बालभारती-पब्लिक-विद्यालयस्य दार्लिपाली-क्षेत्रे अद्भुतं शैक्षिकं सफलम्
– सौरभः दे दार्लिपाली (ओडिशा) —
एनटीपीसी टाउनशिप-स्थितस्य बालभारती पब्लिक विद्यालयस्य (BBPS) छात्राः २०२६ वर्षस्य कक्षा-दशमी (CBSE) परीक्षायां अत्युत्कृष्टं परिणामं प्राप्तवन्तः। एषः परिणामः विद्यालयस्य शैक्षिक-परम्परां पुनः उज्ज्वलितवान्।
अस्मिन् वर्षे त्रयः छात्राः संस्कृत-विषये ,,(Sanskrit) शत-प्रतिशतं अङ्कान् प्राप्तवन्तः, तथा च एकः छात्रः कृत्रिमबुद्धिमत्ता (AI) विषयेस्मिन् अपि शत-प्रतिशतं अङ्कान् अलभत।
परीक्षायां भागं गृहीतवन्तः छात्रेषु चत्वारः छात्राः 95% प्रतिशताधिकं, द्वौ छात्रौ 90% प्रतिशताधिकं, तथा द्वौ छात्रौ 85% प्रतिशताधिकं अङ्कान् प्राप्तवन्तः।
विद्यालयस्य श्रेष्ठ-विद्यार्थिनः सन्ति —
सुभास्मिता बेहरा (98.6%), ओजस् काम्बले (98.2%), नन्दिनी सिंह (96.6%), ए. जे. अभिनया (95%), प्राची चौधरी (92.4%), निगम प्रधान (90.8%), आदित्य (89.8%), अभिनव कुमार
(86.4 %)।
विद्यालयस्य प्राचार्या श्रीमती उन्नति जोशी सर्वान् छात्रान् अभिनन्दितवती। सा अवदत्— “एषः परिणामः अस्माकं छात्राणां कठिनपरिश्रमस्य, निष्ठायाः तथा शिक्षकमण्डलस्य समर्पणस्य प्रतिफलम् अस्ति। एतेषां छात्राणां सफलता तेषां सतत-प्रयत्नस्य साक्ष्यम्।”
सीईएस ( Child Education Society) तथा एनटीपीसी-( NTPC) द्वयोः संयुक्तसहयोगेन एषा सफलता प्राप्ता, यतः तौ शिक्षायाः विकासे सदा सजगौ तथा तत्परौ स्तः। सम्पूर्णविद्यालयस्य उन्नतौ उभयोः संस्थयोः योगदानम् अनस्वीकरणीयम् अस्ति। अस्य अद्भुतपरिणामस्य कृते उभयपक्षाभ्यां छात्रछात्राभ्यः हार्दिकाः अभिनन्दनानि धन्यवादाश्च प्रदत्ताः।
एवं विद्यालयस्य एषा उल्लेखनीया सिद्धिः सम्पूर्णे शैक्षिक-क्षेत्रे प्रशंसां प्राप्तवती।
