By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीरामो विजयते-वाल्मीकिरामायणस्य अयोध्याकाण्डसमीक्षा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > श्रीरामो विजयते-वाल्मीकिरामायणस्य अयोध्याकाण्डसमीक्षा
धर्मसंस्कृतिः

श्रीरामो विजयते-वाल्मीकिरामायणस्य अयोध्याकाण्डसमीक्षा

डॉ.अमनदीप शर्मा
Last updated: 2026/02/14 at 8:01 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
SHARE

श्रीरामो विजयते-वाल्मीकिरामायणस्य अयोध्याकाण्डसमीक्षा
भारतीयसंस्कृतेः महाकाव्यपरम्परायां वाल्मीकिना विरचितं रामायणम् न केवलं काव्यग्रन्थः, अपि तु धर्म–नीति–मर्यादादिमानवीयमूल्यानां सजीवदर्पणम् अस्ति। अस्य महाकाव्यस्य सप्तकाण्डेषु अयोध्याकाण्डं सर्वाधिकं मार्मिकं, करुणारसप्रधानं, तथा च जीवनदर्शनस्य गहनव्याख्यां प्रस्तुतं करोति। अस्मिन् काण्डे रामस्य राज्याभिषेकप्रसङ्गात् आरभ्य वनवासपर्यन्तं या: घटना: वर्णिताः, ताभि: सम्पूर्णं महाकाव्यं मानवीयसंकटस्य, त्यागस्य, धर्मनिष्ठायाः च उत्कृष्टं आदर्शं स्थापयति। अयोध्याकाण्डं न केवलं कथाविस्तारस्य कृते उपयोगी, अपि तु रामायणस्य नैतिकदर्शनस्य केन्द्रीयाधारः इति कथ्यते। अत्र एव रामः मर्यादापुरुषोत्तम इति स्वरूपे पूर्णतया प्रतिष्ठितः भवति। अयोध्याकाण्डस्य स्थानं महाकाव्ये बालकाण्डे श्रीरामस्य जन्म, बाल्यावस्था, शिक्षादीक्षा, विवाहः च वर्णिताः; किन्तु अयोध्याकाण्डे श्रीरामस्य चरित्रस्य परिपक्वता दृश्यते। अत्र श्रीरामः केवलं राजकुमारः न, अपि तु धर्मस्य जीवन्तप्रतिमा इव प्रतीयते।
अयोध्याकाण्डस्य राज्याभिषेकस्य प्रस्तावः,
कैकेय्याः वरदानद्वयस्य प्रयोगः,
रामस्य वनगमनम्,सीतायाः लक्ष्मणस्य च त्यागपूर्णं अनुसरणम्,दशरथस्य शोकमरणम्
भरतस्य रामभक्तिःप्रमुखविषया: सन्ति।

