संसदः वर्षाकालीनं सत्रं (मानसून सत्र) अस्मात् मासात् विंशति (२०) दिनाङ्कात् आरप्स्यते
संसदः वर्षाकालीनं सत्रं (मानसून सत्र) अस्मिन् मासे विंशतितमे (२०) दिनाङ्के आरप्स्यते, अगस्त-मासस्य त्रयोदश (१३) दिनाङ्कं यावत् च प्रचलति। संसदीय-कार्य-मन्त्री किरेन रिजिजू महोदयः अज्ञापयत् यत् राष्ट्रपतिः द्रौपदी मुर्मु महोदया २० जुलाई-दिनाङ्कात् संसदः वर्षाकालीनं सत्रम् आह्वातुं सर्वकारस्य प्रस्तावं स्वीकृतवती अस्ति।एकस्मिन् सामाजिक-माध्यम-सन्देशे (सोशल मीडिया पोस्ट) श्री रिजिजू महोदयः अवदत् यत् अस्मिन् सत्रे राष्ट्रियमहत्त्वस्य विषयेषु सार्थिकायां चर्चायां, वादे, निर्णयग्रहणे च विशेषं अवधानं केन्द्रीकृतं भविष्यति।
संसदः वर्षाकालीनं सत्रं (मानसून सत्र) अस्मात् मासात् विंशति (२०) दिनाङ्कात् आरप्स्यते
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
