By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमन्त्री सुक्खूः अवदत् – निर्धनानां भूमिहीनानां च जनानाम् अतिक्रमण-प्रकरणेषु शिथिलतार्थं निर्मास्यामः नीतिम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मुख्यमन्त्री सुक्खूः अवदत् – निर्धनानां भूमिहीनानां च जनानाम् अतिक्रमण-प्रकरणेषु शिथिलतार्थं निर्मास्यामः नीतिम्
हिमाचलवार्ता

मुख्यमन्त्री सुक्खूः अवदत् – निर्धनानां भूमिहीनानां च जनानाम् अतिक्रमण-प्रकरणेषु शिथिलतार्थं निर्मास्यामः नीतिम्

डॉ मनोज शैल
Last updated: 2026/07/15 at 8:04 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

मुख्यमन्त्री सुक्खूः अवदत् – निर्धनानां भूमिहीनानां च जनानाम् अतिक्रमण-प्रकरणेषु शिथिलतार्थं निर्मास्यामः नीतिम्

 

हिमसंस्कृतवार्ता: — हमीरपुरम्।

मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना हमीरपुरक्षेत्रे प्रायः १९.४० कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य नगरनिगम-कार्यालयभवनस्य शिलान्यासः तथा च लघुव्यापारिणां महिला-स्वयं-सहायता-समूहानां च कृते प्रायः ५० लक्षरूप्यकाणां उत्पादनमूल्येन निर्मितानां आपणानां ग्रामीणहाटस्य च उद्घाटनं विहितम्। तदुपरान्तं टाउन-हॉल मध्ये एकां जनसभां सम्बोधयन् मुख्यमन्त्री उदघोषयत् यत् सर्वकारीयभूमौ बहुवर्षेभ्यः पूर्वं उषितानां (बसे हुए) निर्धनानां भूमिहीनानां च जनानां गृहेभ्यः शिथिलतां प्रदातुं प्रदेशसर्वकारः एकां नीतिं निर्मातुं विचारं करिष्यति, येन तेभ्यः साहाय्यं प्राप्तुं शक्येत। तेन प्रोक्तं यत् राज्यसर्वकारः अतिक्रमणप्रकरणानां सन्दर्भे उच्चतमन्यायालयस्य (सुप्रीम कोर्ट) दिशानिर्देशानाम् अध्ययनं करोति अस्मिन् च उचितः निर्णयः ग्रहीष्यते।

 

*स्वास्थ्य-शिक्षाक्षेत्रे सर्वकारस्य प्राधान्यम्*

 

तेन कथितं यत् स्वास्थ्य-शिक्षाक्षेत्राणि प्रदेशसर्वकारस्य प्राधान्यसूच्यां वर्तन्ते। सर्वकारः राज्यस्य सर्वेषु आयुर्विज्ञानमहाविद्यालयेषु (मेडिकल कालेजों में) आधुनिक-अत्याधुनिक-यन्त्राणां संस्थापनाय तथा च सुपर-स्पेशलिस्ट-चिकित्सकानां प्राध्यापकानां च नियुक्तये विशेषं ध्यानं केन्द्रितं करोति, येन जनेभ्यः प्रदेशस्य आन्तरमेव ‘एम्स’ (AIIMS) तथा च ‘पीजीआई’ (PGI) स्तरस्य चिकित्सासुविधाः उपलभ्येरन्। एतासु चिकित्सासंस्थासु प्रयोगशालानाम् आधुनिकीकरणाय प्रदेशसर्वकारः १२५ कोटिरूप्यकाणि व्ययीकरोति। राज्यसर्वकारः सामान्यातुरेभ्यः (मरीजों) अत्यन्तं महार्घां रोबोटिक-शल्यक्रियां (रोबोटिक सर्जरी) न्यूनव्ययेन उपलब्धं कारयति। एतेषु महाविद्यालयेषु पी.जी. (PG) आसनानां सङ्ख्यायाम् अपि महत्या सङ्ख्यया वृद्धिः क्रियते। अनेन प्रदेशे अधिकाः विशेषज्ञ-चिकित्सकाः उपलप्स्यन्ते स्वास्थ्यसेवाश्च सशक्ततां प्राप्स्यन्ति।

 

*जोल-सप्पड़ परिसरे शीघ्रमेव आरप्स्यते चिकित्साहाविद्यालयः*

 

मुख्यमन्त्रिणा प्रतिपादितं यत् तेन यू.पी.ए. (UPA) शासनकाले तत्कालीन-प्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य केन्द्रीय-स्वास्थ्यमन्त्रिणः गुलाममबी-आजादस्य च साहाय्येन हमीरपुरक्षेत्राय मेडिकल-कॉलेजः स्वीकृतः कारितः आसीत्। वर्तमान-प्रदेशसर्वकारः अस्य महाविद्यालयस्य कृते सम्प्रति प्रायः ५०० कोटिरूप्यकाणि प्रसारितवान् अस्ति। तेन प्रोक्तं यत् ‘जोल सप्पड़’ इत्यस्य नूतने परिसरे अस्य महाविद्यालयस्य सञ्चालनं शीघ्रमेव आरप्स्यते। तेन दृढीकृतं यत् प्रदेशसर्वकारः ‘हिमकेयर’ (Himcare) योजनां न स्थगयिष्यति, परन्तु अस्याः योजनायाः नाम्नि संजातं कथितघोटालां प्रकटं (पर्दाफाश) करिष्यति।

