४ अगस्त, २०२६ इति निर्दिष्टा अस्ति।

उल्लेखनीयम् अस्ति यत् कुलपतेः आचार्य-प्रह्लाद-रा-जोशी-महोदयस्य दूरदर्शिनि नेतृत्वे राष्ट्रिय-शिक्षा-नीतिः २०२० (NEP 2020) इत्यस्याः प्रभावी-कार्यान्वयनाय विश्वविद्यालयः निष्ठापूर्वकं प्रगत्या प्रसरति। विश्वविद्यालयस्य सूत्रानुसारं शैक्षणिकव्यवस्थायां पारदर्शिता, क्षिप्रता, आधुनिकता च समाविष्टा, येन कारणेन पारम्परिक-समयात् बहुपूर्वमेव परीक्षाफलं घोषितुं समर्थाः अभवन्। विश्वविद्यालयस्य एतादृशः प्रशंसनीयः उपक्रमः छात्रसमुदायस्य कृते विशेषतः लाभदायकः भविष्यति इति आशास्यते।

 

You Might Also Like

ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य शुभारम्भः

महामण्डलेश्वर-यति-मातुः प्रत्यङ्गिरा-गिरी इत्येतस्याः सम्मानार्थं साधूनां आशीर्वाद-समारोहः

बालिका विद्यालय, मोतीनगर, लखनऊ इत्यत्र “गृहे गृहे संस्कृतम्” योजनायाः जुलैमासीय-द्वादशदिवसीय-शिक्षणवर्गस्य समापनम्

‘विश्वपटले संस्कृतविश्वविद्यालयः स्वकीयं विशिष्टं परिचयं स्थापयेत्’ – डॉ. पंकजचान्देः

संस्कृतभारत्याः पटियालाविभागस्य परिवारसम्मेलनं सम्पन्नम्।

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य शुभारम्भः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?