By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी
दिवसविशेषःधर्मसंस्कृतिः

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी

डॉ.अमनदीप शर्मा
Last updated: 2026/02/15 at 8:50 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी
भारतीयज्ञानपरम्परा केवलं धार्मिकास्थायाः संग्रहः नास्ति, अपितु चेतनाविज्ञानम्,ब्रह्माण्डस्य नियमाः, मानवानां सूक्ष्मरहस्यानां च सुव्यवस्थितं विज्ञानम् अस्ति। अस्यां परम्परायां महाशिवरात्रिपर्वण विशिष्टं स्थानं भजते। महाशिवरात्रिः केवलम् उत्सवः न, अपितु आत्मबोधः, साधना, ब्रह्मज्ञानस्य च विशेषावसरोSस्ति।

महाशिवरात्रिपर्वसम्बन्धः भगवता शिवेन सह अस्ति, शिवस्य तात्विकं स्वरूपं व्यक्तिः न, सिद्धान्तः अस्ति। भारतीयज्ञानपरम्परायां शिवः कस्यचित् सीमितरूपस्य देवता न, अपितु एकः तत्त्वसिद्धान्तः अस्ति। शिवशब्दस्य अर्थः कल्याणम्, शुद्धचेतना, परममंगलम्।

शिवः केवलं नाम न देवः, चेतनातत्त्वस्य सूचकः।शिवः कस्यचित् नाममात्रस्य देवः न, ते चेतनायाः साक्षिणः सन्ति – कर्तारः न, ते तत्त्वस्य संकेताः सन्ति।
आध्यात्मिकार्थे शिवः, शिवः निर्गुणः, निराकारः, निश्चयचेतनायाः साक्षी अस्ति, कर्ता न, सः समयस्य (कालस्य) परे अस्ति इत्यतः महाकालः इति उच्यते।

वेदेषु रुद्रः, उपनिषदि महेश्वरः, तन्त्रे परमचेतनायाः रूपेण स्वीकृतः अस्ति। ऋग्वेदे रुद्रशिवः प्राकृतिकशक्तीनाम् अधिष्ठाता अस्ति, सः विनाशकः न, अपितु सन्तुलनकर्ता अस्ति।
उपनिषदि उक्तम् अस्ति यत् “एको देवः सर्वभूतेषु गुप्तः” अर्थात् सः एकः देवः सर्वेषु प्राणिषु गुप्तरूपेण विद्यमानः अस्ति। सर्वव्यापी सर्वभूतान्तरात्मा।
नमस्ते रुद्र मन्यव उतोत इषवे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुत ते‌ नमः।
हे रुद्र! भवतः क्रोधाय नमस्कारः, भवतः वाणाय नमस्कारः, भवतः धनुषे भुजाभ्यां च नमस्कारः। एतत् दर्शयति यत् शिवः प्राकृतिकशक्तीनाम् अधिष्ठाता अस्ति, सः विनाशकः न, अपितु सन्तुलनकर्ता अस्ति। विज्ञानस्य दृष्टौ शिवः cosmic consciousness, शुद्धचेतनाक्षेत्रस्य (कॉस्मिक कॉन्शसनेस) रूपेण ज्ञायते।

शिवलिंगस्य वैज्ञानिकः आध्यात्मिकः च अर्थः :-

शिवलिंगम् अक्षरमात्रं पूजावस्तु इति गृहीतम् अस्ति, किन्तु एतत् एकः गहनः वैज्ञानिकः प्रतीकः अस्ति। शिवलिंगम् ऊर्जायाः प्रतीकः अस्ति, लिंगस्य अर्थः सृजनस्य धुरी (axis of creation) एतत् ऊर्ध्वगामी ऊर्जाम् अस्ति, अपवर्ड एनर्जी फ्लो दर्शयति।

शिवलिंगस्य अण्डाकाररूपं ब्रह्माण्डस्य वा ऊर्जाक्षेत्रस्य सदृशम् अस्ति। अस्य शिवलिंगस्य ऊर्ध्वसंरचना च ऊर्जां केन्द्रीकरोति। लिंगपुराणे उक्तम् अस्ति यत् लिंगं परमकारणम्, लिंगम् नित्यम्, लिङ्गं निरामयम्, अतः प्राचीनेषु मन्दिरेषु शिवलिंगस्य समीपे उपविश्य मानसिकशान्तिः प्राप्यते।

