सरलमनुष्यस्य दायित्वम्
संस्कृतवर्ग-अनन्तरं विरामकाले एकः छात्र: मम समीपम् आगत्य उपविष्टवान्। सेल्फिचित्रं कर्षयितुं प्रयत्नं कृतवान्। दुःखस्य विषयः अन्यैः छात्रैः सह चर्चायां मग्न: आसम् तस्मात् कारणात् मया तं छात्रं प्रति ध्यानं न प्रदत्तम्। चर्चा अनौपचारिकरूपेण जायमाना आसीत् अत: क: कुत्र किं करोति इति अवधानम् एव न आसीत्। तेन छात्रेण एकं सेल्फिचित्रं तु कर्षितं किन्तु तस्मिन् सेल्फिचित्रे मम मुखस्य दिशा अन्यत्र आसीत्। मम पुरत: उपविष्टेन एकेन छात्रेण सङ्केतं कृतं यत् “महोदय स: भवता सह चित्रं कर्षितुम् इच्छति इति।” अहं तं छात्रं तत्कालं पुन: आग्रहपूर्वकम् आहूत्वान् समीपम् उपवेशनं कारितवान् तेन सह सस्मितं निखलसतया सेल्फिचित्रं कर्षितवान् विनम्रभावेन क्षमायाचनां च कृतवान्। अहं प्रायः छात्रैः: सह चित्रकर्षणे गौरवस्य अनुभवं करोमि।
वस्तुतः कदाचित् छात्रा: सङ्कोचवशात् आग्रहं कर्तुं न शक्नुवन्ति। तेषाम् एतादृशस्य सङ्कोचस्य अपसारणार्थं वयं तेषाम् उत्साहवर्धनं कर्तुं शक्नुमः तथा तान् प्रोत्साहनं दातुं शक्नुम:।
इदं संस्कृताय इदं न मम।।🙌
आत्मानम् आहुतं मन्ये वन्दे संस्कृतमातरम्।।🧡
~ संस्कृतभाषीदेवेशः
