By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति – अनुरागठाकुरः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति – अनुरागठाकुरः
हिमाचलवार्ता

विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति – अनुरागठाकुरः

डॉ मनोज शैल
Last updated: 2026/06/30 at 7:35 AM
डॉ मनोज शैल
Share
3 Min Read
SHARE

विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति – अनुरागठाकुरः

हिमसंस्कृतवार्ता: — शिमला।

पूर्वकेन्द्रीयमन्त्री सासंदश्च अनुरागसिंहठाकुरः सोमवासरे शिमलाप्रवासकाले विश्वप्रसिद्ध-जाखूमन्दिरे भगवान् हनुमद्दर्शनं कृत्वा आशीर्वादं प्राप्तवान्। एतस्मात् परं तेन ‘एकं वृक्षं मातुः नाम्नि’ (एक पेड़ मां के नाम) अभियानस्य अन्तर्गतं आयोजिते वृक्षारोपणकार्यक्रमे भागं गृहीत्वा पर्यावरणसंरक्षणस्य सङ्केतः दत्तः। अनुरागठाकुरः अवदत् यत् शिमलाम् आगच्छन् प्रत्येकः श्रद्धालुः यदि जाखूमन्दिरे हनुमानजी इत्यस्य दर्शनं न करोति, तर्हि तस्य यात्रा अपूर्णा मन्यते। एतत् स्थलं न केवलं श्रद्धायाः केन्द्रम् अस्ति, अपितु राष्ट्रसेवायाः सकारात्मक-ऊर्जायाः च प्रतीकं वर्तते। तेन कथितं यत् भगवतः हनुमत: चरणयोः तेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः उत्तमस्वास्थ्याय, दीर्घायुषे तथा च विकसितभारतस्य सङ्कल्पस्य सफलतायै प्रार्थना कृता।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्त्वे केन्द्रीयसर्वकारस्य १२ वर्षाणि सेवा-सुशासन-गरीबकल्याण-राष्ट्रनिर्माणानां स्वर्णिम-अध्यायाः अभवन्। वर्ष २०१४ मध्ये भारतं यत्र विश्वस्य १० तमा (दशमी) बृहती अर्थव्यवस्था आसीत्, तत्रैव अद्य भारतं विश्वस्य पञ्चमा बृहती अर्थव्यवस्था संजाता अस्ति, संसारे च तीव्रगत्या वर्धमानासु प्रमुखासु अर्थव्यवस्थासु सम्मिलिता अस्ति। तेन प्रतिपादितं यत् गते एकदशके २५ कोटिभ्यः (२५,००,००,०००) अधिकाः नागरिकाः दारिद्र्यरेखायाः बहिः आगताः, कोटिशः परिवारेभ्यः सुदृढगृहं (पक्का घर), वायुकोशसंयोजनं (गैस कनेक्शन), शौचालयम्, वित्तकोषसंख्या:, नलेन जलं, निश्शुल्कं स्वास्थ्यसुरक्षा च उपलब्धा: कृताः सन्ति। हिमाचलप्रदेशस्य सन्दर्भे अनुरागठाकुरः अवदत् यत् प्रधानमन्त्रिणः मोदिनः नेतृत्त्वे प्रदेशाय विकासस्य अभूतपूर्वाः उपहाराः प्राप्ताः।

