हिमाचल-पञ्चायत-निर्वाचनम्- पञ्चायतानां मतदातासूचीनां विशेष-पुनरीक्षणस्य कार्यक्रमः निर्गतः
हिमसंस्कृतवार्ता:- शिमला।
राज्य- निर्वाचन- आयोगेन पञ्चायतानां मतदातासूचीनां विशेष-पुनरीक्षणाय विस्तृतः कार्यक्रमः प्रकाशित:। इयं प्रक्रिया तासु पञ्चायतेषु प्रवृत्ता भविष्यति, यासां सङ्घटन- पुनर्सङ्घटन- सम्बद्धानि प्रकरणानि न्यायालये विचाराधीनानि आसन् तथा च यासु उच्चन्यायालयस्य आदेशाः प्रभाविनः सन्ति।
इतः पूर्वं १८ मार्च २०२६ दिनाङ्के अप्रभावितासु पञ्चायतेषु तथा २ अप्रैल २०२६ दिनाङ्के प्रभावितासु पञ्चायतेषु मतदातासूचीनां संशोधनाय कार्यक्रमः निर्गतः आसीत्। अधुना आयोगेन ‘हिमाचलप्रदेश- पञ्चायतीराज- अधिनियम-१९९४’ इत्यस्य अन्तर्गतं तेषु पञ्चायतेषु विशेष-पुनरीक्षणं कारयितुं निर्णयः स्वीकृतः, यत्र उच्चन्यायालयस्य आदेशाः प्रवर्तन्ते।
निर्वाचन-कार्यक्रमस्य विवरणम्
निर्गतानुसारं कार्यक्रमानुसारं च प्रमुखाः तिथयः इत्थं सन्ति-
> अधिकार-आक्षेपयोः (Claims & Objections) प्रस्तुतेः अन्तिमा तिथिः: १३ अप्रैल २०२६।
> अधिकार-आक्षेपयोः निस्तारणम् (Settlement): १७ अप्रैल २०२६ पर्यन्तम्।
> याचिका-प्रस्तुतेः अन्तिमा तिथिः: २० अप्रैल २०२६।
> याचिका-निस्तारणम् (Appellate Authority): २२ अप्रैल २०२६ पर्यन्तम्।
> मतदातासूचीनाम् अन्तिमं प्रकाशनम्: २४ अप्रैल २०२६ दिनाङ्के अथवा ततः पूर्वम्।
आयोगेन एतदपि स्पष्टीकृतं यत् १८ मार्च दिनाङ्के निर्गतायाः अधिसूचनायाः अन्तर्गतं निर्धारीता आयुसीमा अन्ये निर्देशाश्च यत्र आवश्यकाः भविष्यन्ति तत्रैव प्रवर्तितं भविष्यन्ति। सर्वेभ्यः जनपद-निर्वाचन-अधिकारिभ्यः (DEOs) निर्देशाः दत्ताः यत् ते १ जनवरी २०२५ दिनाङ्कं आधार-तिथिं (Qualifying Date) मत्वा अन्तिमरूपेण प्रकाशिताः मतदातासूच्यः निरीक्षणार्थं स्व- स्वकार्यालयेषु सम्बद्धासु पञ्चायत-संस्थानेषु च उपलब्धं कारयन्तु।
हिमाचल-पञ्चायत-निर्वाचनम्- पञ्चायतानां मतदातासूचीनां विशेष-पुनरीक्षणस्य कार्यक्रमः निर्गतः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
