त्रिलोकनाथमन्दिरम्-हिमाचलस्य लाहौलजनपदः तीर्थस्थलम्
त्रिलोकनाथमन्दिरं हिमाचलप्रदेशस्य लाहौल-स्पीति-जनपदस्य उदयपुर-उपमण्डले स्थितम् अस्ति। एतत् लाहौल-स्पीति-जनपदस्य मुख्यालयात् कीलाङ्गतः प्रायः ४५ किलोमीटरदूरे, मनालीतः च १४६ किलोमीटरदूरे वर्तते। त्रिलोकनाथमन्दिरस्य प्राचीनं नाम ‘टुण्डा विहारः’ इति अस्ति। एतत् पवित्रं मन्दिरं हिन्दूभिः बौद्धैः च समानरूपेण पूज्यते। हिन्दवः त्रिलोकनाथदेवं ‘भगवान् शिवः’ इति मन्वते, यदा च बौद्धाः इमं देवं ‘आर्य अवलोकितेश्वरः’ इति कथयन्ति। तिब्बतीभाषाभाषिणः जनाः एनं ‘गरजा फग्स्पा’ इति वदन्ति।
एतत् पवित्रं तीर्थस्थलम् एतादृशं महत्त्वपूर्णम् अस्ति यत् कैलाश-मानसरोवराभ्याम् अनन्तरं परमपवित्रतीर्थरूपेण अस्य गणना भवति। अस्य मन्दिरस्य विशिष्टता अस्मिन् तथ्ये निहिता अस्ति यत् सम्पूर्णविश्वे एतद् एकमात्रं मन्दिरम् अस्ति यत्र हिन्दवः बौद्धाः च उभये अपि एकस्मै एव देवाय स्वादरं नमन्ति। एतद् मन्दिरं चन्द्रभागाघाटीं परितः पश्चिमीहिमालये स्थितम् अस्ति।
एतत् परमं आध्यात्मिकं स्थानम् अस्ति, यत्र अस्य दर्शनं कृत्वा प्रार्थनां च कृत्वा मनुष्यः त्रयाणां सम्प्रदायानां स्वामिनः श्रीत्रिलोकनाथस्य आध्यात्मिकम् आशीर्वादं प्राप्नोति।

कथं गन्तव्यम् (कैसे पहुंचा जाये)
लाहौलघाट्याः प्रवेशद्वारं ‘रोहताङ्ग-टॉप’ इति स्थानं सामान्यतः एप्रिलमासतः नवम्बरमासस्य १५ दिनाङ्कपर्यन्तं पर्यटकानां कृते उद्घाटितं भवति। त्रिलोकनाथमन्दिरं कीलाङ्गतः प्रायः 45 किमी तथा मनालीतः 146 किमी दूरे अस्ति। ग्रीष्मकाले मार्गेण (वाहनेन) तथा शीतकाले हेलिकॉप्टर-माध्यमेन अत्र प्राप्तुं शक्यते। हिमाचलप्रदेश-राज्य-परिवहन-निगमः (HRTC) त्रिलोकनाथाय स्वाः बस-सेवाहः चालयति। मनाली-कुल्लू क्षेत्रेषु भाटकेन ग्रहीतुं पर्याप्ताः टैक्स्यः (वाहनानि) अपि उपलब्धाः सन्ति।
मन्दिरे प्रायः 125 जनानां कृते आवासस्य व्यवस्था अस्ति। सम्प्रति त्रिलोकनाथे किमपि निजीं उपाहारगृहं (होटल) नास्ति, परन्तु आगामिवर्षेषु कानिचन आगमिष्यन्ति। उदयपुरनगरे निजी-उपाहारगृहाणि उपलब्धानि सन्ति, यत् इतः प्रायः 15 किमी दूरे अस्ति। लोकनिर्माणविभागेन (PWD) त्रिलोकनाथे 200 जनानां कृते एका महती धर्मशाला (सराय) निर्मिता, या २०१५ वर्षस्य अन्ते पूर्णीभूता।
