By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये १५ जुलाई दिनाङ्के ‘महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कार’ समारोहः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये १५ जुलाई दिनाङ्के ‘महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कार’ समारोहः
प्रादेशिकवार्ताराष्ट्रीयवार्ताःसंस्कृतगतिविधयः

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये १५ जुलाई दिनाङ्के ‘महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कार’ समारोहः

डॉ मनोज शैल
Last updated: 2026/07/12 at 5:52 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये १५ जुलाई दिनाङ्के ‘महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कार’ समारोहः

संस्कृतभाषायाः भारतीयज्ञानपरम्परायाश्च राष्ट्रिय-अन्ताराष्ट्रिय-विदुषां भविष्यति सम्मानम्

हिमसंस्कृतवार्ता: — डॉ रेणुका बोकारे नागपुरम्।

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयद्वारा प्रतिवर्षं पं. रामनारायण शर्मा वैद्यमहोदयस्य स्मृतौ पं. रामनारायण शर्मा आयुर्वेद-अनुसन्धानप्रतिष्ठानस्य, स्थानीयमण्डलाप्रशासनस्य तथा च महाराष्ट्रपर्यटनविकासमण्डलस्य (नागपुरम्) संयुक्ततत्त्वावधाने ‘महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्काराः’ प्रदीयन्ते। समाजे संस्कृतभाषां गौरवपूर्णं स्थानं प्रापयितुम् अमूल्यं योगदानं प्रदातृभ्यः महान्-विभूतिभ्यः विश्वविद्यालयपक्षतः एषः प्रतिष्ठितः पुरस्कारः प्रदीयते।

वर्ष २०२३, २०२४ तथा २०२५ तमवर्षाणां कृते ‘महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्काराः’ आषाढमासस्य प्रथमदिवसस्य शुभे अवसरे बुधवासरे, १५ जुलाई २०२६ दिनाङ्के प्रातः ११:०० वादने रामटेकक्षेत्रे एकेन विशेषसमारोहेण महाकविकालिदासदिवसस्य उपलक्षणे विशिष्टातिथीनां करकमलैः प्रदास्यन्ते। एते पुरस्काराः तिसृषु श्रेणीषु—अन्तर्राष्ट्रियसंस्कृतविद्वान्, वरिष्ठसंस्कृतविद्वान् तथा च युवासंस्कृतविद्वान्—इति श्रेणीषु प्रदीयन्ते।

समारोहस्य अध्यक्षतां विश्वविद्यालयस्य माननीयाः कुलपतयः डॉ. अतुलवैद्यमहोदयाः विधास्यन्ति। विश्वविद्यालयस्य संस्थापकाः कुलपतयः डॉ. पंकजचान्देमहोदयाः मुख्यातिथिरूपेण तथा च प्रो. गणपतीयादवमहोदयाः (पूर्वकुलपतयः, आईसीटी विश्वविद्यालयः, मुम्बई) विशिष्ट-अतिथिरूपेण उपस्थिताः भविष्यन्ति। बैद्यनाथसंस्थायाः निदेशकाः डॉ. सुरेशशर्मामहोदयाः तथा च महाराष्ट्रपर्यटनविकासमण्डलस्य वरिष्ठाः प्रादेशिकप्रबन्धकाः श्रीदिनेशपाटीलवर्यः विशेषातिथयः भविष्यन्ति। संस्कृत-संस्कृतेतरभाषासङ्कायस्य अधिष्ठात्री प्रो. कविताहोलेमहोदया कुलसचिवः डॉ. रोशन-अलोनेमहोदयश्च अपि मञ्चासीनाः स्थास्यन्ति।

महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कारः – २०२३, २०२४ एवं २०२५ विविधश्रेणीषु पुरस्कृताः विद्वांसः अधोनिर्दिष्टसारण्यां प्राप्यन्ते—

पुरस्कारश्रेणीपुरस्कृतविद्वांसः विदुष्यश्च

अन्तर्राष्ट्रियसंस्कृतविद्वच्छ्रेणी

१. प्रो. चाँदकिरण सलूजा – संस्कृत-शिक्षाशास्त्रयोः अन्ताराष्ट्रियख्यातिप्राप्तविद्वान्, सदस्यन्यासी एवं शिक्षाविद् निदेशकः, संस्कृतसंवर्धनप्रतिष्ठानम्, नवदेहली।

