HP PANCHAYAT ELECTION -जिलापरिषदः सङ्घर्षः, अधुना प्रतिष्ठायाः विषयः सञ्जातः
हिमाचलस्य १२ जनपदेषु नवसु जिला-परिषत्सु भाजपा-दलस्य आधिपत्यम्
हिमसंस्कृतवार्ता: – शिमला।
पञ्चायतीराज-संस्थानां निर्वाचनेषु जिला-परिषदः नेतृत्वं प्राप्तुं भाजपा-काङ्ग्रेस-पक्षयोः मध्ये अस्मिन्नवसरे तीव्रः सङ्घर्षः भविष्यति। यद्यपि काङ्ग्रेस-पक्षेण पञ्चायतीराज-निर्वाचनेषु आधिकारिकप्रत्याशिनः क्षेत्रे न अवतारिताः, तथापि विधायकाः स्थानीयनेतारश्च एतेषु निर्वाचनेषु गाम्भीर्यं प्रदर्शयन्ति, प्रदेशस्य जनपद-परिषत्सु काङ्ग्रेस-पक्षस्य वर्चस्वं स्थापयितुं क्षेत्रे संलग्नाः सन्ति। जिला-परिषत्सु अधिकारं प्राप्तुं भाजपा-काङ्ग्रेस-पक्षयोः मध्ये एषः वारः साक्षात् प्रतिष्ठायाः युद्धं भवितुं गच्छति।
सूचनानुसारं गते कार्यकाले १२ जनपदेषु नवसु जनपद-परिषत्-अध्यक्षपदेषु भाजपा-समर्थित-प्रत्याशिनाम् आधिपत्यम् आसीत्। ईदृशी स्थितौ भाजपा-पक्षस्य पुरतः स्वकीयं सुदृढं दुर्गं रक्षितुं महदाह्वानम् वर्तते। अन्यतः, सत्तासीनः काङ्ग्रेस-पक्षः ग्रामीण-राजनीतौ प्रवेशं कृत्वा नूतनं राजनैतिक-समीकरणं रचयितुं सज्जः अस्ति। मुख्यमन्त्रिणः सुक्खु-महोदयस्य कार्यकाले प्रथमवारं पञ्चायतीराज-संस्थानां निर्वाचिनि भवन्ति, अतः जिला-परिषदः परिणामाः कुत्रचित् सर्वकारस्य प्रदर्शनस्य जनमतस्य च परिचायकाः भविष्यन्ति।
यदि काङ्ग्रेस-पक्षः जिला-परिषत्सु अग्रसरः भवति, तर्हि एतत् सर्वकारस्य पक्षे जनसमर्थनं मन्यते। पञ्चायत-निर्वाचनानि अधुना विधायकानां मन्त्रिणां च प्रतिष्ठया अपि सम्बद्धानि मन्यन्ते। एवं सति जिला-परिषदः परिणामानन्तरं सर्वेषु जिलापरिषदः अध्यक्षपदं प्राप्तुं उभयोः राजनैतिक-पक्षयोः राजनैतिक-प्रभुत्वस्य अपि परीक्षा एतेषु निर्वाचनेषु भविष्यति। स्पष्टमस्ति यत् काङ्ग्रेस-पक्षः पूर्वमेव उद्घोषितवान् यत् पञ्चायतीराज-संस्थानां निर्वाचनेषु पक्षः साक्षात् रूपेण अधिकृतप्रत्याशिनः न घोषयिष्यति, प्रत्याशि-चयने च सङ्घटनस्य औपचारिकः हस्तक्षेपः अपि न भविष्यति। तथापि स्थानीय-विधायकाः काङ्ग्रेस-पक्षस्य वरिष्ठाः नेतारश्च स्व-स्व क्षेत्रेषु सामञ्जस्यं स्थापयित्वा पक्षस्य विचारधारा-सम्बद्धानां प्रत्याशीनां समर्थनं कुर्वन्ति। सङ्गठने प्रदेशस्तरे दायित्वं निर्वहन्तः नेतारः अपि निरन्तरं कार्यकर्तृभ्यः काङ्ग्रेस-समर्थित-विचारधारा-युक्त-प्रत्याशिनां समर्थनाय आवेदनं कुर्वन्ति। अन्यतः, भाजपा-पक्षः पञ्चायत-निर्वाचनेषु स्वकीये पुरातने सङ्घठनात्मक-जालस्य तथा ‘बूथ’-स्तरीयायस्य प्रभावस्य आधारेण क्षेत्रे अवतरति। पूर्व-कार्यकाले जनपद-परिषत्सु पक्षस्य वर्चस्वम् आसीत्, भाजपा च एतामेव अग्रसरताम् अक्षुण्णां स्थापयितुं रणनीतिं सज्जं करोति। पक्षनेतृणां विश्वासः अस्ति यत् ग्रामीणक्षेत्रेषु भाजपा-पक्षस्य आधारभूतः प्रभावः अद्यापि सुदृढः अस्ति, एतदेव तस्य महती शक्तिः भविष्यति।
पञ्चायत-निर्वाचनानां प्रभावः
पञ्चायतीराज-निर्वाचनानि साक्षात् पक्ष-चिह्नेन न जायन्ते, किन्तु वास्तविकं राजनैतिकं चित्रं निर्वाचन-परिणामानन्तरमेव सम्मुखं आयाति। प्रत्याशिनः निर्दलीयरूपेण निर्वाचनं प्रतिस्पर्धयन्ति, किन्तु जनपद-परिषत्-अध्यक्षस्य उपाध्यक्षस्य च निर्वाचन-काले तेषां राजनैतिक-वृत्ति: स्पष्टरूपेण प्रकटा भवति। एतदेव कारणमस्ति यत् परिणामानन्तरं राजनैतिक-समीकरणानां रणनीतीनां च क्रम: तीव्रः भवति। राजनैतिक-विश्लेषकाणां मतमस्ति यत् पञ्चायत-निर्वाचनेषु सङ्गठनस्य वास्तविकी शक्तिः सम्मुखं आयाति। एतेषु निर्वाचनेषु स्थानीय-समीकरणानि, वैयक्तिक-सम्पर्काः, क्षेत्रीय-प्रभावाश्च निर्णायकं भूमिकां निर्वहन्ति।
