By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रपतिपदासीना द्रौपदी मुर्मुः संसदः संयुक्तसम्मेलनम् अभिसंबोधितवती
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रपतिपदासीना द्रौपदी मुर्मुः संसदः संयुक्तसम्मेलनम् अभिसंबोधितवती
राष्ट्रीयवार्ताः

राष्ट्रपतिपदासीना द्रौपदी मुर्मुः संसदः संयुक्तसम्मेलनम् अभिसंबोधितवती

डॉ.अमनदीप शर्मा
Last updated: 2026/01/29 at 7:14 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

राष्ट्रपतिपदासीना द्रौपदी मुर्मुः संसदः संयुक्तसम्मेलनम् अभिसंबोधितवती ।
हिमसंस्कृतवार्ता: – राष्ट्रपतिपदासीना द्रौपदीमुर्मुः अकथयत् यत् सर्वकारः यथार्थतया सामाजिक-न्यायाय पूर्णतया प्रतिबद्धः अस्ति, फलतः गतदशके पञ्चविंशति-कोटिजनाः निर्धनरेखाम् अतिक्रमितवन्तः। आयव्यय-सङ्कल्पन-सत्रस्य प्रथमदिने संसदः उभयसदनयोः संयुक्तसम्मेलनम् अभिसंबोधयन्ती राष्ट्रपतिः मुर्मुः अवदत् यत् सर्वकारस्य तृतीये कार्यकाले निर्धनानां सशक्तीकरणस्य अभियानं महत्तरगत्या प्रावर्ततेति। राष्ट्रपतिः मुर्मुः अवदत् यत्, चतुर्दशोत्तर‌द्विसहस्र-तमवर्षस्य आरम्भे सामाजिकसुरक्षायाः योजनाः केवलं पञ्चविंशति-कोटिजनान् एव प्राप्तुम् अशक्नोत्। सा अवोचत् यत्, सर्वकारस्य निरन्तरप्रयासेण अद्य प्रायः पञ्चनवति-कोटिषु भारतीयेषु सामाजिकसुरक्षाव्यवस्था अस्ति। राष्ट्रपतिः अवदत् यत्, “सबका साथ, सबका विकास” इति परिकल्पना देशस्य सर्वनागरिकाणां जीवनं सकारात्मकरूपेण परिवर्तयति । आपरेशन् सिन्दूर इत्यभियानस्य समये भारतीय-रक्षासेनानां शौर्यस्य पराक्रमस्य च प्रशंसां कुर्वन्ती सा उक्तवती यत्, देशः स्वसम्पदायाः उपयोगेन आततायिनां आधारशिबिराणि नाशयत्। सा अवोचत् यत् सर्वकारेण दृढः सन्देशः प्रेषितोऽस्ति यत् भारतस्य उपरि कस्यापि आततायिनः आक्रमणस्य दृढः निर्णायकश्च प्रतिकारः भविष्यतीति। सा अवोचत् यत्, आपरेशन् सिन्दूर इत्यस्य अनन्तरं, मेड्-इन्-इण्डिया इत्यस्योपरि रक्षा-मञ्चेषु विश्वासः प्रबलः अभवत् । राष्ट्रपतिः अवदत् यत् सर्वकारस्य नीतिम् अनुसृत्य सुरक्षासैनिकाः अपि माओवादी-भयोत्पादनस्य विरुद्धं निर्णायकरूपेण कार्यम् अकुर्वन्। सा अवोचत् यत्, वर्षेभ्यः देशस्य सपादशताधिकेषु मण्डलेषु असुरक्षायाः, भयस्य, अविश्वासस्य च वातावरणम् आसीत्। सा अवोचत् यत् ग्राम्यक्षेत्रेषु वृत्यवसराणां विकासस्य च कृते विकसितभारत जी राम जी इति नामिका योजना अधिनियमितास्ति । राष्ट्रपतिः मुर्मुः अवदत् यत् इयं योजना ग्रामीणविकासाय नूतनां गतिं ददाति, कृषकाणां, पशुपालकानां, मत्स्यपालकानां च कृते नूतनाः सुविधाः च कल्पयति । सा अवदत् यत्, गत दशैकादश वर्षेषु, भारतं प्रत्येकस्मिन् क्षेत्रे स्वस्य आधारं सुदृढम् अकरोत् तथा च वर्षोऽयं विकसित-भारतं प्रति यात्रायाः प्रमुखः आधारः अस्ति।

राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः संसदः उभयोः सदनयोः संयुक्तसभायाम् अभिभाषणम् अद्यतनीयस्य भारतस्य उल्लेखनीयविकासयात्रां प्रतिबिम्बयति- प्रधानमन्त्री ।
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः संसदः उभयोः सदनयोः संयुक्तसभायाम् अभिभाषणम् अद्यतनीयस्य भारतस्य उल्लेखनीयविकासयात्रां प्रतिबिम्बयति । प्रधानमन्त्री अवदत् यत्, सम्बोधनं विकसितभारतस्य निर्माणस्य महत्त्वे केन्द्रितम् आसीत्। सम्बोधनमिदं सुदृढस्य आत्मनिर्भरस्य च राष्ट्रस्य निर्माणेन सह देशस्य संयुक्ताकांक्षामपि प्रतिबिम्बयति। तेनोदीरितं यत् कृषकाणां, यूनां, निर्धनानां, वञ्चितानां च कृते सतत प्रयासाणां प्रकाशनेन सह अस्मिन् भाषणे विविधाः विषयाः अपि निहिताः आसन् ।

You Might Also Like

NEP 2020 सर्वकारस्य २०३० पर्यन्तं विद्यालयेषु शत-प्रतिशतं नामांकनस्य लक्ष्यम्

भारतीयस्वतंत्रतान्दोलने नेताजीसुभाषचन्द्रबोसस्य योगदानम्

गणतन्त्रभारतसमीक्षा -डॉ विमलेश झा,

भारतं यूरोपीयसङ्घ च ऐतिहासिकं मुक्तव्यापारसमन्वयं निश्चितं कृतवन्तौ

राष्ट्रपतिना २०२६ तमवर्षस्य १३१ पद्मपुरस्काराणाम् अनुमोदनं कृतम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article हिमाचलदर्शनम्- हाटकोटीमन्दिरम्
Next Article पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?