२. प्रो. सरोजा भाटे, पुणे – संस्कृतव्याकरणस्य प्राच्यविद्यायाश्च अन्ताराष्ट्रियख्यातिप्राप्ता विदुषी, अध्यक्षा, प्रज्ञापाठशाला, वाई।

३. प्रो. माधव देशपांडे – कैलिफ़ोर्निया (संस्कृतव्याकरण-भाषाशास्त्र-संस्कृतप्राकृतभाषाणां विशेषज्ञः, मिशिगनविश्वविद्यालयस्य पूर्वप्राध्यापकः, अमेरिका।

 

ज्येष्ठ (वरिष्ठ) संस्कृतविद्वच्छ्रेणी

१. श्रीनन्दकिशोर पत्तरकिने –  संस्कृतपत्रकारिता-भारतीयज्ञानपरम्परा-प्राच्यविद्याक्षेत्रेषु उल्लेखनीययोगदानाय प्रख्यातविद्वान्, पूर्वसम्पादकः, ‘संस्कृत भवितव्यम्’, नागपुरम्

२. प्रो. कालुरी हनुमंत राव – संस्कृतस्य सुप्रसिद्धविद्वान्, सिकन्दराबादः

३. प्रो. कृष्णकांत शर्मा – भारतीयदर्शनशास्त्रस्य विशेषज्ञः, पूर्वप्राध्यापकः, बनारस हिन्दू विश्वविद्यालयः, वाराणसी

 

युवासंस्कृतविद्वच्छ्रेणी

१. डॉ. रामकृष्ण पेजथाय – संस्कृतसाहित्य-ज्योतिष-भारतीयज्ञानपरम्पराणां तथा अष्टावधानकलायाः संरक्षणे उल्लेखनीययोगदानाय, चाणक्यविश्वविद्यालयः, बेङ्गलूरु

२. प्रो. वीरनारायण पांडुरंगी – वेदभाष्यकारः, भारतीयदर्शनशास्त्रस्य विद्वान्, पूर्णप्रज्ञपाठशालायाः निदेशकः, बेङ्गलूरु

३. डॉ. सचिन कठाळे – संस्कृतप्रचार-प्रसारस्य अग्रणी, ‘संभाषणसंदेशः’ पत्रिकायाः सम्पादकः, नागपुरम्

 

पुरस्कारराशिः सम्मानञ्च

अस्य पुरस्कारस्य अन्तर्गतम् अन्ताराष्ट्रियसंस्कृतविद्वच्छ्रेण्याः तथा वरिष्ठसंस्कृतविद्वच्छ्रेण्याः प्रत्येकस्मै पुरस्कारविजेत्रे ₹५०,००० (पञ्चाशत्सहस्ररूप्यकाणि) तथा च युवासंस्कृतविद्वच्छ्रेण्याः प्रत्येकस्मै पुरस्कारविजेत्रे ₹२५,००० (पञ्चविंशतिसहस्ररूप्यकाणि) पुरस्कारराशिः, सम्मानपत्रं, शालवस्त्रं, श्रीफलं च प्रदास्यते।

You Might Also Like

SHRIKHAND YATRA – श्रीखण्डयात्रां प्रति पूर्णप्रतिबन्धः, धारा १६३ (163) प्रवृत्ता इति सूचना

HP GOVT CBSE SCHOOLS – सी.बी.एस.ई. मानकानुसारं भविष्यन्ति शिक्षकाणां नियुक्तयः, पदानां सृजन-युक्तिकरणाय स्वीकृति:

होटल-विपणि (मॉल)-चिकित्सालयेषु ‘हरितभवनसंहिता प्रवृत्ताः, उल्लङ्घने दण्डशुल्कम् , संशोधिताः नियमाः प्रसारिताः

HPSEBL e-KYC – २३ लक्षोपभोक्तृणां ई-केवाईसी, १८ लक्षजनेभ्यः द्वि-विद्युन्मानके साहाय्यकधनस्य लाभः

HP EDUCATION DEPARTMENT – १४ वर्षपुरातने ए.सी.पी.-विवादे शिक्षाविभागस्य निर्णयः, विद्यालयप्रवक्तृभ्यः प्राप्स्यते वेतनलाभः

TAGGED: him sanskritam, HIM SASNSKRIT VARTA, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, KKSU, KKSU Ramtek, sanskrit University, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय, केन्द्रीय संस्कृत विश्वविद्यालय, संस्कृत विश्वविद्यालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article SHRIKHAND YATRA – श्रीखण्डयात्रां प्रति पूर्णप्रतिबन्धः, धारा १६३ (163) प्रवृत्ता इति सूचना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?