तेन उक्तं यत् प्रदेशसर्वकारेण शिक्षाक्षेत्रे अनेके परिष्कारा: कृताः, सी.बी.एस.ई. (CBSE) विद्यालयानां स्थापनायाः कारणतः प्रदेशस्य सर्वकारीयविद्यालयेषु छात्रसङ्ख्यायां प्रायः २४ सहस्राणां वृद्धिः अभवत्। प्रदेशसर्वकारेण एच.पी.पी.एस.सी. (HPPSC) तथा च हिमाचलप्रदेशराज्यचयन-आयोगस्य माध्यमेन सर्वासु नियुक्तिषु पारदर्शितां सुनिश्चितां कृत्वा प्रतिभावद्भिः युवकैः सह न्यायः विहितः। तेन कथितं यत् किशाऊ-बन्धपरियोजना, अन्याः जलविद्युत्परियोजनाः तथा च ‘वाइल्ड फ्लॉवर हॉल’ सदृशेषु प्रकरणेषु प्रदेशसर्वकारेण दृढतया स्वपक्षः स्थापितः, येन हिमाचलस्य हितानां रक्षा अभवत् प्रदेशाय च अर्बुदशः (अरबों) रूप्यकाणां राजस्वं सुनिश्चितं जातम्।

 

*नगरनिगमे समाविष्टानाम नूतनक्षेत्राणां जनेभ्यः ५ वर्षाणि यावत् करमुक्तिः*

 

मुख्यमन्त्रिणा प्रोक्तं यत् नगरनिगम-हमीरपुरे समाविष्टानां नूतनक्षेत्राणां जनेभ्यः पञ्चवर्षाणि यावत् करेषु (टैक्स में) शमनं प्रदास्यते। हमीरपुरे प्रायः १३० कोटिरूप्यकाणां व्ययेन प्रदेशस्य सर्वतः बृहत्तमस्य बस-स्थानकस्य (बस टर्मिनल) निर्माणं क्रियते तथा च वर्तमान-बस-स्थानकस्य स्थाने प्रायः २०० कोटिरूप्यकाणां सञ्चयमूल्येन आधुनिक-सिटी-सेन्टर (City Centre) इत्यस्य निर्माणं विधास्यते। अत्र नगरवासिभ्यः प्रतिदिनं बहिस्तः आगच्छद्द्भ्यः जनेभ्यश्च आपणिकी (शॉपिंग), मनोरञ्जनं, वाहनस्थानं (पार्किंग) च सम्मिलितं कृत्य सर्वाः सुविधाः उपलप्स्यन्ते। पुरातनाः व्यापारिणः अपि अस्मिन् सिटी-सेन्टर मध्ये अथवा अन्येषु उपयुक्तेषु स्थानेषु समायोजिताः करिष्यन्ते।

तेन कथितं यत् हमीरपुरे विभिन्नानां विभागानां, निगमानां, बोर्डानां च पञ्च राज्यस्तरीयाः कार्यालयाः स्थापिताः सन्ति अनेकाः बृहत्यः परियोजनाश्च स्वीकृति: प्राप्ताः। मुख्यमन्त्रिणा हमीरपुरे विजयदशमी-उत्सवाय (दशहरा) अन्येभ्यः आयोजनेभ्यश्च उपयुक्तायाः भूमेः विकासं कर्तुं अन्यासाम् याचनानां पूरणाय च उद्घोषणा कृता। तेन हमीरपुरनगरस्य रेहड़ी-फहड़ी धारकेभ्यः (लघु-विक्रेतृभ्यः) अपि श्रेष्ठाः सुविधाः प्रदातुम् आश्वासनं दत्तम्।

You Might Also Like

आकस्मिक-जलप्लावेन (फ्लैश फ्लड) मलिनावशेषेण च उत्पन्ने सङ्कटे हिमाचल-उच्चन्यायालयः दृढः, किन्नौर-मण्डलस्य उपायुक्तः वैयक्तिकरूपेण न्यायालयं प्रति आक्षिप्तः

‘विश्वपटले संस्कृतविश्वविद्यालयः स्वकीयं विशिष्टं परिचयं स्थापयेत्’ – डॉ. पंकजचान्देः

MONSOON UPDATE – पर्वतेषु प्रकृतेः प्रकोपः – उत्तराखण्डे ९१ मार्गाः रुद्धाः, काश्मीरे मेघविस्फोटः; हिमाचले प्रचण्डवृष्टेः सतर्कता

हमटायां (मनाली) चतुर्विंशतिवर्षानन्तरं भगवान् श्रृङ्गिऋषिमहाराजस्य महर्षेः जमदग्नेः (जमलूदेवस्य) च दिव्य-महासमागमः सम्पन्नः

‘राममन्दिरन्यासं भङ्गं कृत्वा सर्वोच्च- न्यायालयस्य निरीक्षणे भवेत् अन्वेषणम्’- शोभा ओझा

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article ‘विश्वपटले संस्कृतविश्वविद्यालयः स्वकीयं विशिष्टं परिचयं स्थापयेत्’ – डॉ. पंकजचान्देः
Next Article आकस्मिक-जलप्लावेन (फ्लैश फ्लड) मलिनावशेषेण च उत्पन्ने सङ्कटे हिमाचल-उच्चन्यायालयः दृढः, किन्नौर-मण्डलस्य उपायुक्तः वैयक्तिकरूपेण न्यायालयं प्रति आक्षिप्तः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?