नूतन देहली: सेनायाः मानवरहित-विमान-प्रणाल्याः द्रोण-तन्त्रज्ञानस्य च मार्गचित्रस्य (Roadmap) अनावरणम्
नूतनदेहल्यां भारतीयसेनया मानवरहित-विमान-प्रणाल्याः (UAS) द्रोण-तन्त्रज्ञानस्य च सम्बन्धि मार्गचित्रम् अनावरितम्। अस्मिन् अवसरे एकः आधिकारिकः प्रलेखः अपि निर्गतः। भारतीयसेन्या उक्तं यत् एतद् मार्गचित्रं उद्योगक्षेत्रस्य, शिक्षाजगतः, अनुसन्धान-विकास-संस्थानां च कृते निवेशं ताकनिकी-प्रयासांश्च प्राथमिकता-क्षेत्रेषु नियोजयितुं स्पष्टान् क्रियान्वयनयोग्यान् च निर्देशान् प्रददाति।
`अस्मिन् कार्यक्रमे सेनायाः उपप्रमुखः लेफ्टिनेंट जनरल राहुल आर सिंहः आधुनिकयुद्धस्य परिवर्तनशीलं स्वरूपं द्रोण-तन्त्रज्ञानस्य वर्धमानां भूमिकां च अधोरेखितवान्।
नूतन देहली-: सेनायाः मानवरहित-विमान-प्रणाल्याः द्रोण-तन्त्रज्ञानस्य च मार्गचित्रस्य (Roadmap) अनावरणम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
