राष्ट्रपतिना २०२६ तमवर्षस्य १३१ पद्मपुरस्काराणाम् अनुमोदनं कृतम्
हिमसंस्कृतवार्ता। राष्ट्रपतिना २०२६ तमवर्षस्य १३१ पद्मपुरस्काराणाम् अनुमोदनं कृतम् अस्ति ।पुरस्कारसूचौ पञ्चपद्मविभूषणाः, त्रयोदशपद्मभूषणाः, ११३ पद्मश्रीः च सन्ति। सम्मानितानां सूचौ नवदश महिलाः, १६ मृत्योः अनन्तरं च सन्ति ।
पद्यविभूषणं प्राप्तवन्तः-
कलाक्षेत्रे उत्कृष्टयोगदानस्य कृते प्रसिद्धः चलच्चित्रनटः धर्मेन्द्रसिंहदेओलः मरणोत्तरं पद्मविभूषणेन पुरस्कृतः अस्ति । लोकसेवायाः कृते केरलतः के.टी. थोमसः, कलाक्षेत्रे उत्तरप्रदेशात् एन.राजम, साहित्यस्य कृते केरलतः पी.नारायणन् च देशस्य द्वितीयं सर्वोच्चनागरिकसम्मानं प्राप्तवन्तः। केरलस्य पूर्वमुख्यमन्त्री वि. अच्युथानन्दनः लोकसेवायां योगदानं कृत्वा मरणोत्तरं पद्मविभूषणेन पुरस्कृतः अस्ति। एतदातिरिक्तं तमिलनाडुतः नोरी दत्तात्रेयदुः विजय अमृतराजः च, तमिलनाडुतः एस.के.एम. मायलानन्दनः, शतावधानी आर गणेशः, उदयकोटकः, वेल्लाप्पल्ली नटेसनः च पद्मविभूषणपुरस्कारं प्राप्तवन्तः। पीयूष पाण्डेय, वि.के. मल्होत्रा, शिबु सोरेन् च मृत्योः पश्चात् पद्मविभूषणेन पुरस्कृतौ स्तः।
पद्मभूषणं प्राप्तवन्तः
पद्मभूषणपुरस्कृतानां सूचौ गायिका अलकायाग्निकः, उत्तराखण्डस्य पूर्वमुख्यमन्त्री भगतसिंहकोश्यारी, तमिलनाडुतः कालीपट्टी रामासामी पलानिसामी, केरलतः अभिनेता मम्मुट्टी च सन्ति।
पद्मश्री
चतुर्थः सर्वोच्चः नागरिकसम्मानः पद्मश्रीपुरस्कारप्राप्तानाम् सूची सर्वकारेण प्रकाशिता अस्ति। कला, सामाजिककार्यं, लोकसेवा, चिकित्सा, क्रीडा इत्यादिषु विविधक्षेत्रेषु विशिष्टसेवायाः कृते एकशतं त्रयोदशजनाः पद्मश्रीपुरस्कारेण सम्मानिताः भविष्यन्ति।
पद्मपुरस्कारविजेतृषु कर्णाटकतः साहित्ये शिक्षायां च आङ्केगौड़ा, महाराष्ट्रतः चिकित्साशास्त्रे आर्मिदा फर्नाण्डिजः, मध्यप्रदेशात् क्रीडायां भगवानदास रायकवाडः, महाराष्ट्रतः कलाविषये भिखल्या लडाक्यधिन्धा, जम्मू-कश्मीरतः सामाजिककार्ये बृजलालभट्टः, छत्तीसगढतः सामाजिककार्ये बुधरी ताती, उडीसातः साहित्यशिक्षायां चरणहेब्रमः, उत्तरप्रदेशतः कलायां चिरंजीलालः यादवः, तेलगांनातः शोधक्षेत्रे डॉ. कुमारसामी थांगराज, गुजराततः कलायां धरमलाल चुनिलालः पांड्या, लद्दाखतः चिकित्साक्षेत्रे डॉ. पद्मगुरमीतः, तमिलनाडुतः पशुचिकित्सकः डॉ. पुनिया मूर्ति नटेसन, उत्तरप्रदेशात् चिकित्सायां डॉ. श्यामसुंदरः, राजस्थानात् कलायां गुफ्रुद्दीन मेवाती जोगी, मेघालयात् सामाजिकक्षेत्रे हाली वार, सामाजिककार्ये चंडीगढ़तः इंदरजीतसिंहः सिद्धू। पुडुचेरीतः कलाक्षेत्रे के.