जयपुरस्य राजकीया खगोलीय-ऐतिह्यम्: सप्तदशशताब्द्याः विशालं ‘एस्ट्रोलेब’ यन्त्रं लण्डन-नगरे नीलामी-प्रक्रियायै सज्जम्
नवदेहली/लण्डनम्:
जयपुरस्य राजकीयानां सङ्ग्रहाणां बहुमूल्या वैज्ञानिक-ऐतिह्यम् अद्य विश्वपटलस्य आकर्षणकेन्द्रं वर्तते। सप्तदशशताब्द्याः निर्मितम् एकं विशालं ‘एस्ट्रोलेब’ (खगोलीय गणना-यन्त्रम्) आगामि-एप्रिल-मासस्य २९ दिनाङ्के लण्डन-नगरस्य ‘सोथबी’ (Sotheby’s) नीलामी-गृहे वैश्विक-विक्रयाय उपस्थापयिष्यते। पित्तलेन निर्मितं एतत् अद्भुतं यन्त्रं तस्य बहुमुखी-क्षमतानां कारणात् तस्य कालस्य ‘सुपरकम्प्यूटर’ तथा ‘प्राचीन-स्मार्टफोन’ इति तज्ज्ञैः कथ्यते।
ऐतिहासिकं महत्त्वम्:
सोथबी-संस्थानस्य इस्लामिक-इण्डियन-आर्ट-विभागस्य प्रमुखः ‘बेनेडिक्ट कार्टर’ महोदयः अवदत् यत् एतत् यन्त्रम् अद्यावधि प्राप्तं विशालतमं दुर्लभं च खगोलीय-उपकरणम् अस्ति। अस्य ऐतिहासिकानि मूलानि जयपुरस्य भूतपूर्व-महाराजस्य सवाई मानसिंह (द्वितीय) महोदयस्य व्यक्तिगत-सङ्ग्रहेण सह सम्बद्धानि सन्ति। महाराजस्य निधनान्तरं एतत् तस्य पत्न्याः विश्वप्रसिद्धायाः महारानी-गायत्री-देव्याः समीपे आसीत्, यस्मात् कालान्तरे कस्यचित् व्यक्तिगत-सङ्ग्रहस्य भागः सञ्जातः। इदानीं प्रथमवारं एतत् सार्वजनिकरूपेण प्रदर्शितं विक्रयाय च सज्जम् अस्ति।
वैज्ञानिक-वैशिष्ट्यम्:
वैज्ञानिकाधारेण एतत् यन्त्रं स्वकालस्य कलायाः विज्ञानस्य च शिखरम् अस्ति। अस्य भारः ८.२ किलोग्राम्, उच्चता च प्रायः ४६ सेन्टीमीटर् अस्ति, यत् सामान्य-एस्ट्रोलेब-यन्त्रापेक्षया चतुर्गुणं विशालम् अस्ति। अस्य दुर्लभतां राजप्रासादेन सह सम्बन्धं च वीक्ष्य तज्ज्ञानाम् अनुमानम् अस्ति यत् एतत् १.५ तः २.५ मिलियन पाउंड (प्रायः १५ तः २५ कोटि-रूप्यकाणि) पर्यन्तं विक्रयं भवितुं अर्हति, येन खगोलीय-यन्त्राणां सर्वे पूर्वतन-विश्वविक्रमाः त्रुटिष्यन्ति।
बहुपयोगी यन्त्रम्:
अस्य यन्त्रस्य महती विशेषता तस्य ‘ऑल-इन-वन’ स्वरूपम् अस्ति। ऑक्सफोर्ड-विश्वविद्यालयस्य इतिहासकारा डॉ. फेडेरिका गिगेंटे महोदयानुसारं, अस्य साहाय्येन सप्तदशशताब्द्यां खगोलशास्त्रिणः सूर्योदय-सूर्यास्तयोः समयम्, नक्षत्राणां सठीकां स्थितिम्, कूपस्य गभीरतां तथा च भवनानां विस्तारं मापितुं शक्नुवन्ति स्म। अपि च, अस्य उपयोगः मक्का-दिशः निर्धारणे तथा पञ्चाङ्गस्य साहाय्येन सटीक-कुण्डलीनां निर्माणे अपि क्रियते स्म।