एम्स (AIIMS) बिलासपुरं, नूतनाः आयुर्विज्ञानमहाविद्यालयाः (मेडिकल कॉलेज), राष्ट्रियमार्गाणां व्यापकः विस्तारः, धूमशकटमार्ग-सम्पर्कसुदृढीकरणाय योजनाः, जलजीवनमिशनम्, प्रधानमन्त्रावासयोजना, उज्ज्वलायोजना, प्रधानमन्त्री-ग्रामसड़क-योजना अन्याश्च जनकल्याणकारिण्यः योजनाः याभिः लक्षशः परिवाराः लाभान्विताः अभवन्। तेन उक्तं यत् प्रधानमन्त्री-ग्रामसड़क-योजनान्तर्गतं वर्ष २०२५-२६ मध्ये एव हिमाचलाय २,२४७ कोटिरूप्यकाणां व्ययेन २९४ ग्रामीणमार्गपरियोजनाभ्यः स्वीकृतिः दत्ता अस्ति, यासु प्रायः २,०१९ कोटिरूप्यकाणां केन्द्रीयभागः (अंश) अस्ति। समाननागरिकसंहिता (UCC) इति विषये पृष्टस्य प्रश्नस्य उत्तरं ददत् अनुरागठाकुरः अवदत् यत् समाननागरिकसंहिता भारतीयजनतापक्षस्य स्पष्टः सङ्कल्पः वर्तते। देवभूमि-उत्तराखण्डतः अस्य आरम्भः जातः अस्ति, आगामिसमये अन्येषु राज्येष्वपि चरणबद्धरूपेण एषा प्रवर्तिष्यते। पाकिस्तानसम्बन्धि-प्रश्ने तेन कथितं यत् पाकिस्तानं प्रायः प्रत्येकस्मिन् क्षेत्रे विफलराष्ट्रं सिद्धं संजातम्। यदि तत् कस्मिंश्चित् क्षेत्रे सफलं वर्तते, तर्हि तत् केवलम् आतङ्कवादस्य प्रोत्साहने एव अस्ति। स्वकीयानाम् आन्तरिकविफलतानाम् अव्यवस्थानां च दोषं भारतस्य उपरि पातनं तस्य पुरातन; अभ्यासः अस्ति। तेन प्रख्यापितं यत् भारतं निरन्तरं अग्रे वर्धते, यत्रैव पाकिस्तानं स्वकीयदोषपूर्णनीतीनां कारणेन संसारे एकाकी (पृथक्) भवति।

 

राजभवनं गत्वा राज्यपालेन सह अमिलत् अनुरागठाकुरः

हमीरपुर-लोकसभाक्षेत्रस्य सासंदः अनुरागसिंहठाकुरः हिमाचलप्रदेशस्य राज्यपालेन कवीन्द्रगुप्तेन सह शिमलास्थे लोकभवने शिष्टाचारमेलनं कृतवान्। तेन पारम्परिक-हिमाचलीरीत्या राज्यपालस्य अभिनन्दनं विहितं, हिमाचलस्य हितेन सम्बद्धानां विभिन्नानां विषयाणाम् उपरि च विमर्शः कृतः।

You Might Also Like

कर्मचारिभ्यः वृत्तिभोगिभ्यश्च साहाय्यम् चिकित्सा-प्रतिपूर्ति-देयकानां राश्यर्पणाय सर्वकारेण २१२ कोटिरूप्यकाणि विमोचितानि – मुख्यमंत्री 

TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्

‘चिट्टा’ मादकद्रव्य-तस्कराणां ७० लक्षरूप्यकाणां सम्पत्तिः कुण्ठिता (सीज), विलासिता-यानेषु, ट्रक्-याने, कार-याने, सुवर्णे, वित्तकोषसंख्यासु च आरक्षकदलस्य प्रक्रमः

Kinnar Kailash Yatra – श्रद्धालूनां कृते आवश्यकी वार्ता: किन्नौर-कैलाश-यात्रा अधुना स्थगिता

दुर्गमतर-क्षेत्रे ‘बड़ा भङ्गाल’ इत्यस्मिन् त्रातारूपेण प्राप्तः सुक्खूः, १५ वर्षेभ्यः परं कश्चित् मुख्यमन्त्रिणं दृष्ट्वा प्रसन्नाः ग्रामीणाः

TAGGED: BJP Himachal, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, News Headlines, अनुराग ठाकुर, अनुरागठाकुर, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्
Next Article कर्मचारिभ्यः वृत्तिभोगिभ्यश्च साहाय्यम् चिकित्सा-प्रतिपूर्ति-देयकानां राश्यर्पणाय सर्वकारेण २१२ कोटिरूप्यकाणि विमोचितानि – मुख्यमंत्री 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?