लोकसभया ध्वनिमतेन षड्विंशत्यधिक-द्विसहस्रतमस्य वित्त-विधेयकः पारितः – भारत-संसद् ।
हिमसंस्कृतवार्ता: – लोकसभया ध्वनिमतेन षड्विंशत्यधिक-द्विसहस्रतमस्य वित्त-विधेयकः पारितः। अस्य विधेयकस्य मुख्यमुद्देश्यं द्विसहस्र-षड्विंशति-सप्तविंशति इति वित्तीयवर्षाय केन्द्र-सर्वकारस्य वित्तीय-प्रस्तावानां प्रभावीकरणं वर्तते। सदनेन सर्वकार-पक्षतः उपस्थापित-संशोधनानां कृते स्वीकृतिः प्रदत्ता। सदने वित्त-विधेयकस्य चर्चायाः प्रत्युत्तरं प्रयच्छन्ती केन्द्रीय-वित्तमन्त्री निर्मला सीतारमण अवदत् यत् सर्वकारः लघुद्योगानां, कृषकाणां, सहकारी-समितीनाञ्च सशक्तीकरणं कुर्वन्नस्ति यतः एते सर्वे देशस्य वृत्ति-सर्जने, उत्पादने, सर्वाङ्गीण विकासे च केन्द्र-बिन्दवः वर्तन्ते।
लोकसभया ध्वनिमतेन षड्विंशत्यधिक-द्विसहस्रतमस्य वित्त-विधेयकः पारितः – भारत-संसद्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