ग्रीष्मर्तौ मन्दिरसमित्या निःशुल्कं लङ्गरं (भोजनशाला) चाल्यते, यत्र भक्ताः कस्मिन्नपि समये भोजनं कर्तुं शक्नुवन्ति। एतदतिरिच्य लघून् ढाबा-विशेषान् अपि त्रिलोकनाथे उपलभ्यन्ते। मन्दिरपरिसरे उष्णजलस्य सुविधा अपि अस्ति।

मन्दिरस्य इतिहासः (मंदिर का इतिहास)
एतस्य मन्दिरस्य निर्माणं दशमशताब्द्यां अभवत्। एतत् प्रमाणं २००२ वर्षे मन्दिरपरिसरे प्राप्तेन एकेन शिलालेखात् सिद्ध्यति। अस्मिन् शिलालेखे वर्णितं यत् अस्य मन्दिरस्य निर्माणं ‘दीवानजरा राणा’ महोदयेन कृतम्, यः त्रिलोकनाथग्रामस्य ‘राणा ठाकुर’ शासकानां पूर्वजः आसीत्। केचन मन्यन्ते यत् चम्बानरेशः ‘शैल वर्मन’ इमं मन्दिरं ‘शिखरशैल्यां’ निर्मितवान्, यतः चम्बास्थितस्य ‘लक्ष्मीनारायण’ मन्दिरस्य रचना अपि एतादृश्येव अस्ति। राजा शैल वर्मनः चम्बानगरस्य संस्थापकः आसीत्।
अस्य मन्दिरस्य निर्माणं नवमशताब्द्याः अन्ते दशमशताब्द्याः प्रारम्भे वा अभवत्। चम्बादेशस्य महायोगी सिद्धचरपटीनाथस्य (चरपथनाथस्य) अपि अत्र मुख्या भूमिका आसीत्। तस्य बोधिसत्त्व-आर्य-अवलोकितेश्वरे अचला भक्तिः आसीत्। सः अस्य देवस्य स्तुतौ २५ श्लोकानां “अवलोकितेश्वर स्तोत्रम्” रचितवान्।
लाहौलघाट्यां शिखरशैल्यां निर्मितं एतत् एकमेव मन्दिरम् अस्ति। त्रिलोकनाथस्य मूर्तेः षट् हस्ताः सन्ति, तस्य शीर्षे च भगवान् बुद्धः उपविष्टः अस्ति। एषा मूर्तिः श्वेतसंगमरमरप्रस्तरेण निर्मिता अस्ति। अस्य देवस्य प्राकट्यविषये एका स्थानीयकथा प्रचलिता अस्ति। कथ्यते यत् प्राचीनकाले ‘हिनसा नाला’ (झरना) इत्यत्र एका ह्रदः (झील) आसीत्। तस्मात् ह्रदात् सप्त दुग्धवर्णाः पुरुषाः बहिः आगत्य गवां दुग्धं पिबन्ति स्म। एकस्मिन् दिने ‘टुंडू’ नामकः गोपालकः तेषु एकं गृहीतवान्, स्वग्रामं च नीतवान्। तत्र सः पुरुषः संगमरमरमूर्तौ परिवर्तितः। ततः एषा मूर्तिः मन्दिरे स्थापिता। तिब्बतीकथासु अस्य ह्रदस्य नाम ‘ओमे-डो’ (दुग्धसागरः) इति अस्ति।
अन्या स्थानीयकथा वदति यत् अस्य मन्दिरस्य निर्माणं एकेनैव रात्रौ एकेन ‘महादानवेन’ कृतम्। वर्तमानकालीनः ‘हिनसा नाला’ अद्यापि अद्वितीयः अस्ति, यतः अस्य जलं सर्वदा दुग्धवत् श्वेतं भवति, तथा च महत्यां वृष्ट्याम् अपि अस्य वर्णः न परिवर्तते।
बौद्धपरम्परानुसारं अस्मिन् मन्दिरे पूजा अर्चना च क्रियते। एषः अभ्यासः प्राचीनकालादेव प्रचलन् अस्ति।
त्रिलोकनाथमन्दिरम्-हिमाचलस्य लाहौलजनपदः तीर्थस्थलम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
