पूर्वोत्तरभारते क्षेत्रीयवैदिकसंगमस्य सफलसमापनम्
द्विषष्टिवैदिकविद्वांसां सहभागिता, राज्यपालस्य गरिमामयी उपस्थिति
अगरतला। केन्द्रीयसंस्कृतविश्वविद्यालयस्य एकलव्यपरिसरे दिनाङ्के 17–19 फरवरी 2026 पर्यन्तं त्रिदिवसीयः क्षेत्रीयवैदिकसंगमः केंद्रीय संस्कृत विश्वविद्यालय -अधीनस्य एकलव्यपरिसरस्य, महर्षि सांदीपनि राष्ट्रीय वेद विद्या प्रतिष्ठान तथा भोलानंद वेद विद्यालय इत्येतासां संस्थानानां संयुक्तप्रयासेन अत्यन्तसफलतया सम्पन्नः। अस्मिन् संगमे पूर्वोत्तरभारतस्य विभिन्नराज्येभ्यः आगताः द्विषष्टिः (62) वैदिकविद्वांसः सहभागिनः अभवन्। तैः ऋग्वेद-यजुर्वेद-सामवेद-अथर्ववेदानां विविधशाखानां सस्वरं शास्त्रोक्तरीत्या पारायणं कृतम्, येन सम्पूर्णः परिसरः वैदिकमन्त्रध्वनिभिः गुंजायमानः अभवत्।
प्रथमदिने उद्घाटनसत्रं वेदपारायणं च सम्पन्नम्। सायंकाले छात्रैः भारतीयसंस्कृतेः विविधाङ्गान् प्रकाशयन्तः सांस्कृतिककार्यक्रमाः अपि प्रस्तुताः।
द्वितीयदिने शोभायात्रानन्तरं सर्वे विद्वांसः त्रिपुराराज्यस्य प्रसिद्धदेव्याः त्रिपुरासुन्दरी मन्दिरं गत्वा दर्शनं कृत्वा आशीर्वादं प्राप्नुवन्। ततः अनन्तरं वेदपारायणं वैदिकविमर्शाश्च पुनरारब्धाः।
अस्य संगमस्य समापनसत्रे माननीयः इन्दिरा सेना रेड्डी मुख्यातिथिरूपेण उपस्थितः आसीत्। स्वीयभाषणे सः वैदिकपरम्परायाः संरक्षणं संवर्धनं च अत्यन्तमहत्त्वपूर्णमिति प्रतिपादितवान्।
कार्यक्रमस्य सफलसम्पादनाय वेदविभागसमन्वयकः डॉ प्रकाशरंजनमिश्र: डॉ आशीषमिश्र:, डॉ. निशान्तमिश्रः, श्री शिवसाधनदेवनाथः तथा विभागीयछात्राः विशेषं योगदानं दत्तवन्तः।
वेदविभागः
एकलव्यपरिसरः, अगरतला
केन्द्रीयसंस्कृतविश्वविद्यालयः
पूर्वोत्तरभारते क्षेत्रीयवैदिकसंगमस्य सफलसमापनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