एतेषां घटनानां माध्यमेन कविना मानवीयजीवनस्य सत्यं यथार्थं च सूक्ष्मतया निरूपितम्। अयोध्याकाण्डस्य आरम्भे महाराजः दशरथः वयोवृद्धः सन् श्रीरामस्य युवराजाभिषेकस्य निश्चयं करोति। अयोध्यावासिनः सर्वे हर्षोल्लासपूर्णाः भवन्ति। श्रीरामः लोकप्रियः, गुणसम्पन्नः, सत्यनिष्ठः, धर्मज्ञः च अस्ति।“रामो राज्यमुपासीत” एषा जनानां आकाङ्क्षा आसीत्। मन्थराया: दुष्टप्रेरणया कैकेयी राजसिंहासनलालसया मोहिता भवति। यद्यपि कैकेयी पूर्वं रामप्रियाऽऽसीत्, तथापि सत्ता–ईर्ष्या-मात्सर्यादिभिः सा मोहिता भवति। मन्थरा कथयति—भरतस्य राज्यं हरणीयम् । रामः वनं प्रेषणीयः।एषः प्रसङ्गः मानवमनसः दुर्बलतां दर्शयति। कविः अत्र सूक्ष्मतया दर्शयति यत् कुप्रेरणा महान्तमपि पतनमार्गे नयति। कैकेयी दशरथात् पूर्वदत्तं वरदानद्वयं याचते—भरतस्य युवराजाभिषेकः,
रामस्य चतुर्दशवर्षीयः वनवासश्च। एषः क्षणः काण्डस्य सर्वाधिकः करुणामयः अस्ति। राजा दशरथः मानसिकरूपेण भग्नः भवति। सः स्वस्य वचनबन्धनात् विमुक्तं कर्तुं न शक्नोति। अत्र वाल्मीकिना राजधर्मः तथा पितृधर्मः उभयोः संघर्षः अद्भुतरीत्या निरूपितः वर्तते। यदा श्रीरामः वनवासस्य आदेशं शृणोति, तदा सः एकक्षणमपि न विचलति। श्रीराम: न रोदिति, न क्रोधं दर्शयति, न प्रश्नं करोति। पितृवाक्यपालनमेव तस्य परमधर्मः वर्तते।“पितुर्वचनपालनं मम परमं कर्तव्यम्” इति श्रीरामस्य आचरणे स्पष्टं दृश्यते। श्रीरामः अत्र आदर्शपुत्रः, आदर्शनागरिकः, आदर्शराजनायकः च भवति। अयोध्याकाण्डस्य नायकत्वं अस्य धर्मनिष्ठायामेव निहितम् अस्ति।
श्रीरामः सीतां वनवासात् निवारयितुं प्रयत्नं करोति, किन्तु सीता दृढतया पतिव्रताधर्मं प्रतिपादयति। वनं वा राज्यं वा उभयोः मध्ये सीताया चयनं स्पष्टम्। एषः प्रसङ्गः नारीचरित्रस्य आदर्शरूपं प्रस्तुतं करोति, यत्र साहसः, प्रेम, निष्ठा च समन्विताः। लक्ष्मणः अपि रामं विना क्षणमपि जीवितुं न इच्छति। सः भ्रातृसेवां स्वजीवनलक्ष्यं मन्यते। लक्ष्मणस्य चरित्रे त्यागः, सेवाभावः, रक्षणकर्तव्यं च उत्कृष्टतया चित्रितम् अस्ति।
राम-सीता–लक्ष्मणानां वनगमनं त्यागत्रयी इति कथ्यते। श्रीरामवियोगेन दशरथः पूर्णतया शोकमग्नः भवति। कैकेयीं प्रति तस्य आक्रोशः, कौसल्यां प्रति करुणा, प्रतिक्षणं रामस्मरण इति एतेषां वर्णने वाल्मीकिना करुणरसस्य चरमसीमा प्रतिपादिता। अन्ते राजादशरथः रामनामस्मरणं कुर्वन् प्राणं त्यजति। अत्र कविः दर्शयति यत् अधर्मेण प्राप्तं राज्यं विनाशाय भवति। भरतः अयोध्यां प्रत्यागत्य सर्वं वृत्तान्तं ज्ञात्वा दुःखाकुलः भवति। सः राज्यं न इच्छति, मातरं कैकेयीं प्रति रोषं प्रकटयति, तथा रामं प्रत्यानेतुं चित्रकूटं प्रति गच्छति। भरतस्य रामपादुकापूजा, पादुकाभ्यां राज्यशासनं, भ्रातृभक्तेः सर्वोच्चं उदाहरणम् प्रस्तुतम् अस्ति। उक्तं च –
गच्छता मातुलकुलं भरतेन तदानघः।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः॥अयोध्याकाण्ड: करुणरसः प्रधानः विद्यते। तथापि अत्र—शान्तरसः (रामस्य संयमः),वीररसः (लक्ष्मणस्य साहसः),भक्तिरसः (भरतस्य भक्ति:) अपि सम्यक् समन्विताः सन्ति। दार्शनिकदृष्ट्या अपि अयोध्याकाण्डस्य महत्त्वं वर्तते। अयं काण्डः कर्मफलसिद्धान्तं, वाक्यपालनस्य महत्त्वं, त्यागस्य महिमा तथा मानवजीवनस्य अनित्यतां दर्शयति। सुखं क्षणिकं, धर्मः शाश्वतः इति सन्देशः स्पष्टः दृश्यते। अत्रेदं वयं वक्तुं शक्नुमो यत् अयोध्याकाण्ड: रामायणस्य हृदयम् इति उच्यते। अत्र मानवजीवनस्य सर्वे भागा: राजनीति:, पारिवारिकसम्बन्धाः, नैतिकसंघर्षः, आध्यात्मिकदृष्टिः एकत्र समन्विताः भवन्ति। महर्षिवाल्मीकिना न किमपि पात्रं एकांगीकृतं चित्रितम् अस्ति। कैकेयी अपि पूर्णतया खलनायिका न, अपि तु मानवीयदुर्बलतायाः प्रतीकः विद्यते।
अयोध्याकाण्ड: न केवलं रामकथायाः अंशः, अपि तु सम्पूर्णभारतीयजीवनदर्शनस्य आधारशिला अस्ति। रामस्य त्यागः, सीतायाः पतिव्रता, लक्ष्मणस्य सेवा, भरतस्य भक्ति, दशरथस्य पश्चात्तापः एते सर्वे विषया: मानवसमाजाय शाश्वतं आदर्शं प्रदर्शयन्ति।
अतः अत्र नास्ति संशयः यत् वाल्मीकि रामायणस्य अयोध्याकाण्डः भारतीयसाहित्ये करुणरसस्य सर्वोत्तम:, धर्मदर्शनस्य च विशिष्ट: काण्ड: अस्ति। अस्मिन् काण्डे 119 सर्गा:,4312 पद्यानि च सन्ति।अन्ते च-
इतीरितःप्राञ्जलिभिस्तपस्विभि र्द्विजैः कृतस्वस्त्ययनः परं तपः।
वनं सभार्यः प्रविवेश राघवः
सलक्ष्मणः सूर्य इवाभ्रमण्डलम्।।इत्यलम्।।

डॉ विमलेश झा, डीएवी पब्लिक स्कूल,बरारी, भागलपुर,बिहार

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article आधुनिकभारतदेशस्य निर्माणे स्वामीदयानन्दस्य योगदानम्
Next Article वाल्मीकिरामायणस्य बालकाण्डसमीक्षा-डॉ विमलेश झा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?