हिमाचलप्रदेशे महत् प्रशासनिकपरिवर्तनम्, १८ आईएएस तथा १६ एचएएस अधिकारिणां स्थानान्तरणम्
शिमला। हिमाचलप्रदेशे महत् प्रशासनिकपरिवर्तनं सञ्जातम्। राज्यसर्वकारेण १८ आईएएस (IAS) तथा १६ एचएएस (HAS) अधिकारिणां स्थानान्तरणं कृतम् अस्ति। स्थानान्तरितेषु आईएएस-अधिकारिषु डा. अभिषेक जैनः, सुदेश कुमार मोख्टा, अमरजीत सिंहः, तोरुल एस रवीशः, अभिषेक वर्मा, अजय कुमार यादवः, महेन्द्र पॉल गुर्जरः, विनय कुमारः, राहुल जैनः, दिव्यांशु सिंगलः, ओमकांत ठाकुरः, गुरुसिमर सिंहः, इंशांत जसवालः, रुपिंदर कौर, डा. राजदीप सिंहः, प्रियांशु खाटी, अंजलि गर्गः तथा चन्द्र प्रकाशः च सम्मिलिताः सन्ति।
एवमेव एचएएस-अधिकारिषु अश्वनी कुमारः, एकता काप्टा, संजीव कुमारः, शिल्पी बेक्टा, सुरजीत सिंहः, हितेश आजादः, सिद्धार्थ आचार्यः, सन्नी शर्मा, नरेश कुमार वर्मा, चेत सिंहः, गौरव चौधरी, विश्रुत भारती, रमन कुमार शर्मा, पूजा अधिकारी तथा अमन कुमारः च सम्मिलिताः सन्ति। सर्वेभ्यः अधिकारिभ्यः नवीनानि स्थानानि पदनामानि च दत्तानि।
Loading Viewer...
