कराधानं राज्य-नागरिकयोः मध्ये विश्वासस्य सेतुः : राष्ट्रपतिः द्रौपदी मुर्मु
राष्ट्रपतिः द्रौपदी मुर्मु उक्तवती यत् कराधानं केवलं राजस्वसङ्ग्रहस्य साधनं नास्ति, अपितु इदं राज्य-नागरिकयोः मध्ये विश्वासस्य सेतुः अपि अस्ति। कर-प्रणाली प्रभावशालिनी भवेत्, सहैव सा निष्पक्षा, संवेदनशीला, सन्तुलिता च भवेत्।
राष्ट्रपतिः मुर्मु ह्यः नागपुरस्य राष्ट्रिय-प्रत्यक्षकर-अकादम्यां (NADT) भारतीय-राजस्व-सेवा (IRS) इत्यस्य ७८ तमे (अष्टसप्ततितमे) घणस्य प्रशिक्षु-अधिकारिणां विदाई-समारोहं सम्बोधयन्ती आसीत्। अस्मिन् समारोहे महाराष्ट्रस्य राज्यपालः जिष्णुदेव वर्मा, महाराष्ट्रस्य राजस्वमन्त्री चन्द्रशेखर बावनकुले, केन्द्रीय-प्रत्यक्षकर-बोर्ड् (CBDT) इत्यस्य अध्यक्षः रवि अग्रवालः च उपस्थिताः आसन्।अद्य प्रातःकाले राष्ट्रपतिः सेवाग्राम-आश्रमस्य भ्रमणं करिष्यति तथा च वर्धास्थितस्य महात्मा गान्धी अन्तर्राष्ट्रीय-हिन्दी-विश्वविद्यालयस्य षष्ठे दीक्षान्त-समारोहे सम्बोधनं करिष्यति।
कराधानं राज्य-नागरिकयोः मध्ये विश्वासस्य सेतुः : राष्ट्रपतिः द्रौपदी मुर्मु
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