महाशिवरात्रेः वास्तविकः अर्थः :-
भारतीयदर्शने रात्रिः केवलम् अन्धकारः न, अपितु अन्तर्मुखी अवस्था अस्ति, रात्रिः बाह्यमुखेन्द्रियाणां विश्रामः इति गृहीतम् अस्ति। शिवरात्रिः चेतनायाः जागरणम् अस्ति, अपितु एतत् रात्रिः ऊर्जायाः, कालस्य, चेतनायाः च विशेषसंगतेः रात्रिः अस्ति।

वैज्ञानिकदृष्टिकोणानुसारं महाशिवरात्रेः रात्रिः पृथिव्याः ऊर्जाधुरी (Axis) हेतु विशेषा भवति। अस्मिन् दिने गुरुत्वाकर्षणस्य प्रभावः सन्तुलितः भवति, मेरुदण्डे ऊर्जायाः प्रभावः सहजः भवति, अतः ध्यानस्य, जपस्य, उपवासस्य च महत्वम् अस्ति।

शिवरात्रौ रात्रिजागरणस्य विधानम् अस्ति, विज्ञानानुसारं एतत् रात्रिः “न्यूरो साइकोलॉजिकल रिसेट” इत्यस्य अवसरं ददाति।

महाशिवरात्रौ उपवासस्य शरीरविज्ञानम् :-

उपवासस्य उद्देश्यः केवलं धार्मिकः न, वैज्ञानिकः अपि अस्ति।पाचनतन्त्रस्य विश्रामः, मस्तिष्के मेलाटोनिनस्य सेरोटोनिनस्य च सन्तुलनम्, ध्यानस्य गम्भीरावसरः अस्ति।

पञ्चमहाभूतानि शिवश्च।

शिवः पञ्चमहाभूतानां स्वामी इति उच्यते, महाभूतप्रतीकं पृथिव्याः भस्मम्, जलस्य गंगा,अग्नेः त्रिनेत्रम्,वायोः डमरुः, आकाशस्य जटाः, एतत् स्पष्टं करोति यत् शिवः प्राकृतिकविज्ञानम् (Natural Law) अस्ति।
मानवशरीरम् एकः सूक्ष्मब्रह्माण्डः अस्ति, चक्रव्यवस्थान्तर्गतं मूलाधारसहस्रारशिवसहस्रारचेतनाः शक्तिकुण्डलिनी च अन्तर्यान्ति। शिवस्य सदृशं सहस्रारचक्रक्राउनचक्रेण सह सम्बन्धः अस्ति, यदा ध्यानम्, जागरणम्, मौनम् च एतत् ऊर्जां सहजरूपेण उद्भवति, अतः महाशिवरात्रौ रात्रिजागरणस्य विधानम् अस्ति। महाशिवरात्रौ साधनया कुण्डलिनी जागरणं सहजं भवति।

महाशिवरात्रिपर्वणि शिवाय विल्वपत्रार्पणस्य कारणम् अस्ति यत् एतत् त्रिगुणानां समर्पणम् अस्ति। विल्वपत्रार्पणस्य रहस्यम् अस्ति यत् विल्वपत्रं त्रिदलम् अस्ति, सत्त्वम्, रजः, तमः, एतत् शिवाय अर्पणस्य अर्थः त्रिगुणानां समर्पणम् अस्ति।

रुद्राभिषेकः (ऊर्जाविज्ञानम् अस्ति)
जलम् – ऊर्जायाः सुचालकः (कंडक्टर) जलस्य अभिषेके शिवे संचितऊर्जा स्थिरा सन्तुलिता च भवति, एतत् प्रक्रिया मानसिकतापं, क्रोधम्, अहङ्कारं च शान्तं करोति। जलम्, दुग्धम्, घृतम् आदि अभिषेके ध्वनिः(मन्त्रः) तरङ्गः(जलम्) भावः, भावना च मनसः आत्मनः च आधात्मिकारोग्य (स्पिरिचुअल हीलिंग)गुणा उत्पद्यन्ते।

