By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये सांख्यप्रतिपादितदुःखत्रयाणामुपरि व्याख्यानम्* 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > *कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये सांख्यप्रतिपादितदुःखत्रयाणामुपरि व्याख्यानम्* 
संस्कृतगतिविधयः

*कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये सांख्यप्रतिपादितदुःखत्रयाणामुपरि व्याख्यानम्* 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/05/15 at 11:28 AM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE

*कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये सांख्यप्रतिपादितदुःखत्रयाणामुपरि व्याख्यानम्*

हिमसंस्कृतवार्ता डॉ . निशिकान्तपाण्डेयः

नलबारी (असम):

 

असमप्रदेशस्य नलबारी-नगरे स्थितस्य कुमारभास्करवर्म-संस्कृत-

पुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागेन तथा सर्वदर्शन-मन्थन-परिषदा च अद्य कश्चन अपूर्वः बौद्धिक-उत्सवः सम्पन्नः। विश्वविद्यालयस्य सर्वदर्शनविभागेन तथा सर्वदर्शन-मन्थन-परिषदा च मिलित्वा प्रचाल्यमानायाः १०८ व्याख्यानमालायाः विंशतितमं व्याख्यानं ‘सांख्यकारिकायाः दुःखत्रयाणां विवेचनम् इति विषयमधिकृत्य आयोजितम्।

 

अस्मिन् व्याख्यानकार्यक्रमे गुजरात-राज्यस्य प्रथितयशसः श्री-सोमनाथ-संस्कृत-विश्वविद्यालयस् वेदविभागाचार्याः डॉ. राहुल कुमार झा महोदयाः मुख्यवक्तृरूपेण व्यासपीठम् अलङ्कृतवन्तः। डॉ. झा महोदयैः सांख्यदर्शनस्य आधारभूतग्रन्थस्य ‘सांख्यकारिका’ इत्यस्य प्रथमकारिकायाः आरभ्यः तृतीयकारिकां यावत् अतिगम्भीरं विवेचनं कृतम्। तेन प्रतिपादितं यत् मानवाः आध्यात्मिक-आधिभौतिक-आधिदैविक-दुःखैः सर्वदा पीडिताः भवन्ति। एतेषां त्रिविधदुःखानां मूलोच्छेदः केवलं दृष्टोपायैः (लौकिकसाधनैः) न सम्भवति, अपितु प्रकृत्यादिपञ्चविंशति तत्त्वानां ज्ञानेन एव जायते।

आचार्यरञ्जितकुमारतिवारी महोदयस्य कुशलनिर्देशने इदं व्याख्यानं सफलं जाता। आचार्यतिवारी-महोदयैः स्वकीये उद्बोधने स्पष्टीकृतं यत् सांख्यदर्शनं न केवलं प्राचीनं चिन्तनम्, अपितु आधुनिक-मनोविज्ञानस्य आधारशिला अपि अस्ति। विभागस्य शोधच्छात्राणां कृते अयं विमर्शः ज्ञानवर्धकः प्रेरणादायी च आसीत्।

कार्यक्रमस्य अध्यक्षतां कुर्वन्तः विश्वविद्यालयस्य माननीय-कुलगुरवः आचार्याः प्रह्लाद रा. जोशीवर्याः उपस्थिताः आसन्। तैः स्वकीयोद्बोधनेन ज्ञानमार्गे सांख्यस्य योगदानं विशेषतः अधोरेखितम्।

 

अस्मिन् कार्यक्रमे विश्वविद्यालयस्य प्रशासनिकपक्षस्य, शैक्षणिकपक्षस्य च महती उपस्थितिः दृश्यते स्म। प्रमुखतया उपस्थिताः आसन्—आचार्यः मनोज कुमार शर्मा (कुलसचिवः), आचार्या मल्लिका कलिता(समकुलपतिः), डॉ. प्रशान्त ज्योति गौतम (परीक्षानियन्त्रकः), आचार्यः रणजीतकुमार तिवारी(सर्वदर्शनविभागाध्यक्षः), आचार्या उमा महेश्वरी बी (प्रथितविदुषी), सुश्री लोपामूद्रा गोस्वामी(सहायकाध्यापिका),

एतैः सहैव विश्वविद्यालयस्य नैकाः विभागाध्यक्षाः, संकायाध्यक्षाः, सहायकाचार्याः, विभागीयाः अतिथि-अध्यापकाः, शोधच्छात्राः, जिज्ञासवः छात्राः च उपस्थिताः आसन्।

 

कार्यक्रमस्य अन्ते सर्वदर्शनविभागीयाचार्या उमा महेश्वरी बी महोदया सर्वेभ्यः अतिथिसज्जेभ्यः, छात्रेभ्यः, प्रबन्धनसमित्यै च धन्यवादं ज्ञापितवती। तया कार्यक्रमे सहयोगदानाय सर्वेषां प्रति कृतज्ञता प्रकटीकृता। कार्यक्रमस्य सुष्ठुसञ्चालनं कृतवती विभागीया छात्रा निशिता देवी।

अन्ते “सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः” इति शान्तिमन्त्रोच्चारणेन सह एषः भव्यः ज्ञानोत्सवः शान्त्या, आनन्देन च सम्पन्नताम् अगात्।

You Might Also Like

*पश्चिमबङ्गे ऐतिहासिकः राजनीतिकपरिवर्तनः : संस्कृतशपथग्रहणेन स्पन्दितं समग्रभारतम्।*

विनोबाभावेविश्वविद्यालयस्य स्नातकोत्तरसंस्कृतविभागे भारतीयसेनया विशेषव्याख्यानमायोजितम्

कामेश्वरसिंह- दरभंगा- संस्कृत- विश्वविद्यालये सर्वासां समस्याणां समाधानं भविष्यति- महामहिमः

डॉ. मोहन भागवत: ‘प्रणव’ इति संस्कृतभारत्याः नूतनकार्यालयस्य उद्घाटनं कृतवान्

प्रधानमन्त्री-मुद्रायोजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थं अत्यधिकं लाभप्रदं सिद्धम् च अस्ति – प्रधानमन्त्री नरेन्द्रमोदी

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article *पश्चिमबङ्गे ऐतिहासिकः राजनीतिकपरिवर्तनः : संस्कृतशपथग्रहणेन स्पन्दितं समग्रभारतम्।*
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?