पझानिवेलः, मध्यप्रदेशात् साहित्य एवं शिक्षायां कैलाशचन्द्रपंतः, हरियाणातः कलायां खेमराजः सुन्दरियालः, केरलतः पर्यावरण एवं वृक्षारोपणे कोल्लकायिल-देवकियाम्माजी, ओडिशातः साहित्यम् एवं शिक्षायां महंतकुमारमिश्रः, गुजराततः कलायाम् मीर हाजीभाई कासंभाई, मध्यप्रदेशात् पर्यावरणे मोहननागरः, त्रिपुरातः साहित्यम् एवं शिक्षायां नरेशचन्द्रदेववर्मा, गुजराततः सामाजिककार्ये नीलेशविनोदः चंद्रमंडलेवाला, असमतः कलायां नुरुद्दीनः अहमद्, तमिलनाडुतः कलायाम् ओथुवरतिरुथनी स्वामीनाथनः, असमतः कलायां जोगेशदेवरी, असमतः कलायां पोखिला लेक्थेपी, आर तमिलनाडुतः, रामचन्द्र गौडबोले तथा छत्तीसगढतः चिकित्साशास्त्रे सुनीता गौडबोले, उत्तरप्रदेशात् कृषिविषये रघुपतसिंहः, महाराष्ट्रतः कलायां रघुवीर तुकाराम खेडकरः, तमिलनाडुतः कलायां राजेशपतिः कलियाप्पा गौण्डरः, दिल्लीतः राममूर्तिश्रीधरः, पशुपालन-दैरिंग-विषये रामा रेड्डी ममिडी तेलंगाना, कर्नाटकतः सामाजिककार्ये एस.जी.सुशीलम्मा, नागालैंडतः कलायां संग्युसांगः एस.पौंगनरः, जम्मू-कश्मीरात् साहित्य एवं शिक्षायां शफीशौकः, महाराष्ट्रतः कृषौ श्रीरंगदेवबालाडः, ओडिशातः कलायां सीमांचलपैट्रो, कर्नाटकतः चिकित्सायां सुरेशहानागवादी, राजस्थानतः कलायां तागारामभिल, टेचीगुबिनः अरुणाचलप्रदेशतः सामाजिककार्ये, तमिलनाडुतः कलायां तिरुवरूर-भक्तवत्सलमः, बिहारतः कलायां विश्वबंधुः, मणिपुरतः कलायां यमनम-जात्रासिंहः। एतेषां अतिरिक्तम् उत्तरप्रदेशात् मंगलाकपूरः, पश्चिमबङ्गतः अशोककुमारहल्दारः, पश्चिमबङ्गतः गम्भीरसिंह-योन्जोन्, पश्चिमबङ्गतः हरिमाधबमुखोपाध्यायः, पश्चिमबङ्गतः ज्योतीशदेबनाथः, पश्चिमबङ्गतः महेन्द्रनाथरायः, पश्चिमबङ्गतः तृप्तिमुखर्जी च पद्मश्रीपुरस्कारेण सम्मानिताः सन्ति।असाधारणं विशिष्टं च सेवां कृत्वा पद्मविभूषणपुरस्कारः, विशिष्टसेवायाः कृते पद्मभूषणपुरस्कारः, विशिष्टसेवायाः कृते पद्मश्रीः च दीयते।