महामृत्युंजयमंत्रस्य विश्लेषणम्
ओम् त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान् मृत्योर्मोक्षै या मामृताम्।
एतत् मंत्रम् भयमुक्तेः, रोगनाशस्य, चेतनास्थायित्वस्य च वैज्ञानिकं सूत्रम् अस्ति। शिवः योगस्य आदिगुरुः, शिवः आदियोगी, योगसूत्रस्य च मूलम् उद्देश्यम् चित्तवृत्तिनिरोधः महाशिवरात्रिः योगऊर्जायाः पर्व अस्ति। अद्यतनं विज्ञानम् स्वीकरोति यत् Energy cannot be destroyed, Everything is vibration. एतत् शास्त्रे उक्तम् अस्ति। नाSसतो विद्यते भावः।

सामाजिकः नैतिकः च संदेशः :-

महाशिवरात्रिः शिक्षयति सरलताम्, वैराग्यम्, करुणाम्, सन्तुलनं च। शिवस्य जीवनं सम्पूर्णं विज्ञानम् अस्ति। महाशिवरात्रिः एकं पर्व न, अपितु चेतनायाः विज्ञानम्, प्रकृतेः सह सामंजस्यम्, आत्मज्ञानस्य अवसरः अस्ति। भारतीयज्ञानपरम्परायां शिवः अधिकः सिद्धान्तः अस्ति, यः अन्तः अस्ति स एव शिवः अस्ति। शिवोऽहम् शिवोऽहम्। बाह्यपूजायाः अपेक्षया आन्तरिकजागरणम्, शिवम् मन्दिरात् अधिकं स्वयम् अन्तः अनुभवितुम्, शिवः बाह्यस्य सह अन्तः अपि तिष्ठति।

शिवः व्यक्तिः न, भवतः सर्वोच्चसम्भावना अस्ति, शिवः महाशिवरात्रिश्च धर्मकर्माभ्यां सह चेतनायाः विज्ञानम् अस्ति। आस्थायाः सह अनुभवस्य प्रकृतिः अस्ति, अन्धविश्वासः न, एतत् वैज्ञानिकाधारितसाधना अस्ति।
प्रहरः पूजासमयश्च :-
अस्मिन् वर्षे शिवरात्रिपर्व दिनांके १५/०२/२०२६ तमे परिपाल्यते।
रात्रौ चतुर्प्रहरपूजायाः समयस्य विशेष महत्त्वम् अस्ति।
यथा – प्रथमप्रहरस्य पूजा सायं काले ६:२५ तः ९:२८ पर्यन्तं अस्ति। द्वितीयप्रहरस्य पूजा ९:२८ तः १२:३१ पर्यन्तं भविष्यति। तृतीयप्रहरस्य पूजा १२:३१ तः ३:३४ पर्यन्तं भविष्यति। चतुर्थप्रहरस्य पूजा ०३:३४ तः ०६:३८ पर्यन्तं भविष्यति। चतुर्षु प्रहरेषु संधिकालस्य समयः विशेषः शुभः समयः १२:०९ तः ०१:०३ रात्रिपर्यन्तं भविष्यति।
शिवरात्रिपर्वणि भवद्भ्यः सर्वेभ्यः मंगलकामनाः।

डॉ. खुशेन्द्रदेवचतुर्वेदी
सहायकप्राध्यापकः, ज्योतिषविभागः
महर्षिमहेशयोगीवैदिकविश्वविद्यालयः
करौंदी-कटनी, मध्यप्रदेशः।

You Might Also Like

वाल्मीकिरामायणस्य बालकाण्डसमीक्षा-डॉ विमलेश झा

श्रीरामो विजयते-वाल्मीकिरामायणस्य अयोध्याकाण्डसमीक्षा

आधुनिकभारतदेशस्य निर्माणे स्वामीदयानन्दस्य योगदानम्

सरोजिनीनायडूमहोदयाया: व्यक्तित्वं कृतित्वं च (जयंतीविशेष:)

‘Valentine’s Day’ प्रेमदिवसः- डॉ. वर्षा प्रकाश टोणगांवकर

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article महात्मानारायणदासग्रोवरमहोदयस्य व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा
Next Article वेदविभागेन “भारतीयसेनान्यः प्रति युवसु जागरूकता” विषये एकदिवसीया राष्ट्रीयसंगोष्ठी सुसम्पन्ना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?